सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

चतुर्थोऽङ्कः [ १३३
अतिकरुणं मन्त्रयते भरतः—भरत के दीनता से भरे वचनों को सुनकर सीता
करुणा से भर जाती है तथा पति से प्रार्थना करती है कि भरत की बात को ध्यान
से सुन लें ।
कैकेयीमातः—कैकेयी माता यस्य स = कैकेयीमातः । यह सम्बोधन साभि-
प्राय है । इसके द्वारा राम यह अभिव्यक्त करना चाहते हैं कि कैकेयी के कारण ही
पिता ने ये वचन दिये थे, अतः तुमको निश्चय रूप से उनका पालन करना है ।
भरतः— यावद्भविष्यति भवन्नियमावसानं
तावद् भवेयमिह ते नृप ! पादमूले ।
रामः— मैवं नृपः स्वसुकृतैरनुयातुसिद्धिं
मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥२४॥
[अन्वयः—नृप ! यावत् भवन्नियमावसानं भविष्यति, तावत् इह ते पाद-
मूले भवेयम् ।।
मा एवम् । नृपः स्वसुकृतैः सिद्धिम् अनुयातु । चेत् स्वराज्यं न परिरक्षसि,
मे शापितः ॥२४॥]
हिन्दी रूपान्तर—
भरत—
अर्थ [श्लोक २४]—हे राजन् ! जब तक कि आपके नियम, चौदह वर्षों के
वनवास की समाप्ति होगी, तब तक यहाँ आपके चरणों की सेवा में रहूँ ।
रामः—
ऐसा मत कहो । राजा, हमारे आदरणीय पिता अपने सत्यवादित्व
आदि पुण्यों के प्रभाव से सिद्धि को, स्वर्ग आदि अनन्त सुखों को प्राप्त
करें । यदि तुम अपने राज्य की रक्षा नहीं करते, तो तुमको मेरी शपथ है ॥२४॥
संस्कृत-व्याख्या—नृप हे राजन् ! यावत् यावत्कालपर्यन्तं भवन्नियमावसानं
भवतः नियमस्य चतुर्दशवर्षपर्यन्तं यद् वने निवसनं तस्य अवसानं समाप्तिः भविष्यति,
तावत् तावत्कालपर्यन्तम् इह अस्मिन्नेव वन प्रदेशे ते तव पादमूले च चरणसेवायां
तवाश्रये भवेयम् निवासं कुर्याम् । इति मे प्रार्थना ।
मा एवम् अनेन प्रकारेण, अहं वने निवत्स्यामि इति प्रकारेण न कथय ।
नृपः राजा दिलीपः अस्मत्पितृपादाः स्वसुकृतैः स्वीयैः सत्यवादित्वादिपुण्य-
कर्मफलैरेव सिद्धिं स्वर्गाद्यनन्तसुखभोगफलम् अनुयातु प्राप्नोतु । यदि त्वं मया सह
वने निवत्स्यसि, राज्यस्य च रक्षां न करिष्यसि, पितुः वचनमन्यथा भविष्यति । एवं
च स राजा मिथ्यावादी भूत्वा विनष्टपुण्यो भूत्वा स्वर्गादिकं न प्राप्स्यसि । अतः

१३४ ] प्रतिमानाटकम्
चेत् यदि त्वं स्वराज्यं स्वकीयं शासनाधिपत्यं न परिरक्षसि परित्रायसे, मे शापितः
अहं तुभ्यं शपथेन बध्नामि अहं त्वां शपथेनेदं कथयामि ॥ २४॥
व्याकरण—भवतः नियमस्य अवसानम् = भवन्नियमावसानम् । अव + √
सो + ल्युट् (अन) अवसान ।
स्वैः सुकृतैः = स्वसुकृतैः । सु + √ कृ + क्त = सुकृत । √ शप् + णिच् + क्त =
शापित ।
छन्दः—वसन्ततिलका ।
अनुत्तरमभिहितम्—न विद्यते उत्तरः यस्य तत् = न + उत्तरं = अनुत्तर ।
अभि + धा + क्त = अभिहित । राम ने जो कहा था, भरत के पास उसका कोई
उत्तर नहीं था, क्योंकि पिता को मिथ्यावादी बनाना उसके लिये अनुचित था ।
कः समयः—समय के अनेक अर्थ हैं—शपथ, काल, समझौता, शर्त आदि ।
यहाँ समय पद का अर्थ शर्त है—"समया—शपथाचारकालसिद्धान्तसंविदः” ।
प्रतिग्रहीतुम्—सामान्यतः 'प्रतिगृहीतुम्' पद का अर्थ है—स्वीकार करने के
लिये, लेने के लिये । परन्तु यह अर्थ यहाँ संगत नहीं है, क्योंकि भरत चाहते हैं कि
वनवास की अवधि पूरी होने पर वे पुनः राम को राज्य वापिस कर दें । अतः यहाँ
अन्तर्भावित ण्यथं मानने पर अर्थ की संगति हो सकेगी । इसका अर्थ होगा कि
'प्रतिग्राहयितुम्' आप को राज्य स्वीकार कराना चाहता हूँ ।
भरतः—हन्त, अनुत्तरमभिहितम् । भवतु समयतस्ते राज्यं परिपाल-
यामि ।
रामः—वत्स ! कः समयः ?
भरतः—मम हस्ते निक्षिप्तं तव राज्यं चतुर्दशवर्षान्ते प्रतिगृहीतु-
मिच्छामि ।
रामः—एवमस्तु ।
भरतः—आर्य ! श्रुतम् ? आर्ये ! श्रुतम् ? तातः ! श्रुतम् ?
सर्वेः—वयर्माप श्रोतारः ।
भरतः—आर्य ! अन्यमपि वरं हर्तुमिच्छामि ।
रामः—वत्स ! किमिच्छसि ? किमहं ददामि ? किमहमनुष्ठास्यामि ?
भरतः— पादोपभुक्ते तव पादुके मे
एते प्रयच्छ प्रणताय मूर्ध्ना ।
यावद् भवानेष्यति कार्यसिद्धिं
तावद् भविष्याम्यनयोर्विधेयः ॥२५॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

चतुर्थोऽङ्कः । १३५
[अन्वयः—पादोपभुङ्क्ते एते तव पादुके मूर्ध्ना प्रणताय मे प्रयच्छ। यावत्
भवान् कार्यसिद्धिम् एष्यति, तावद् अनयोः विधेयः भविष्यामि ॥२५॥]
हिन्दी रूपान्तर—
भरत—हाय ! इस प्रकार कहा है कि इसका उत्तर नहीं हो सकता।
अच्छा, शर्त पूरा करने पर तुम्हारे राज्य की रक्षा करूँगा।
राम—वत्स ! तुम्हारी क्या शर्त है ?
भरत—मेरे हाथ में तुमने जो राज्य धरोहर रूप में रखा है। उसको चौदह
वर्षों के अन्त में वापिस करना चाहता हूँ।
राम—ऐसा ही हो।
भरत—आर्य ! आपने सुन लिया है ? आर्ये ! आपने सुन लिया है ?
तात ! आपने सुन लिया है ?
सब लोग—हम सब भी श्रोता हैं।
भरत—आर्य ! कुछ और भी वर आपसे लेना चाहता हूँ।
राम—वत्स ! क्या चाहते हो ? तुमको मैं क्या दूँ ? तुम्हारे लिये मैं
क्या करूँ ?
भरत—
अर्थ [श्लोक २५]—पैरों में पहनी गई इन अपनी खड़ाउओं को, सिर से
प्रणाम करने वाले मुझको दे दीजिये। जब तक आप अपने कार्य को सफल करके
आयेंगे, तब तक मैं इन खड़ाउओं का आज्ञापालक होकर रहूँगा ॥२५॥
संस्कृत-व्याख्या—पादोपभुङ्क्ते पादाभ्यां चरणाभ्याम् उपभुङ्क्ते उपभोगं
कारिते, व्यवहृते इत्यर्थः, एते इमे तव रामस्य पादुके काष्ठनिर्मिते पादत्राणे मूर्ध्ना
शिरसा प्रणताय प्रणामं कुर्वते, शिरोऽवनमय्य प्रणमते मे मह्यं प्रयच्छ देहि। यावत्
यदवधि भवान् कार्यसिद्धिम् एष्यति कार्य सफलतामधिगम्य अत्र आगमिष्यति, तावत्
तावत्कालपर्यन्तम् अनयोः तव पादुकयोः विधेयः आज्ञावशवर्ती भविष्यामि। वस्तुतः
तव पादुके शासनाधिकारं निर्वर्त्स्यथ। अहं तु तयोः वशवर्ती भूत्वा राज्याधिकार-
वहनकार्यं करिष्यामि ॥२५॥
व्याकरण—पादाभ्याम् उपभुङ्क्ते = पादोपभुङ्क्ते। उप + भुंज् + क्त =
उपभुक्त। प्र + √ नम् + क्त = प्रणत। वि + √ धा + यत् = विधेय।
छन्दः—इन्द्रवज्रा छन्द।
❖-❖-❖
रामः—(स्वगतम्) हन्त भोः !
सुचिरेणापि कालेन यशः किञ्चिन्मयार्जितम्।
सुचिरेणैव कालेन भरतेनाद्य सञ्चितम् ॥२६॥

