रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 192, कुल 414 में से
संदर्भ में पढ़ें१६० रसगङ्गाधरः
तत्रेदं वक्तव्यम्—प्रतीयतां नामात्र विस्मय; परं त्वसौ कथंकारम्
[अद्भुतरस-]ध्वनिव्यपदेशहेतुः ? प्रतिपाद्यमहापुरुषविशेषविषयायाः
प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षंकत्वेनास्य गुणीभूतत्वात् । यथा महा-
भारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वां-
स्तथा भूतविशेषसङ्घान्' इत्यादौ वाक्यसन्दर्भे । इत्थ चास्य रसालंका-
भङ्गिर्गमनादिक्रियाप्रकारोऽपि अभिनवैव, तव धैर्यमपि लोकोत्तरम्, प्रभावश्च तथा
लोकोत्तर एव, अहो इति हर्षे विस्मये वा, एषा तवाकृतिरपि अलौकिकी, एष सर्गः
शरीरं च नूतनोऽपूर्वः !
अत्र वामनालम्बनः कान्त्यादिदर्शनोद्दीपितो विस्मयो व्यज्यमानो रसो
मुख्यत्वात् ध्वनिपदव्यपदेश्य इत्याशयः काव्यप्रकाशकाराणाम् । तं निराचष्टे—
तत्रेत्यादिना। प्रतीयतामिति । सर्वेषां लोकोत्तरत्ववर्णनाद् व्यज्यतां विस्मयः
कथञ्चिदित्यर्थः । गुणीभूतत्वादित्यस्य भक्तेरिति शेषः । भक्तिर्नैवात्रेत्यत्र अत्रशब्देन
चित्रमित्यादि पद्यं विवक्षितम्, तथा गीतोक्तमपि, प्रकरणात्तत्रापि भक्तिप्रतीतेः ।
दूरेत्यादि । सर्वत्रैव पद्ये वामनस्य लोकोत्तरधर्मवर्णनात्स्तुतिः प्रतीयत
एवेत्याशयः ।
इदमत्र विवेचनीयम्—प्रबन्धकाव्यान्तर्गतम् अङ्गरसाभिव्यञ्जकं पद्यं तत्तद्रस-
ध्वनेरुदाहरणं भवितुमर्हति न वेति । तत्राद्ये निरपेक्षतयैव तस्य तत्त्वं निर्वाह्यम् ।
अन्त्ये तु स्वतः प्राधान्येऽपि अङ्गिरसापेक्षया प्राधान्याभावान्न तद् रसध्वनेरुदा-
हरणम् । तथा च प्रबन्धेऽङ्गिरसाभिव्यञ्जकं वाक्यं तत्तद्रसध्वनेरुदाहरणम्, अन्येषां
चोदाहरणानि यथायथं मुक्तकानि, तत्तद्रसप्रधानकाव्यगतानि तत्तदङ्गिरसाभिव्यञ्ज-
कानि, अङ्गयपेक्षयाऽधिकप्रकर्षवत्त्वादङ्गतयाभिमतान्यप्यनङ्गत्वं प्राप्तानां तत्त-
द्रसानामभिव्यञ्जकानि च वाक्यानीति । यथा तु सम्प्रदायस्तथा पूर्व एव पक्षः
समर्थ्यते ।
यह भगवान् वामन के प्रति बलि की उक्ति है । इस विषय में मेरा यही कथन
है कि यहाँ वामनालम्बनक बलिनिष्ठ विस्मय की प्रतीति भले हीं हो पर वह
अद्भुतरसध्वनिपर्यन्त प्रकर्ष को प्राप्त नहीं है, क्योंकि इसमें तो वामन के
विषय मे बलि में जो महापुरुषत्व-बोध है उससे बलि में उत्पन्न वामन-विषयक
भक्ति (=निरतिशय प्रेम ) हीं प्रधान रूप में अभिव्यक्त हो रही है, प्रतीयमान
विस्मय तो इसी भक्ति का पोषक—अङ्ग है, प्रधान नहीं । अतः इस विस्मय
की स्थिति तो वही है जो गीता में "हे भगवन् ! तेरे शरीर में तो मैं सभी
देवों और भूत-भौतिक पदार्थों को समाहित देख रहा हूँ" ऐसा कहने वाले