सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 194, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 194

१६२ रसगङ्गाधरः
अत्राहुः—
आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् ।
आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ।।
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते ।
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ।।
व्यभिचारिण इति यथासंख्यमन्वयः ।
सम्प्रति हास्यभेदप्रभेदानाह—अत्राहुरित्यादिना । विभावेक्षणमात्रत
इति । विभावो हासजनको विकृतवेषादिः, तस्य दर्शनमात्रादुत्पन्न इत्यर्थः । परस्थं
वर्णयति = हसन्तमपरमित्यादिना । अयमाशयः—यदा विकृतवेषादिविभावज्ञान-
युक्तमेकं हसन्तं पुरुषं दृष्ट्वा परो विभावमपश्यन्नपि हसति तदा परस्थो हास्य-
रसः । तत्र च एक एव विभाव एकत्र हासं प्रसूय परत्र तं संक्रामयति । एतच्च
हासस्याम्लरसादिवत्संक्रमणस्वभावत्वादुपपद्यते । अत्र हसत एकस्य पुरुषस्य हास
एव परस्य विभाव इति रसचन्द्रिकाव्याख्यानमसत्, हासस्य विभावत्वानुल्लेखात्,
अभिनवभारत्यामस्य स्पष्टं निरासाच्च । अतो हास एकस्थो निमित्तमात्रं परस्थ
इति युक्तम् । यद्येक एव हासः संक्रमणशीलः परत्रापि मृगमदवासनावत् प्रसरति,
अतो निमित्तत्वमपि न घटते । अधिकरणभेदाच्च भेदबोध इति मन्तव्यम् ।
अन्यथा संक्रमणस्वभावताभङ्गप्रसङ्गः । यस्य तु हसन्तमपरं दृष्ट्वापि न हासः
स्तत्र पूर्ववासनाया अभावस्तदुद्बोधाभावो वा हेतुः । यदा त्वेकं शोकाद्याविष्टं
दृष्ट्वा परोऽपि शोकादिमान् भवति तदा तत्र परस्य विभावज्ञाने तदुत्थ आत्मस्थ एव
शोकादिर्न परस्थः, तत्रान्यस्यैव शोकादेराविर्भावात् । यत्र तु एकनिष्ठशोकाद्या-
लम्बनविभावाज्ञानेऽपि शोकादिः संक्रान्त इव प्रतीयते तत्रान्यः शोकादिरेवैकशोका-
दिज्ञानजन्य इति न तत्रापि शोकादेः संक्रमणम् । तस्य च परगतशोकादेः शोकाद्या-
विष्टचित्तः पुरुषः एव विभावः । अत एव शोकाद्याश्रयैकपुरुषदर्शनापरनिष्ठ-
शोकाद्योश्चेष्टादिहेतुकैकपुरुषनिष्ठशोकाद्यनुमितिव्यवहितत्वमानुभविकम् । न चैवं
होती है ॥
हास्य रस के विषय में पूर्वाचार्यों ने यह कहा है—
हास्य रस के दो भेद हैं—आत्मस्थ और परस्थ । विकृत वेश-भूषादिस्वरूप
विभाव के अवलोकन-श्रवणादि से सहृदय में उत्पन्न (=अभिव्यक्त ) हास रस
आत्मस्थ है। किन्तु 'हसते हुए किसी व्यक्ति को देखकर हँसने वाले अन्य
व्यक्ति में अभिव्यक्त हास्य रस रस परस्थ है। हास की संक्रमणशीलता ही इस
भेद का कारण है जिसके चलते विभावज्ञान से एक व्यक्ति में अभिव्यक्त हास्य