१३६ ] प्रतिमानाटकम्
[अन्वय:—सुचिरेण अपि कालेन मया किञ्चिद् यशः अर्जितम् । अद्य भरतेन
अचिरेण एव कालेन सञ्चितम् ॥२६॥]
हिन्दी रूपान्तर—
राम—(मन में) हे लोगो ! आश्चर्य की बात है—
अर्थ [श्लोक २६]—बहुत अधिक समय में मैंने कुछ यश उपार्जित किया
था, परन्तु आज भरत ने बहुत कम समय में उसको सञ्चित कर लिया है ॥२६॥
संस्कृत-व्याख्या—सुचिरेण अतिदीर्घेण अपि कालेन समयेन मया रामेण
किञ्चित् स्वल्पमेव यशः पित्राज्ञापालनरुपा कीर्तिः अर्जितं सम्पादितमासीत् परन्तु
अद्य इदानीमस्मिन् समये भरतेन अचिरेण अतिस्वल्पेनैव कालेन समयेन तद् यशः
सञ्चितमेकत्रीकृतम् । पितृभक्तोऽहं तदाज्ञापरायणश्चेति यशः मया चिरकालं यावत्
परिश्रमं कृत्वा उपार्जितमासीत्, परन्तु भरतेन इदानीं भ्रातृभक्तिश्रद्धादिगुणान् प्रदर्श-
यता न केवलं तादृशं यशः परन्तु ततोऽप्यधिकं स्वल्पेन कालेनैव सञ्चितम् ॥२६॥
व्याकरण—सम् + चि + क्त = सञ्चित ।
छन्दः—अनुष्टुप् ।
अलङ्कार—उदात्त । भरत की विशेष कीर्ति का कथन करने से उदात्त
अलङ्कार है ।
सीता—अय्यउत्त ! णं दीयदि खु पुडमजाअणं भरदस्स । [आर्यपुत्र ! ननु
दीयते खलु प्रथमयाचनं भरतस्य ।]
रामः—तथास्तु । वत्स ! गृह्यताम् ।
भरतः—अनुगृहीतोऽस्मि । (गृहीत्वा) आर्य ! अत्राभिषेकोदकमावर्जयितु-
मिच्छामि ।
रामः—तात ! यदिष्टं भरतस्य तत् सर्वं क्रियताम् ।
सुमन्त्रः—यदाज्ञापयत्यायुष्मान् ।
भरतः—(आत्मगतम्) हन्त भोः ।
श्रद्धेयः स्वजनस्य पौररुचितो लोकस्य दृष्टिक्षमः
स्वर्गस्थस्य नराधिपस्य दयितः शीलान्वितोऽहं सुतः ।
भ्रातॄणां गुणशालिनां बहुमतः कीर्तेर्महद् भाजनं
संवादेषु कथाश्रयो गुणवतां लब्धप्रियाणां प्रियः ॥२७॥
[अन्वयः—अहं स्वजनस्य श्रद्धेयः, पौररुचितः, लोकस्य दृष्टिक्षमः, स्वर्ग-
स्थस्य नराधिपस्य दयितः शीलान्वितः सुतः, गुणशालिनां भ्रातॄणां बहुमतः, कीर्तेः
महद् भाजनं, गुणवतां संवादेषु कथाश्रयः, लब्धप्रियाणां प्रियः ॥२७॥]

ध ि कWait, look at:अत्यादिकादर? Wait! Look at अ त् य: does it have ा? Wait, compare त्यinअत्यन्तwithत्याinअत्यादर! If it were अत्यादरादरthat makes no sense. Could it beअत्यधिकादर? Wait, between यandक: Is it धि? The loop at the top of धis closed? Wait,धhasिwhich goes over to the left, aboveय! Wait, look at line 24: अ त ् यThen aboveयis the curve ofिfromध! Then ध! Then क? Wait, is there a क? Wait! Between यandादर: ध ि क? No, wait! Let's look at the letters: अ (a) त्य (tya) ा (ā) -> अत्या द (da) ि (i) -> दि? Wait, look at अत्यधिकादरविषयः: Wait, what if it is: अत्यधिकादरविषयः`?
Let's spell letter by letter:

  1. अ

१३८ ] प्रतिमानाटकम्
अत्राभिषेकोदक...—भरत चाहते हैं कि उनके ऊपर इस बात का कलङ्क
किञ्चिन्मात्र भी न रहे कि वे राज्य के लोभी हैं । अतः राम के प्रतिनिधि के रूप
में उनकी पादुकाओं को लेकर उन्हीं पर राज्याभिषेक के जल को छिड़कवाते हैं ।
राज्यं मुहूर्तमपि नोपेक्षणीयम् — राज्यशासन निरन्तर शासक की दृष्टि
चाहता है कि राजा को सतत जागरूक रहना चाहिये । क्षण भर की लापरवाही भी
बहुत अधिक विनाश का कारण हो सकती है ।
अलमतिस्नेहेन — भरत को जाना तो पड़ेगा ही । अतः राम का सीता से
कहना है कि तुम अब बहुत अधिक स्नेह मत दिखाओ और भरत को जाने दो ।
रामः — वत्स कैकेयीमातः ! राज्यं नाम मुहूर्तमपि नोपेक्षणीयम् ।
तस्मादद्यैव विजयाय प्रतिनिवर्ततां कुमारः ।
सीता -- हं, अज्ज एव्व गमिस्सदि कुमारो भरदो ? [हूँ, अद्यैव गमिष्यति
कुमारो भरतः ? ]
रामः -- अलमतिस्नेहेन । अद्यैव विजयाय प्रतिनिवर्ततां कुमारः ।
हिन्दी रूपान्तर—
राम—वत्स कैकेयीपुत्र ! राज्य की क्षण भर भी उपेक्षा नहीं करनी चाहिये ।
इसलिये आज ही विजय प्राप्त करने के लिये कुमार लौट जावें ।
सीता—हूँ, कुमार भरत आज ही लौट जायेंगे ?
राम—अत्यधिक स्नेह मत दिखाओ । विजय प्राप्त करने के लिये कुमार
आज ही लौट जावें ।
भरतः—आर्य ! अद्यैवाहं गमिष्यामि ।
आशावन्तः पुरे पौराः स्थास्यन्ति त्वद्दिदृक्षया ।
तेषां प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनात् ॥२८॥
[अन्वयः—पुरे आशावन्तः पौराः त्वद्दिदृक्षया स्थास्यन्ति । त्वत्प्रसादस्य
दर्शनात् तेषां प्रीतिं करिष्यामि ॥२८॥]
हिन्दी रूपान्तर—
भरत—आर्य ! मैं आज ही चला जाऊँगा ।
अर्थ [श्लोक २८]—नगर में आशाओं से भरे हुये नगरनिवासी आपके
दर्शन की इच्छा कर रहे होंगे । आपकी कृपा रूप इन पादुकाओं का दर्शन कराकर
उनको प्रसन्न करूँगा ॥२८॥
संस्कृत व्याख्या—पुरे नगरे आशा वन्तः उत्कण्ठावन्तः रामः प्रतिनिवर्तिष्यते
तस्य राज्याभिषेको भविष्यति, स च राजसिंहासनमधिरुह्य प्रजारञ्जनं करिष्यतीति

