प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
चतुर्थोऽङ्कः [ ११५
तया स्फुटभावेन प्रतीयमानानि यानि करणानि उच्चारणसाधनानि तैः नानाक्षराणि
विविधवर्णाः तेषां भावस्तत्ता तया अनुपहतसञ्चाररभसः अनुपहतः अप्रतिरुद्धः सञ्चा-
रस्य शब्दोच्चारण प्रचारस्य रभसः वेगः यस्य स, यः यथास्थानं वर्णोच्चारणशक्त्या
विविधाक्षरान् स्पष्ट रूपेण वेगेन च उच्चारयितुं समर्थः इति भावः, चतुर्णां चतुः-
संख्यापरिमितार्ना ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणाम् अभयं निर्भयत्वम् इव दातुं व्यवसितः
उद्युक्तः । मुखे-कण्ठे वक्षसि च विशिष्टवर्णोच्चारणक्षमानि स्थानानि वर्तन्ते तालुमूर्ध-
कण्ठोष्ठादीनि तैः करणैः यः स्वरसंयोगः स्पष्टरूपेण वेगेन च नानाविधान् अक्षर्रान्
उच्चारयितुं क्षमते, यस्य च गाम्भीर्यभावेन लोकाः निर्भयत्वमनुभवन्ति तादृशः
स्वरोऽयं परिचीयते ॥७॥
व्याकरण—समदः यः वृषभस्तस्य स्वर इव स्निग्धः मधुरः च । √वृष् +
अभच् = वृषभ । √स्निह् + क्त = स्निग्ध । मधु + √रा + क = मधुर । न उपहतः
= अनुपहतः । अनुपहतः सञ्चारस्य रभसः यस्य स । न + उप + हन् + क्त = अनुप-
हत । सम् + चर् + घञ् = सञ्चार । स्फुटानि करणैः नाना अक्षराणि तस्य भावः
तत्ता तया । कृ + ल्युट् (अन) = करण । न + क्षर = अक्षर । वि + अव + √षिव्
- क्त = व्यवसित ।
छन्दः—शिखरिणी ।
अलङ्कार—परिकर और उत्प्रेक्षा । अभिप्रायगर्भित विशेषणों का प्रयोग होने
से परिकर अलङ्कार है । अभयं दातुम् इव में दानम् क्रिया की सम्भावना होने से उत्प्रेक्षा
अलङ्कार है ।
बन्धुजनबहुमानम्—बन्धुजनस्य बहुमानम् । लक्ष्मण ने पहचान लिया कि यह
स्वर मेरे भाई भरत का है । अतः भरत के प्रति उनके : हृदय में बहुत अधिक आदर
का भाव हुआ कि वे वन में मिलने आये हैं ।
❖❖❖
रामः—सर्वथा नामयबान्धवस्य स्वरसंयोगः। क्लेदयतीव मे हृदयम् ।
वत्स लक्ष्मण ! दृश्यतां तावत् ।
लक्ष्मणः —यदाज्ञापयत्यार्यः । (परिक्रामति)
भरतः—अये, कथं न कश्चित् प्रतिवचनं प्रयच्छति ? किन्तु खलु
विज्ञातोऽस्मि, कैकेय्या पुत्रो भरतः प्राप्त इति ?
लक्ष्मणः—(विलोक्य) अये, अयमार्यो रामः । न न, रूपसादृश्यम्—
मुखमनुपमं त्वार्यस्यामुं शशाङ्कमनोहरं
मम पितृसमं पीने वक्षः सुरारिशरक्षतम् ।
द्युतिपरिवृतस्तेजोराशिर्जगत्प्रियदर्शनो
नरपतिरयं देवेन्द्रो वा स्वयं मधुसूदनः ॥८॥
११६ ] प्रतिमानाटकम्
[ अन्वयः — अनुपमं शशाङ्कमनोहरं मुखं तु आर्यस्य आभं, सुरारिक्षतं पीनं वक्षः
मम पितृसमं, द्युतिपरिवृतः, तेजोराशिः, जगत्प्रियदर्शनः, अयं नरपतिः, देवेन्द्रः वा,
स्वयं मधुसूदनः ॥८॥
हिन्दी रूपान्तर—
राम—सम्पूर्ण रूप से ठीक है कि यह अबान्धव का स्वर नहीं है । यह मेरे
हृदय को मानो भिगोये दे रहा है । वत्स लक्ष्मण ! देखो तो ।
लक्ष्मण—आर्य जैसा आदेश देते हैं । (घूमता है)
भरत—अये, कोई प्रत्युत्तर क्यों नहीं दे रहा है ? क्या मुझको पहचान
लिया है कि कैकेयी का पुत्र आ पहुँचा है ?
