रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 179, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १४७
प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं
व्यानम्रीकृतकन्धरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥
इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः रोमाञ्चा-
दिभिरनुभावितः, हर्षादिभिः पोषित उत्साहो व्यज्यमानोऽपि गुणः ।
बलेर्दानोत्साहव्याजमुखेन स्तुतिरियम् । सस्मितेनेषद्धसता हरिणा वामनेन एकेन
पादेन अब्धिभिः सागरैः द्वीपैरष्टभिश्च कुलपर्वतैः सहितां सप्तान्तरा मन्तर्वर्त्तिसप्त-
प्रकारघटितां वसुमतीम् पृथिवीम्, द्वितीयेन च पादेन सर्वां द्याम् ऊर्ध्वलोकमाक्रम्य
मन्दं समालोकितोऽसुरवरो बलिः भगवत्कृपाकटाक्षपातेन प्रादुर्भूतोऽभिव्यक्तो यः
परमः प्रमोदस्तेन निमित्तेन विदलन् परिस्फुटन् यो रोमाञ्चः स सञ्जातो यस्य तथा
भूतोऽथ च तत्क्षणम् समालोकनकाल एव व्यानम्रीकृतः कन्धरो येन स मौलिं स्वशिरो
वामनस्य पुरस्तृतीयपादविन्यासाय न्यस्तवान् इति पद्यार्थः । यद्वाऽत्र पद्ये सप्तान्तरा-
मिति द्वामित्यस्यैव विशेषणम्, भुव आदीनां षण्णामूर्ध्वलोकानाम् आद्यन्तौ समादाय
सप्तावकाशसम्भवात् । व्यानम्रीकृत्येत्यत्राभूततद्भावार्थकेन च्विप्रत्ययेनेतः पूर्वं
कन्धरस्य व्यानम्रत्वाभावः प्रतिपाद्यते । एतेन स्तुतिप्रकर्षः सूच्यते ॥
अत्र दानोत्साहस्य विभावादिभिर्व्यङ्ग्यत्वेपि प्रकृतबलिस्तुतिं प्रति गुणीभूत-
त्वात्तस्य न रसध्वनित्वमित्युपपादयति—इहेत्यादिना । हर्षादिभिरिति । अत्र
प्रमोदस्य वाच्यत्वेन व्यभिचारित्वाभावाद्व्यभिचारित्वेन निर्दिष्टो हर्षः प्रमोदाद्भिन्न
एवेति स्थितौ 'इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः' इति भावध्वनिप्रकरणे वक्ष्यमाण-
त्वेन विषयजन्यं सुखं हर्ष इति, यच्च विषयाभिव्यक्तं तत् प्रमोद इति भेदोऽनयोर्ज्ञेयः ।
तथा च हर्षस्य चित्तवृत्तिविशेषरूपता, प्रमोदस्य च तल्लिङ्गस्यात्मरूपता सूचिता
भवति । अत एव प्रमोदस्य पर इति विशेषणमप्युपात्तम् । तथा च न हर्षस्य व्यभि-
“जब भगवान् वामन ने एक विक्रम (पग) से सात समुद्रों, सात द्वीपों और सात
(अथवा आठ) कुलपर्वतों से युक्त सम्पूर्ण पृथिवी का और दूसरे विक्रम से सात
परकोटे वाले स्वर्गलोक का आक्रमण कर तीसरे विक्रम के लिए स्थान पाने की
दृष्टि से मुस्कुराकर बलि की ओर तिरछी नजर से देखा तब बलि को जो
परमानन्द की अनुभूति हुई उससे उसका सारा शरीर रोमाञ्चित हो उठा और
उसने तत्काल अपनी गर्दन झुकाकर भगवान् के सामने उनके तीसरे विक्रम के लिए
अपना शिर समर्पित कर दिया ॥"
इस कथन में बलि के दानोत्साह का आलम्बन विभाव भगवान् वामन हैं,
उनका बलि पर तीसरे विक्रम के स्थान के लिए कटाक्षपात उद्दीपन विभाव है,
रोमाञ्च आदि अनुभाव हैं और रोमाञ्चादि से व्यङ्ग्यमान हर्ष (आनन्दाकारा चित्त-
१२ र०