चतुर्थोऽङ्कः [ १३६

हृदयेषु तवागमनाभिलाषां धारयन्ति इति भावः, पौराः नगरनिवासिनः जनाः
त्वद्दिदृक्षया तव दर्शनेच्छया स्थास्यन्ति भविष्यन्ति । त्वत्प्रसादस्य त्वया दत्तयोः प्रसाद-
रूपयोः पादुकयोः दर्शनात्, त्वां प्रतिनिवर्तयितुमशक्तः भरतः पादुकयोरेवाभिषेकं कृत्वा
आनीतवान् च ते इति पौराः द्रक्ष्यन्ति, तेषां पौराणां प्रीतिं प्रसन्नतां करिष्यामि
विधास्यामि । ते पादुके एव द्रष्ट्वा ते तव दर्शनं प्राप्स्यन्ति ॥२८॥
व्याकरण—आशाः सन्ति येषां ते = आशा + मतुप् = आशावत् । प्रथमा का
बहुवचन = आशावन्तः । तव दिदृक्षया = त्वद्दिदृक्षया । द्रष्टुम् इच्छा = दिदृक्षा ।
√दृश् + सन् + अ + टाप् = दिदृक्षा । तृतीया विभक्ति का एकवचन दिदृक्षया ।
√प्री + क्तिन् = प्रीति ।
छन्दः—अनुष्टुप् ।
सुमन्त्रः—आयुष्मन् ! मयेदानीं किं कर्तव्यम् ?
रामः—तात ! महाराजवत् परिपाल्यतां कुमारः ।
सुमन्त्रः—यदि जीवामि, तावत् प्रयतिष्ये ।
रामः—वत्स कैकेयीमातः ! आरुह्यतां ममाग्रतो रथः ।
भरतः—यदाज्ञापयत्यार्यः ।
(रथमारोहतः)
रामः—मैथिलि ! इतस्तावत् । वत्स लक्ष्मण ! इतस्तावत् । आश्रम-
पदद्वारमात्रमपि भरतस्यानुयात्रं भविष्यामः ।
(इति निष्क्रान्ताः सर्वे)
हिन्दी रूपान्तर—
सुमन्त्र—आयुष्मान् ! मुझे अब क्या करना है ।
राम—तात ! कुमार भरत का महाराज के समान ही पालन करें ।
सुमन्त्र—यदि जीवित रहूँगा, तो प्रयत्न करूँगा ।
राम—वत्स कैकेयीपुत्र ! मेरे सामने ही रथ पर चढ़ जाओ ।
भरत—आर्य जैसा आदेश देते हैं ।
(सुमन्त्र और भरत रथ पर चढ़ते हैं)
राम—सीते ! इधर आओ । वत्स लक्ष्मण ! इधर आओ । आश्रम के द्वार
तक भरत के पीछे चलते हैं ।
(सब बाहर निकल जाते हैं)
इति चतुर्थोऽङ्कः
चतुर्थ अङ्क पूरा हुआ
इति भासविरचितप्रतिमानातके डा० कृष्ण कुमारकृतव्याख्याः
चतुर्थोऽङ्कः समाप्तः

पञ्चमोऽङ्कः
(ततः प्रविशति सीता तापसी च)
सीता—अय्ये ! उवहारसुमणाइण्णो सम्माजिदो अस्समो । अस्समपदविभ-
वेण अणुट्ठिठओ देवसमुदाआरो ता जाव अय्यउत्तो ण आअच्छदि, दाव इमाणं वालरु-
क्खाणं उदअप्पादाणेण अणुक्कोसइस्सं । [आर्ये ! उपहारसुमनआकीर्णः सम्मा-
र्जित आश्रमः । आश्रमपदविभवेनानुष्ठितो देवसमुदाचारः । तद्यावदार्यपुत्रो
नागच्छति, तावदिमान् बालवृक्षानुदकप्रदानेनानुक्रोशिष्यामि ।]
तापसी—अविग्धं से होदु । (अविघ्नमस्य भवतु)
(ततः प्रविशति रामः)
रामः—(सशोकम्)
त्यक्त्वा तां गुरुणा मया च रहितां रम्यामयोध्यापुरी—
मुद्यम्यापि समाभिषेकमखिलं मत्सन्निधावागतः ।
रक्षार्थं भरतः पुनर्गुणनिधिस्तत्रैव सम्प्रेषितः
कष्टं भोः ! नृपतेर्धुरं सुमहतीमेकः समुत्कर्षति ॥१॥
[अन्वयः—गुरुणा मया च रहितां तां रम्याम् अयोध्यापूरीं त्यक्त्वा, मम
अखिलम् अभिषेकम् अपि उद्यम्य मत्सन्निधौ आगतः । गुणनिधिः भरतः रक्षार्थं पुनः
तत्र एव सम्प्रेषितः । भोः ! कष्टम् । नृपतेः सुमहतीं धुरम् एकः समुत्कर्षति ॥१॥
हिन्दी रूपान्तर—
(तदनन्तर सीता और तापसी प्रवेश करते हैं)
सीता—आर्ये ! देवीपहार के पुष्पों से आकीर्ण आश्रम को झाड़—बुहार कर
स्वच्छ कर दिया है। आश्रम के वैभव के अनुरूप पुष्प आदि से देवपूजन को सम्पन्न
कर दिया । तो जब तक आर्यपुत्र नहीं आते हैं, तब तक इन छोटे वृक्षों को जल
देकर सींच देती हूँ ।
तापसी—यह कार्य निर्विघ्न पूरा हो ।
(तदनन्तर राम प्रवेश करते हैं)
राम—(दुःख के साथ)
अर्थ {श्लोक १]—पिता से तथा मुझसे रहित उस रमणीय अयोध्या नगरी
को छोड़ कर, मेरे सम्पूर्ण राज्याभिषेक की सामग्री को उठाकर जो मेरे समीप आया
था, गुणों के निधान उस भरत को, राज्य की रक्षा के लिये पुनः वहीं भेज दिया
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमोऽङ्कः । १४१
है । हे लोगो ! यह कष्ट का विषय है कि महाराज के उस अत्यधिक महान् राजकीय
भार को वह अकेला ही वहन कर रहा है ॥१॥
संस्कृत-व्याख्या—गुरुणा जनकेन मया रामेण च रहितां शून्यीकृतां तां रम्यां
रमणीयां मनोहारिणीं अयोध्यां पुरीम् अयोध्यानगरों त्यक्त्वा विसृज्य, मम वनवासिनो
रामस्य अखिलं सम्पूर्णम् अभिषेकं राज्याभिषेकसामग्रीम् उद्यम्य गृहीत्वा, अत्र वने स
मम राज्याभिषेकं सम्पादयिष्यतीति सकलामेव राज्याभिषेकसामग्रीमत्रानीय, मत्स-
न्निधौ मम समीपम् आगतः आयातः । स गुणनिधिः गुणानां निधिः निधानं भरतः
पुनः अङ्ग रक्षार्थं राज्यस्य परिपालनाय तत्र अयोध्यायामेव प्रेषितः प्रहितः । त्वं
राज्यपालनकर्तव्यं सुचारुरूपेण निर्वह, इति आदिश्य पुनरयोध्यायां प्रेषितः । भोः
जनाः ! कष्टं सुकष्टकरमिदं यत्, नृपतेः राज्ञः दशरथस्य सुमहतीं नानाविधमहत्कार्य-
वशीभूतत्वादतिगुर्वी धुरं राज्यशासनभारं स भरतः एकः एकाकी सहायान्तररहितः
समुत्कर्षति समुद्वहति । इति वार्ता मामात्यन्तं खेदयति ॥१॥
व्याकरण—√रम् + यत् + टाप् = रम्या । उत् + √यम् + क्त्वा (ल्यप्)
= उद्यम्य । अस्मत् + सम् + नि + √धा + कि = मत्सन्निधि । गुणानां निधिः =
गुणनिधिः । तत् + त्रल् = तत्र ।
छन्दः—शार्दूलविक्रीडित ।
सम्मार्जित......—सम् + √मृज् + णिच् + क्त = सम्मार्जित । इस वर्णन
से विदित होता है कि आश्रम में पुष्प आदि से समृद्ध वृक्षों की बहुतायत थी और
ये पुष्प आश्रम में बिखरते रहते थे । सीता इनको प्रतिदिन झाड़-बुहार कर आश्रम
की सफाई करती थी । वह वहाँ प्रतिदिन पुष्प आदि से देवताओं का पूजन करती
थी और आश्रम के छोटे पौधों को सींचती थी ।
(विमृश्य) ईदृशमेवैतत् । यावदिदानीमीदृशशोकविनोदनार्थमवस्थाकुटु-
म्बिनीं मैथिलीं पश्यामि । तत् क्व नु खलु गता वैदेही ? (परिक्रम्यावलोक्य)
अये, इमानि प्रत्यग्राभिषिक्तानि वृक्षमूलानि अदूरगतां मैथिलीं सूचयन्ति ।
तथाहि—
भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं
तृषितपतिता नैते क्लिष्टं पिबन्ति जलं खगाः ।
स्थलमभिपतन्त्यार्द्राः कीटा बिले जलपूरिते
नववलयिनो वृक्षा मूले जलक्षयरेखया ॥२॥
[अन्वयः—सफेनम् अवस्थितं सलिलं वृक्षावर्ते भ्रमति । तृषितपतिताः
एते खगाः जलं क्लिष्टं न पुनः पिबन्ति । बिले जलपूरिते आर्द्राः कीटाः स्थलम्
अभिपतन्ति । जलक्षयरेखया वृक्षाः मूले नववलयिनः ॥२॥