लक्ष्मण—(देखकर) अये, ये क्या आर्य राम हैं । नहीं, नहीं रूप की
समानता है ।
अर्थ [श्लोक ८]—यह अनुपम तथा चन्द्रमा के समान सुन्दर मुख आर्य राम
के मुख के समान है । असुरों के बाणों से घायल हुआ विशाल वक्ष मेरे पिता के समान
है, कान्ति से घिरा हुआ यह मानो तेज का समूह है, इसका दर्शन करना लोगों को
प्रिय है, यह क्या राजा दशरथ है, अथवा देवों का स्वामी इन्द्र है अथवा स्वयं विष्णु
है ? भरत का मुख राम के समान था, वक्ष पिता के समान था और वे अत्यधिक
तेजस्वी थे, उनको देखकर राम की अथवा पिता की भ्रान्ति होना लक्ष्मण के लिये
स्वाभाविक था ॥८॥
संस्कृत-व्याख्या—अनुपमं न विद्यते उपमा उपमानं यस्य तादृशं, शशाङ्क-
मनोहरं शशाङ्कः चन्द्रः स इव मनोहरं हृदयाकर्षकं, सुरारिशरक्षतं सुरारीणां देवशत्रू-
णाम् असुराणां शरैः बाणैः क्षतं देव-दानवयुद्धेषु सहायतार्थं युद्धावसरेषु व्रणकिणितं
पीनं विशालस्थूलं वक्षः उरःस्थलं मम मे लक्ष्मणस्य पितृसमं पितुः सदृशं वर्तते !
परिवृतः द्युतिभिः कान्तिभिः परिवृतः परिवेष्टितः अयं तेजोराशिः तेजसा ।
वर्तते, जगत्प्रियदर्शनः जगतां लोकानां प्रियं प्रीतिकरं दर्शनम् अवलोकनं यस्य तादृशः
वर्तते । अयं जनः नरपतिः राजा दशरथो वर्तते अथवा देवेन्द्रः देवानां इन्द्रः शक्रः
वर्तते अथवा स्वयं मधुसूदनः मधुनाम्नो राक्षसस्य विनाशको भगवान् विष्णुः
वर्तते ॥८॥
व्याकरण—न विद्यते उपमा यस्य तत् = अनुपमम् । उप + √ मा + क्विप् =
उपमा । सुराणाम् अरीणां शरैः क्षतम् = सुरारिशरक्षतम् ।
छन्दः—हरिणी ।
अलङ्कार—उपमा, रूपक और उल्लेख । शशाङ्क के समान मनोहर में समा-
सगा उपमा है। उपमेय भरत पर तेजोराशि उपमान का आरोप करने से रूपक
अलङ्कार है । एक ही भरत का नरपति, देवेन्द्र और मधुसूदन, अनेक प्रकार से
उल्लेख करने से उल्लेख अलङ्कार है ।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
चतुर्थोऽङ्कः [ ११७
(सुमन्त्रं दृष्ट्वा) अये तातः ?
सुमन्त्रः—अये, कुमारो लक्ष्मणः ?
भरतः—एवं गुरुरयम् । आर्य ! अभिवादये ।
लक्ष्मणः—एह्येहि । आयुष्मान् भव । (सुमन्त्रं वीक्ष्य) तात ! कोऽत्र
भवान् ?
सुमन्त्रः—कुमार ।
रघोश्चतुर्थोऽयमजात् तृतीयः
पितुः प्रकाशस्य तव द्वितीयः ।
यस्यानुजस्त्वं स्वकुलस्य केतो-
स्तस्यानुजोऽयं भरतः कुमारः ॥६॥
[अन्वयः-—अयं रघोः चतुर्थः अजात् तृतीयः, प्रकाशस्य तव पितुः द्वितीयः,
यस्य त्वम् अनुजः स्वकुलस्य केतोः तस्य अनुजः अयं कुमारः भरतः ॥६॥]
हिन्दी रूपान्तर--
(सुमन्त्र को देखकर) अये, तात हैं ?
सुमन्त्र—अये, कुमार लक्ष्मण हैं ?
भरत—ये बड़े भाई हैं। आर्य ! अभिवादन करता हूँ।
लक्ष्मण--आओ, आओ। आयुष्मान् होओ। (सुमन्त्र को देखकर) तात !
ये आप कौन हैं ?
सुमन्त्र--कुमार !
