रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 180, कुल 414 में से
संदर्भ में पढ़ें१४८ रसगङ्गाधरः
प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन
'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्त-
मुदाहरणं परास्तम्, तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणी-
यत्वात् ।
चारिणोऽभिव्यङ्ग्यत्वहानिः । अत एव च तृतीयचरणस्यादौ 'आविर्भूतपरो' इति
पाठः श्रेयान् इति मन्यामहे । प्रागन्येत्यादि । यदा पूर्वोक्ते यस्योद्दामेत्यादिपद्ये
राजभिन्नकामगवगीगतस्योत्साहस्यापि कविकृताया राजस्तुतेरुत्कर्षधायकत्वात्
स्तुत्यङ्गत्वं तदात्र सुतरामसुरराजबलिगतस्य दानोत्साहस्य कविकृतबलि-
स्तुत्युत्कर्षधायकत्वेन स्तुत्यङ्गत्वमिति न तस्य ध्वनित्वमित्यर्थः । एतेन = अन्याङ्ग-
भूतस्य रसस्य ध्वनिव्यपदेश्यत्वाभावेन । त्यागः सप्तेत्यादि । इदं च वीरचरिते
शिवधनुर्भङ्गेन कुपितस्य परशुरामस्य शमनाय रामकृता तत्स्तुतिः । वत्सलाञ्छनः
काव्यप्रकाशादिटीकाकृत् । विश्वनाथेनापीदमेव दानवीरोदाहरणमुक्तम् । पूर्णं च
पद्यमेवं पठ्यते तत्र—
उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः
शौर्यं यत्तु न तद् गिरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
ब्रह्मक्षत्रतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥
इति । अत्र चतुर्थपादेन स्पष्टमेव वक्तू रामभद्रस्य परशुरामस्तुतौ तात्पर्याव-
धारणात् प्रतीयमानोऽपि परशुरामगतो दानोत्साहस्तदीयस्तुतौ गुणीभूतत्वान्न ध्वनि-
व्यपदेशार्ह इति सन्दर्भार्थः ।
वृत्ति) आदि व्यभिचारिभाव हैं। इस प्रकार यहां बलिनिष्ठ दानोत्साह व्यज्यमान अवश्य
है, किन्तु यह प्रधान रूप में विवक्षित नहीं है । परन्तु जब पूर्वनिर्दिष्ट 'यस्योद्दाम....'
इत्यादि पद्य में कामधेनु का व्यज्यमान उत्साह प्राधान्येन विवक्षित राज-स्तुति का
अङ्ग है तब यहां तो बलि का दानोत्साह प्रधान रूप में वक्तृ तात्पर्यविषयीभूत
बलि की स्तुति का अङ्ग है हीं । अतः इसे दानवीररस का उदाहरण देना उचित
नहीं ।
इस प्रकार गुणीभूत उत्साह का रसध्वनिपदव्यपदेश्य न होना जब प्रमाणित हो
चुका तब काव्यप्रकाश आदि ग्रन्थों के टीकाकार 'वत्सलाञ्छन' द्वारा जो महावीर-
चरित के द्वितीय अङ्क से दानवीररसध्वनि का उदाहरण दिया गया है वह असङ्गत
सिद्ध हो जाता । उदाहृत पद्य का अर्थ निम्ननिर्दिष्ट है—
(हे भगवन् ? आप ब्राह्मणोचित एवं क्षत्रियोचित दोनों प्रकार के तप के निधान