१४२ ] प्रतिमानाटकम्
हिन्दी रूपान्तर—
(विचार करके) यह राज्य-कार्य तो ऐसा ही होता रहता है। इसलिये अब
मैं इस प्रकार के शोक को दूर करने के लिये प्रत्येक अवस्था में साथ देने वाली
सीता को देखता हूँ। तो सीता कहाँ गई होगी ? (घूम कर और देख कर) अये,
ये ताजे तत्काल ही सींची गई वृक्षों की जड़ें निश्चय से सूचित कर रही हैं कि सीता
दूर नहीं गई हैं। क्योंकि—
अर्थ [श्लोक २]—जल से तत्काल ही सिंचाई करने के कारण झाग से युक्त
होता हुआ जल वृक्षों के आलवाल में प्रवेश कर रहा है। प्यासे तथा जल के समीप
उतरते हुये ये पक्षी जल को व्याकुल होकर नहीं पी रहे हैं। बिल के जल से भर
जाने पर भीगे हुये कीड़े स्थल पर बाहर आ रहे हैं। भूमि में जज्ब होने के कारण
जल के कम हो जाने से बनी रेखा से वृक्षों के मूल में नये घेरे (वलय) बन
गये हैं ॥२॥
संस्कृत-व्याख्या—प्रत्यग्राभिषिक्तत्वाद् वृक्षाणामेषावस्था विद्यते—सफेनं फेनेन
डिण्डीरेण सहितं फेनिलमित्यर्थः अवस्थितं तदवस्थया विशिष्टं सलिलं जलं वृक्षावर्ते
वृक्षाणां पादपानाम् आवर्ते आलवाले भ्रमति भूम्यन्तरं प्रविशति । वृक्षाणामालवालेषु
दीयमानं जलं पूर्वं तावत् फेनिलं जायते, तदनन्तरं च धरया शोष्यते । जलस्य फेनिल-
भावेन धरया च तस्य शोष्यमाणत्वेन प्रत्यग्राभिषक्तभावः सूच्यते । तृषितपतिताः
तृषिताः पिपासाकुलाः अत एव पतिताः जलपानाय भूमौ अवतीर्णा एते इमे खगाः
पक्षिणः जलं सलिलं क्लिष्टं कष्टभावेन न एव पिबन्ति पानं कुर्वन्ति । आलवालेषु
निर्मलं प्रचुरं च सलिलं वर्तते । अतः जलपाने पक्षिणः न कमपि कष्टम् अनुभवन्ति ।
बिले कीटनिवासभूते गर्ते जलपूरिते जलेन नीरेण पूरिते संपूर्गे सति आर्दाः जल-
क्लिन्नाः कीटाः स्थलं धराया उपरिभागम् अभिपतन्ति आगच्छन्ति । आलवालेषु
प्रत्यग्रमेव जलप्रक्षेपणात्तत्र गर्ताः जलेन पूरिताः कीटाश्च आर्द्राः सञ्जाताः । जलप्ला-
वनमसहमानास्ते कीटाः बिलगर्भभागान् परित्यज्य बहिः स्थलमागच्छन्ति । जलक्षय-
रेखया जलस्य सलिलस्य क्षयस्य ह्रासस्य या रेखा पंक्तिः तया वृक्षाः पादपाः मूले
नववलयिनः नवमण्डलाकाररेखाचिह्निताः दृश्यन्ते । मूलभागे वृक्षाः पङ्कमिश्रितजलेन
पूर्णाः । किञ्चित्क्षणानन्तरं जलांशस्य भूमौ शोष्यमाणत्वात् तत्र मूले जलमिश्रित-
पङ्कस्य नववलयानि चिह्नितानि । एतैः चतुर्भिर्लक्षणैरनुमीयते, प्रत्यग्रमेव सीतया
एते सिञ्चिताः । अतः सा अदूरवर्तिनी एव वर्तते ॥२॥
व्याकरण—वृक्षाणाम् आवर्ते = वृक्षावर्ते । आ + वृत् + अच् = आवर्तं ।
फेनेन सहितम् = सफेनम् । पूर्वं तृषिताः पश्चात् पतिताः = तृषितपतिताः । खे गच्छन्ति
इति खगाः । नवानि वलयानि येषां ते = नव + वलय + इनि = नववलयिन् ।
छन्द—हरिणी।

पञ्चमोऽङ्कः [ १४३
अलङ्कार—स्वभावोक्ति। जलसेचन के तुरन्त बाद की अवस्था का स्वाभा-
विक वर्णन करने के कारण स्वभावोक्ति अलङ्कार है।
(विलोक्य) अये, इयं वैदेही। भोः ! कष्टम्—
योऽस्याः करः श्राम्यति दर्पणेऽपि
स नैति खेदं कलशं वहन्त्याः ।
कष्टं वनं स्त्रीजनसौकुमार्यं
समं लताभिः कठिनीकरोति ॥३॥
(उपेत्य) मैथिलि ! अपि तपो वर्धते ?
[अन्वयः—दर्पणे अपि अस्याः यः करः श्राम्यति, स कलशं वहन्त्याः खेदं न
एति। कष्टम्, स्त्रीजनसौकुमार्यं वनं लताभिः समं कठिनीकरोति ॥३॥
हिन्दी रूपान्तर—
(देखकर) अये, ये सीता हैं। हे लोगो ! कष्ट की बात है—
अर्थ [श्लोक ३]—दर्पण को उठाने में भी इसका जो हाथ थक जाता था,
वह हाथ घड़े को उठाते हुये भी थकावट के कष्ट को नहीं अनुभव कर रहा है।
कष्ट का विषय है कि स्त्रियों की सुकुमारता को वन, लताओं के साथ ही कठोर
बना देता है ॥३॥
संस्कृत व्याख्या—दर्पणमुखाद्यवलोकनावसरेषु आदर्शस्य करे धारणे अपि
अस्याः सीतायाः यः करः हस्तः श्राम्यति श्रमजनितायासमनुभवति, स एव करः कलशं
घटं वहन्त्याः धारयन्त्याः जलसेकनिमित्तं जलपूर्णं घटमुत्थाप्य आनयन्त्याः खेदं
श्रमजनितायासं न एति प्राप्नोति। आयासं न अनुभवति इत्यर्थः। कष्टम् अत्यधिक-
खेदावहोऽयं विषयः यत्, स्त्रीजनसौकुमार्यं स्त्रीजनस्य ललनानां सौकुमार्यं मार्दवं वनम्
अरण्यं लताभिः वल्लरीभिः समं सार्धं कठिनीकरोति कठोरं विदधाति। सर्वविध-
श्रमायासासहनशीलतां प्रददातीत्यर्थः। वने निवसन्त्योऽतिसुकुमारस्वभावा अपि
ललनाः कठोरगुणं सम्प्राप्य तत्र श्रमायासासहिष्णुतामापाद्यन्ति ॥३॥
व्याकरण—कृ + अच् = कर । स्त्रीजनस्य सौकुमार्यम् = स्त्रीजनसौकुमार्यम् ।
सुकुमारस्य भावः = सुकुमार + ष्यञ् = सौकुमार्य । अकठिनं कठिनं करोति = कठिन +
च्वि (दीर्घ) + करोति = कठिनीकरोति ।
छन्दः—उपेन्द्रवज्रा।
अलंकार—विषम, सहोक्ति और उपमा। अति कोमल सीता द्वारा वृक्ष
सेचनरूप कठोर कार्य के साथ सम्बन्ध दिखाने से विषम अलंकार है। लताओं तथा
स्त्रीजन का मनोरम साथ वर्णन करने से सहोक्ति अलंकार है। यहाँ लता और स्त्री
का सादृश्य अभिव्यञ्जित होने से उपमा अलंकार है।
(समीप आकर) सीते ! क्या तुम्हारी तपस्या में वृद्धि हो रही है ?
अवस्थाकुटुम्बिनीम्—अवस्थासु सर्वास्वेव दशासु कुटुम्बिनी गृहिणीधर्मपालन-

१४४ ] प्रतिमानाटकम्
तत्पराम् । भारतीय स्त्रियां प्रत्येक अवस्था में सुख-दुःख में समृद्धि-निर्धनता में, यश-
अपयश में, मान-अपमान में पति का साथ देती हैं। यही उनका धर्म है । अतः वे
पति के शोक को दूर करने और उनकी प्रसन्नता को बढ़ाने में सहायक होती हैं ।
प्रत्यग्राभिषिक्तानि...—वृक्षों को सीता ने अभी अभी सींचा है । अतः उनके
आलवाल में जल भरा हुआ है । पक्षी उसको आनन्द से पी रहे हैं । बिलों में जल
भर जाने से कीड़े बाहर निकल रहे हैं और वृक्षों के मूल में पंक मिश्रित जल की रेखा
का वलय बन गया है ।
भोः कष्टम्—राजमहलों में पली अति कोमल सीता को, घड़ा उठा कर
वृक्षों का सेचन करते देख कर राम के मन में व्यथा होती है ।
अपि तपो वर्धते—तपस्वियों का कुशल मंगल पूछने के लिये तप के सम्बन्ध
प्रश्न किया जाता है । अपि यहाँ प्रश्नार्थक है ।
❖
सीता—हुं अय्यउत्तो ? जेदु अय्यउत्तो । (हुं, आर्यपुत्र ?
जयत्वार्यपुत्रः ।)
रामः—मैथिलि ! यदि ते नास्ति धर्मविघ्नः, आस्यताम् ।
सीता—जं अय्यउत्तो आणवेदि । (यदार्यपुत्र आज्ञापयति ।) (उपविशति)
रामः—मैथिलि ! प्रतिवचनाथिनीमिव त्वां पश्यामि । किमिदम् ?
सीता—सोअसुण्णहिअअस्स विअ अय्यउत्तस्स मुहराओ । किं एदं ।
(शोकशून्यहृदयस्येवार्यपुत्रस्य मुखरागः किमेतत् ?)
रामः—मैथिलि ! स्थाने खलु कृता चिन्ता ।
कृतान्तशल्याभिहते शरीरे
तथैव तावद्धृदयव्रणो मे ।
नानाफलाः शोकशरामिघाता-
स्तत्रैव तत्रैव पुनः पतन्ति ॥४॥
[अन्वयः—कृतान्तशल्याभिहते मे शरीरे हृदयव्रणः तावत् तथा एव । नाना-
फलाः शोकशरामिहताः पुनः तत्र एव तत्र एव विशन्ति ॥४॥]
हिन्दी रूपान्तर—
सीता—हुं, आर्यपुत्र हैं ? आर्यपुत्र की जय हो ।
राम—सीते ! यदि आपके धार्मिक कार्य में विघ्न न हो रहा हो तो
बैठिये ।
सीता—जैसा आर्यपुत्र आदेश देते हैं । (बैठती है)
राम—सीते ! मैं देख रहा हूँ कि तुम कुछ पूछना चाहती हो, यह क्या
बात है ? CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA.

पञ्चमोऽङ्कः [ १४५
सीता—आर्यपुत्र के मुख का रंग ऐसा प्रतीत हो रहा है ।' जैसे कि शोक से
से हृदय सूना हो रहा हो । यह क्या बात है ?
राम—सीते ! आपने उचित ही चिन्ता की है—
अर्थ [श्लोक ४]—विधाता के बाणों से आहत किये गये मेरे शरीर में हृदय
का घाव अभी तो वैसा ही था, अभी वह घाव भरा भी नहीं था कि अनेक प्रकार के
फलों अर्थात् दुःखों को उत्पन्न करने वाले शोकरूपी बाणों के आघातः बार-बार वहीं
और वहीं गिर रहे हैं । अभी तो पिता की मृत्यु और वनवास के दुःख का घाव भरा
भी नहीं है कि हृदय पर पुनः-पुनः और आघात पड़ रहे हैं ॥४॥
संस्कृत-व्याख्या—कृतान्तशल्याभिहते कृतान्तस्य विधातुः शल्यैः बाणैः
अभिहते आहते मे मम शरीरे वपुषि हृदयस्य व्रणः पितृनिधन-जन्यशोकरूपः मान-
सिकाघातव्रणः तावत् तथा एव तथाविध एव वर्तते, न साम्प्रतमपि विरूढः । अपितु
नानाफला नानाविधानि फलानि प्रयोजनानि दुःखदायकानि येषां तथाविधाः
शोकroundशराभिघाताः शोकः विषादः एव शराः बाणाः तेषाम् अभिघाताः प्रहाराः पुनः
वारं वारं तत्र एव तत्र एव तस्मिन् हृदये एव पतन्ति । पितृमरणजन्यस्य
हृदयस्थितशोकस्य व्रणः अद्यापि न विरूढः, अपरश्च शोकशराभिघातः हृदये
आपतितः ॥४॥
व्याकरण—कृतान्तस्य शल्यैः अभिहते = कृतान्तशल्याभिहते । कृतः अन्तः
येन स = कृतान्तः । अभि + √हन् + क्त = अभिहत । शोकः एव शराः तेषाम्
अभिघाताः = शोकशराभिघाताः । अभि + √हन् + णिच् + क्त = अभिघात ।
छन्दः—उपजाति ।
अलङ्कार—विषम और रूपक । व्रणित हृदय पर पुनः आघात होने से विषम
अलङ्कार है । शोकः एव शराः में उपमेय पर उपमान का आरोप होने से रूपक
अलङ्कार है ।
धर्म विघ्नः—धर्मे विघ्नः = धर्मविघ्नः । वि + हन् + क = विघ्नः आश्रमों में
वृक्ष आदि का सेचन तपस्वियों का धर्म माना गया है ।
शोकशून्यहृदस्य—शोकेन शून्यं हृदयं यस्य तस्य । मुखस्य रागः = मुखरागः ।
रञ्ज् + घञ् = राग । राम को श्राद्ध की चिन्ता थी, अतः उनके मुख पर चिन्ता के
भावों के कारण मुख का रंग फीका हो जाना स्वाभाविक था ।
❖❖❖
सीता—अय्यउत्तस्स को विअ सन्तावो ? [आर्यपुत्रस्य क इव
सन्तापः ? ]
रामः—श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविधिः । कल्पविशेषेण
निर्वपणक्रियामिच्छन्ति पितरः । तत् कथं निर्वर्तयिष्यामीत्येतच्चिन्त्यते ।

१४६ ] प्रतिमानाटकम्
अथवा—
गच्छन्ति तुष्टिं खलु येन केन
त एव जानन्ति हि तां दशां मे ।
इच्छामि पूजां च तथापिकर्तुं
तातस्य रामस्य च सानुरूपाम् ॥५॥
[अन्वयः—येन केन खलु तुष्टिं गच्छन्ति । ते एव हि मे तां दशां जानन्ति ।
तथापि रामस्य सानुरूपां तातस्य पूजां कर्तुम् इच्छामि ॥५॥
हिन्दी रूपान्तर—
सीता—आर्यपुत्र को कौन सा सन्ताप हो रहा है ?
राम—कल आदरणीय पिता जी का वार्षिक श्राद्ध का दिन है । पितरों की
इच्छा होती है कि उनकी सन्तान शास्त्रोक्त विधि के अनुसार अपनी सामर्थ्य से
पिण्डदान की क्रिया करें । तो मैं इस पिण्डदान की क्रिया को कैसे करूँगा, यह विचार
कर रहा हूँ। अथवा—
अर्थ [श्लोक ५]—जिस किसी प्रकार से वे सन्तुष्ट हो जाते हैं तो हो जावें ।
वे ही निश्चय से मेरी उस अवस्था को जानते हैं। तो भी जो राम के सामर्थ्य से करने
के योग्य हो, मैं पिता की वैसी ही श्राद्ध-पूजा करना चाहता हूँ । यद्यपि मेरी अवस्था
को, वन में निवास को तथा धनहीनता को वे पितर जानते हैं, अतः जैसा भी मैं श्राद्ध
करूंगा, उससे वे सन्तुष्ट हो जायेंगे, तथापि मैं अपने सामर्थ्य के अनुरूप उनका
श्राद्ध करना चाहता हूँ ॥५॥
संस्कृत-व्याख्या—श्राद्धक्रियासु ते पितरः येन केन येन केनापि प्रकारेण पुत्र-
वैभवानुरूपेण श्राद्धविधिना तुष्टिं तृप्तिं गच्छन्ति । तथापि रामस्य सानुरूपां सामर्थ्या-
नुसारं तातस्य पितुः जनकस्य पूजां श्राद्ध-निर्वपणक्रियां कर्तुं विधातुम् इच्छामि
अभिलषामि । यद्यपि मम वर्तमानदशां वने निवासं धनरहितत्वं च मे पितरः जानन्ति,
अतः यथैवाहं तेषां निर्वपणविधिं करिष्यामि तथैव ते सन्तोषं प्राप्स्यन्ति, तथापि
रामोऽहं जगति विख्यातप्रभावः । अतः तदनुसारमेव मया श्राद्धविधिः सम्पादनीया ।
परं विगतधनः कथं तन्निर्वहियेयमिति मे चिन्ता ॥५॥
व्याकरण—√तुष् + क्तिन् = तुष्टि । √दृश् + अङ् + टाप् = दशा । रूपस्य
योग्यम् = अनुरूपम् ।
छन्दः—उपजाति ।
अलङ्कार—परिकर और दीपक । सानुरूपाम् इस अभिप्रायगर्भित विशेषण
होने के कारण परिकर अलङ्कार है । तातस्य रामस्य च इन दोनों कारकों का एक
क्रिया से सम्बन्ध होने से दीपक अलङ्कार है ।
तातस्य अनुसंवत्सरश्राद्धविधिः—हिन्दू धर्म में परम्परा है कि पिता के
स्वर्ग चले जाने पर उनकी स्मृति में पुत्र श्राद्ध करते हैं। इस अवसर पर ब्राह्मणों को

पञ्चमोऽङ्कः [ १४७
विशेष भोजन कराया जाता है । विश्वास किया जाता है। कि यह भोजन पितृलोक
में स्थित पितरों को प्राप्त होता है । श्राद्ध का लक्षण है—
संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् ।
श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥
प्रतिवर्ष आश्विन मास के शुक्ल पक्ष में मृत्यु की तिथि के अनुसार श्राद्ध
किया जाता है । इसको अनुसंवत्सर (वार्षिक) श्राद्ध कहते हैं । संवत्सरं संवत्सरम्
अनु = अनुसंवत्सरम् ।
सीता—अय्यउत्त णिव्वत्तइस्यदि सद्धं भरदो रिद्धीए, अवत्थाणुरूंव ।
फलोदएण वि अय्यउत्तो । एदं तादस्स बहुमदअरं भविस्सदि । [आर्यपुत्र ! निर्वर्त्त-
यिष्यति श्राद्धं भरत ऋद्ध्या, अवस्थानुरूपम् फलोदकेनाप्यार्यपुत्रः । एतत्
तातस्य बहुमततरं भविष्यति । ]
रामः—मैथिलि !
फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः ।
स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥६॥
[अन्वयः—दर्भेषु नः स्वहस्तरचितानि फलानि दृष्ट्वा, वनवासं च स्मारितः
तातः तत्र अपि रोदिति ॥६॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! अवस्था के अनुरूप वैभव के साथ भरत श्राद्ध को सम्पन्न
करा देंगे । आर्यपुत्र फल और जल से श्राद्ध सम्पन्न कर लें । तात के लिये यही बहुत
अधिक सम्माननीय होगा ।
राम—सीते !
अर्थ [श्लोक ६]—दर्भों पर हमारे अपने हाथों से रखे हुये फलों को देख
कर और हमारे वनवास को स्मरण करके पिता वहाँ भी रो पडेंगे विश्वास किया
जाता है कि श्राद्ध में जो वस्तु ब्राह्मणों को अर्पित की जाती है, वही पितृलोक में
पितरों को प्राप्त होती है । हम दर्भों पर फल रख कर देंगे, तो वहाँ पिता को हमारे
वनवास का स्मरण हो आयेगा और वे निश्चय ही उसको देखकर रोयेंगे ॥६॥
संस्कृत-व्याख्या—दर्भेषु कुशेषु नः अस्माकं स्वहस्तरचितानि स्वैः निजैः
हस्तैः करैः रचितानि स्थापितानि फलानि दृष्ट्वा अवलोक्य, वनवासम् अस्माकमरण्ये
निवसनं च स्मारितः तातः पिता दशरथः तत्र पितृलोके अपि रोदिति विलापं करि-
ष्यति । अस्माकं सौवर्णादीनि पात्राणि न सन्ति, अतः दर्भाणामेव प्रयोगो भविष्यति
आधारत्वेन । एवं च श्राद्धवस्तूनि फलान्येव भविष्यन्ति महार्घ व्यञ्जनाद्यभावात् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१४८ ] प्रतिमानाटकम्
भृत्याद्यभावात् तानि निजकरैरेव रचितानि भविष्यन्ति । एतद् दृष्ट्वा पितृलोकेऽपि
तातोऽस्माकं वनवासं स्मृत्वा रोदिष्यति । श्राद्धेषु पुत्रैः ब्राह्मणेभ्यः प्रदत्तान्येव
वस्तूनि पितरो लभन्त इति प्रसिद्धिः ।।६।।
व्याकरण — स्वैः हस्तैः रचितानि = स्वहस्तरचितानि । √हस् + तन् = हस्त ।
√रच् + णिच् + क्त = रचित । √स्मृ + णिच् + क्त = स्मारित ।
छन्दः — अनुष्टुप् ।
अलङ्कार — भाविक और स्मरण । पितरों की भविष्य की अवस्था का प्रत्यक्ष
के समान वर्णन करने से भाविक अलङ्कार है । समान वस्तु को देखकर अन्य समान
वस्तु का स्मरण करना स्मरण अलङ्कार है । वनवास के योग्य दर्भ और फल देखकर
वनवास का स्मरण करने से स्मरण अलङ्कार है ।
भरतः श्राद्धम् ऋद्धया — भरत के पास राज्यवैभव है, अतः वह पिता के
योग्य श्राद्ध का निर्वाह बड़े वैभव से करेगा ही ।
अवस्थानुरूपं फलोदकेन — अवस्थायाः अनुरूपम् = अवस्थानुरूपम् । रूपस्य
योग्यम् = अनुरूपम् । वन में रहने के कारण राम को केवल फल और जल ही प्राप्य
हैं, अतः वे इसी से श्राद्ध सम्पन्न कर सकते हैं ।

(ततः प्रविशति परिव्राजकवेषो रावणः)
रावण—एष भोः ।
नियतमनियतात्मा रूपमेतद् गृहीत्वा
खरवधकृतवैरं राघवं वञ्चयित्वा ।
स्वरपदपरिहीणां हव्यधारामिवाहं
जनकनृपसुतां तां हर्तुकामः प्रयामि ॥७॥
[अन्वयः—अनियतात्मा अहम् एतत् रूपं गृहीत्वा नियतं खरवधकृतवैरं राघवं
वञ्चयित्वा स्वरपदपरिहीणां हव्यधाराम् इव तां जनकनृपसुतां हर्तुकामः प्रयामि ॥७॥]
हिन्दी रूपान्तर—
(तदनन्तर परिव्राजक के वेष में रावण प्रवेश करता है)
रावण—हे लोगो ! यह—
अर्थ [श्लोक ७]—इन्द्रियों के अधीन होता हुआ मैं इस परिव्राजक के रूप
को धारण करके, नियमों का पालन करने वाले और खर राक्षस के साथ वैर को
करने वाले अर्थात् उसका वध करने वाले रघुवंशी राम को ठग कर, स्वरों और पदों
से विहीन आहुत की जाती हुई घृतधारा के समान उस जनकराजा की पुत्री सीता का
अपहरण करने की इच्छा से जा रहा हूँ । जिस प्रकार हवन में घृत की आहुति, यदि
वह स्वर तथा पद से अशुद्ध मन्त्रोच्चारण करके डाली जावे, तो उसका राक्षस
अपहरण कर लेते हैं, उसी प्रकार मैं सीता का अपहरण करूँगा ॥७॥

पञ्चमोऽङ्कः [ १४६
संस्कृत-व्याख्या—अनियततात्मा अनियतः अविजितः आत्मा इन्द्रियाणि येन स,
आत्मेति पदस्य इन्द्रियार्थे प्रयोगः । इन्द्रियाधीनोऽहं रावणः एतद् इदं रूपं परिव्राजक-
रूपं गृहीत्वा सन्धार्य, नियतं नित्यनियमपालकं जितेन्द्रियमिति भावः, खरवधकृतवैरं
खरस्य एतन्नामकस्य रावणभ्रातुः राक्षसस्य वधेन मारणेन कृतं विहितं वैरं शत्रुता येन
तादृशं, रामेण खरराक्षसस्य वधं कृत्वा मया सह वैरभावः कृतः, अतः तस्याः पत्न्या
अपहरणं समुचितमेव, राघवं रघुवंशीयं रामं वञ्चयित्वा प्रतार्य, मायामृगरूपेण छलेन
आश्रमाद् अन्यत्र कृत्वा, स्वरपदपरिहीणां स्वरेभ्यः पदेभ्यश्च परिहीणां वर्जिताम्
अशुद्धप्रयोगविहीनां हव्यधारां हवनेषु हूयमानानाज्यधाराम् इव तां जनक-
नृपसुतां जनकराजपुत्रीं सीतां हर्तुकामः अपहरणाभिलाषी सन् प्रयामि गच्छामि । यथा
स्वरैः पदैश्च विहीनां हव्यधारां राक्षसा अपहरन्ति, तथैवाहं, तस्याः सीताया अपहरणं
करिष्यामि ॥७॥
व्याकरण—न नियतः = अनियतः । अनियतः आत्मा यस्य स = अनियततात्मा ।
नि + √ यम् + क्त = नियत । स्वरेभ्यः पदेभ्यश्च परिहीणाम् = स्वरपदपरिहीणाम्
√ हा + क्त = हीन । हव्यस्य धारा = हव्यधारा । √ हू + यत् = हव्य । √ धृ +
णिच् + अङ् + टाप् = धारा ।
छन्दः—मालिनी ।
अलङ्कार—उपमा । जनकनृपसुता उपमेय, हव्यधारा उपमान, इव उपमा-
वाचक, अपहरण करना सामान्य धर्म हैं । उपमा के चारों अङ्गों के होने से पूर्णो-
पमा है ।
❖❖❖❖
(परिक्रम्याधो विलोक्य) इदं रामस्याश्रमद्वारपदम् । यावदवतरामि ।
(अवतरति) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथिः ।
कोऽत्र भोः ?
रामः—(श्रुत्वा) स्वागतमतिथये ।
रावणः—साधु विशेषितं खलु रूपं स्वरेण ।
रामः—(विलोक्य) अये, भगवान् ? भगवन् ! अभिवादये ।
रावणः—स्वस्ति ।
रामः—भगवन् ! एतदासनमास्यताम् ।
रावणः—(आत्मगतम्) कथमाज्ञप्त इवास्म्यनेन । (प्रकाशम्) वाढम् ।
(उपविशति)
रामः—मैथिलि ! पाद्यमानय भगवते ।
सीता—जं अय्यउत्तो आणवेदि । (निष्क्रम्य प्रविश्य) इमा आवो । [यदार्य-
पुत्र आज्ञापयति । इमा आपः ।]
रामः—शुश्रूषय भवन्तम् ।

१५० ] प्रतिमानाटकम्
सीता—जं अय्यउत्तॊ आणवेदि । [यदार्यपुत्र आज्ञापयति ।]
रावणः—(मायाप्रकाशनपर्याकुलो भूत्वा) भवतु, भवतु—
इयमेका पृथिव्यां हि मानुषीणामरुन्धती ।
यस्या भर्तेति नारीभिः सत्कृतः कथ्यते भवान् ॥८॥
अन्वयः—हि इयं पृथिव्यां मानुषीणाम् एका अरुन्धती ; यस्याः भर्ता भवान्
नारीभिः सत्कृतः इति कथ्यते ॥८॥
हिन्दी रूपान्तर—
(घूमकर और देखकर) यह राम के आश्रम के द्वार का स्थान है। तो
उतरता हूँ । (उतरता है) तो अब मैं अतिथियों के आचरण का पालन करूंगा। मैं
अतिथि हूँ। हे ! यहाँ कौन है ?
राम—(सुन कर) अतिथि का स्वागत है।
रावण—इस सुन्दर रूप को मधुर स्वर ने निश्चय से बहुत अधिक विशिष्ट
बना दिया है।
राम—(देख कर) अये, भगवान् हैं ? हे भगवन् ! अभिवादन करता हूँ ।
रावण—कल्याण हो ।
राम—भगवन् ! यह आसन है । बैठिये ।
रावण—(अपने मन में) क्या, इसने मुझको आदेश सा दिया है । (प्रकट रूप
में) अच्छा । (बैठ जाता है)
राम—सीते ! भगवान् के लिये पैर धोने का जल ले आओ ।
सीता—आर्यपुत्र जैसा आदेश देते हैं । (निकल कर और प्रवेश करके) ये
जल है।
राम—भगवान् की सेवा करो ।
सीता—आर्यपुत्र जैसा आदेश देते हैं ।
रावण—(माया के खुल जाने के भय से व्याकुल होकर) रहने दो, रहने दो।
अर्थ [श्लोक ८]—निश्चय से यह सीता मानव स्त्रियों में अकेली अरुन्धती
है, पतिव्रताओं में शिरोमणि है । जिसके पति आपका नारियां बहुत अधिक यशोगान
करती हैं ॥८॥
संस्कृत-व्याख्या—हि निश्चयेन इयम् एषा सीता पृथिव्याम् अस्यां धरायां
मानुषीणां मानवस्त्रीणाम् एका अद्वितीया अरुन्धती अरुन्धती इव पतिव्रताशिरोमणि-
भूता वर्तते । अरुन्धती नाम्नी वसिष्ठपत्नी स्वपातिव्रत्यप्रभावेण सप्तर्षिमध्ये निवसति ।
सा पतिव्रतासु मानवीषु सर्वश्रेष्ठरूपेण गण्यते । यस्याः सीतायाः भर्ता पतिः भवान्
नारीभिः विश्वस्य सर्वाभिः वनिताभिः सत्कृतः पूजितः इति कथ्यते लोके वर्ण्यते ।
इयं सीता पातिव्रत्यप्रभावेण सकलजनमाननीया । भवांश्चास्या पतिः । तत्पातिव्रत्य-
प्रभावेण भवान् सर्वाभिः नारीभिः वन्द्यमानत्वात् सकलजनपूजनीया । अतः नाहं
योग्यो यदेषा मम पादप्रक्षालनं कुर्यात् ॥८॥
व्याकरण—√प्रथ् + ष्वन् + ङीप् (इट् का आगम तथा सम्प्रसारण) =
पृथिवी । मनुष्य + अण् + ङीप् = मानुषी ।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

पञ्चमोऽङ्कः [ १५१ ]
छन्दः—अनुष्टुप्।
अलङ्कार—उदात्त। सीता के प्रभावातिशय का वर्णन करने से उदात्त
अलङ्कार है।
मायाप्रकाशपर्याकुलः--मायायाः प्रकाशतेनपर्याकुलः। { रावण को भय हुआ
कि पतिव्रता सीता के स्पर्श से कहीं उसकी माया प्रकट न हो जावे। } अतः उसने सीता
द्वारा चरणप्रक्षालन को स्वीकार करना नहीं चाहा।
रामः—तेन हि आनय, अहमेव शुश्रूषयिष्ये।
रावणः—अयि, छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्तिः
खल्वतिथिसत्कारः। पूजितोऽस्मि। आस्यताम्।
रामः—बाढम्। (उपविशति)
हिन्दी रूपान्तर—
राम—तो ले आओ। मैं ही सेवा करूँगा।
रावण—अरे, छाया को छोड़कर मैं शरीर का लंघन नहीं करूँगा। सच्चा
अतिथिसत्कार तो वाणी से ही हो जाता है। मेरा सत्कार हो गया है। आप बैठिये।
राम—बहुत अच्छा। (बैठ जाते हैं)
छायां परिहृत्य शरीरं न लङ्घयामि—पत्नी को पति की छाया के समान
माना गया है। राम शरीर हैं तो सीता उनकी छाया है। जब रावण ने सीता से
सेवा कराना स्वीकार नहीं किया तो राम से सेवा कराना शिष्टाचार का उल्लङ्घन
होता।
रावणः—(अ त्मगतम्) यावदहमपि ब्राह्मणसमुदाचारमनुष्ठास्यामि।
(प्रकाशम्) भोः ! काश्यपगोत्रोऽस्मि। साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्म-
शास्त्रं, माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधातिथेर्न्यायशास्त्रं,
प्राचेतसं श्राद्धकल्पं च।
रामः—कथं कथं श्राद्धकल्पमिति ?
रावणः--सर्वाः श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किमेतत् ?
रामः—भगवन् ! भ्रष्टायां पितृमत्तायामागम इदानीमेषः।
रावणः—अलं परिहृत्य। पृच्छतु भवान्।
रामः—भगवन् ! निर्वपणक्रियाकाले केन पितॄंस्तर्पयामि ?
रामः [रावणः]--सर्वं श्रद्धया दत्तं श्राद्धम्।
रावणः [रामः]—भगवन् ! अनादरतः परित्यक्तं भवति। विशेषार्थं पृच्छामि।
रावणः—श्रूयताम्। विरूढेषु दर्भाः, ओषधीषु तिलाः, कलायं शाकेषु,

१५२ ] प्रतिमानाटकम्
मत्स्येषु महासफरः, पक्षिषु वार्ध्रीणसः, पशुषु गौः खड्गो वा, इत्येते मानुषाणां
विहिताः ।
रामः—भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति ।
रावणः—अस्ति प्रभावसम्पाद्यम् ।
रामः—एष एव मे निश्चयः—
उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति ।
धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥६॥
(अन्वयः—उभयस्य अपि सान्निध्यम् अस्ति, यद् एतत् साधयिष्यति । तपसि
श्रान्ते धनुः धनुषि वा श्रान्ते तपः ॥६॥)
हिन्दी रूपान्तर—
रावण—(अपने मन में) तो मैं भी अपने ब्राह्मण के योग्य आचरण का पालन
करूँगा । (प्रकट रूप में) हे राम ? मेरा गोत्र काश्यप है । मैंने अङ्गों और उपाङ्गों
सहित वेदों का अध्ययन किया है, मनु द्वारा रचित धर्मशास्त्र का, महेश्वर द्वारा
रचित योगशास्त्र का, बृहस्पति द्वारा रचित अर्थशास्त्र का, मेवातिथि द्वारा रचित
न्यायशास्त्र का और प्रचेतस् ऋषि द्वारा रचित श्राद्धकल्प का अध्ययन किया है ।
राम—क्या कहा, क्या कहा, श्राद्धकल्प का ?
रावण—सब विद्याओं को लांघकर आपने श्राद्धकल्प के प्रति इच्छा दिखाई
है । यह क्या बात है ?
राम—भगवन् ! पिता की मृत्यु हो जाने के कारण अब इस शास्त्र की
अपेक्षा है ।
रावण—आप इस विषय को न छोड़ें । आप पूछें ।
राम—भगवन् ! पिण्डदान के समय पितरों को किस वस्तु से तृप्त करूँ ?
रावण—श्रद्धा से दिया गया सब कुछ श्राद्ध ही है ।
राम—हे भगवन् ! अनादर से दिया गया तो त्याग देने योग्य होता है । मैं
विशेष रूप से देने योग्य के लिये पूछ रहा हूँ ।
रावण—सुनो । घासों में दर्भ, ओषधियों में तिल, शाकों में कलाय, मछलियों
में महासफर, पक्षियों में वार्ध्रीणस, पशुओं में गाय या गैंडा, मनुष्य जाति में तो
श्राद्धों में ये ही विहित हैं ।
राम—भगवन् ! वा शब्द से मैं समझता हूँ कि इस विषय में और भी
कुछ है ।
रावण—है तो, परन्तु उसको प्रभाव-सामर्थ्य से ही सम्पादित किया जा
सकता है ।
राम—भगवन् ! यही मेरा निश्चय है ।
अर्थ [श्लोक ६]—मेरे पास दोनों ही प्रकार के साधन तपस्या और धनुष भी
हैं, जिनसे कि मैं इस साध्य को सिद्ध करूँगा । तपस्या के विफल हो जाने पर धनुष
से कार्य सिद्ध करूँगा अथवा धनुष के विफल हो जाने पर तपस्या से सिद्ध
करूँगा ॥६॥