अर्थ [श्लोक ६]—वंशपरम्परा में ये रघु से चौथी पीढ़ी में हैं, अर्थात् प्रपौत्र
हैं, अज से दूसरी पीढ़ी में हैं, अर्थात् पौत्र हैं, लोक में विख्यात तुम्हारे पिता से दूसरी
पीढ़ी में हैं, अर्थात् पुत्र हैं। जिस राम के तुम छोटे भाई हो, अपने कुल के ध्वजा
रूप उस राम के छोटे भाई ये कुमार भरत हैं।
संस्कृत-व्याख्या--वंशपरम्परायामयं रघोः चतुर्थः चतुर्थत्वेन परिगणनीयः
प्रपौत्रः वर्तते इति भावः । अजात् तृतीयः तृतीयत्वेन परिगणनीयः, पौत्रः वर्तते इति
भावः । प्रकाशस्य लोके प्रसिद्धस्य तव पितुः जनकस्य द्वितीयः द्वितीयत्वेन परिगण-
नीयः, पुत्रः वर्तते इति भावः । यस्य रामस्य त्वम् अनुजः कनिष्ठभ्राता वर्तसे, स्वकुल-
स्य आत्मीयस्य वंशस्य केतोः ध्वजरूपस्य तस्य अनुजः कनिष्ठभ्राता अयं कुमारः
भरतः वर्तते । तव बान्धव एवायमिति भावः ॥६॥
व्याकरण—अनुजातः=अनु + जन् + ड=अनुज ।
छन्दः--उपजाति ।
अलङ्कार--परिकर और रूपक । भरत के लिये साभिप्राय विशेषणों का
कथन करने से परिकर अलङ्कार है । उपमेय राम पर उपमान केतु का आरोप करने
से रूपक अलङ्कार है ।
[ ११८ ] प्रतिमानाटकम्
क्लेदयति इव—भरत का स्वर पहचानकर राम का हृदय द्रवीभूत सा हो
रहा था। भरत का स्नेह मानो उनको भिगो रहा था।
कैकेय्याः पुत्रः—पुकारने पर भी कोई उत्तर न पाकर भरत को आशंका हुई
कि इन्होंने मुझको पहचान लिया है। कैकेयी का पुत्र होने से मेरी बात का उत्तर
नहीं दे रहे।
गुरुरयम्···अभिवादये···आयुष्मान् भव—इन वाक्यों से विदित होता है कि
भास ने लक्ष्मण को बड़ा भाई और भरत को छोटा भाई वर्णित किया है। परन्तु
रामायण की कथा से यह वर्णन विपरीत है। रामायण के अनुसार लक्ष्मण से भरत
बड़े थे। इनका क्रम था—राम-भरत-लक्ष्मण-शत्रुघ्न । रामायण की कथा के आधार
पर अपने नाटक की रचना करते हुये भास के लिये उचित नहीं था, कि इस प्रकार
का परिवर्तन कर उलटा क्रम दिखावें ।
लक्ष्मणः—ऐह्येहीक्ष्वाकुकुमार ! वत्स ! स्वस्ति, आयुष्मान् भव ।
असुरसमरदक्षैर्वज्रसंघृष्टचापै-
रनुपमबलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः ।
रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो
भव जगति गुणानां भाजनं भ्राजितानाम् ॥१०॥
[अन्वयः—असुरसमरदक्षैः वज्रसंघृष्टचापैः अनुपमबलवीर्यैः स्वैः कुलैः तुल्य-
वीर्यः, यज्ञविश्रान्तकोशः स नरेन्द्रः रघुः इव जगति भ्राजितानां गुणानां भाजनं
भव ॥१०॥]
हिन्दी रूपान्तर—
लक्ष्मण—हे इक्ष्वाकुकुमार ! आओ । वत्स ! तुम्हारा कल्याण हो । आयु-
ष्मान् होओ ।
अर्थ [श्लोक १०]—असुरों के साथ युद्ध करने में समर्थ, असुरों के साथ युद्ध
करने में इन्द्र के साथ स्पर्धा करने वाले धनुष को धारण करने वाले, अनुपम बल और
पराक्रम से सम्पन्न अपने कुल के पूर्वजों के समान पराक्रमी बनो । यज्ञों में सम्पूर्ण
कोश का दान करने वाले उस प्रसिद्ध राजा रघु के समान तुम इस संसार में दैदीप्य-
मान गुणों के पात्र बनो ॥१०॥
संस्कृत-व्याख्या—असुरसमरदक्षैः असुरैः दैत्यैः सह समरे युद्धे दक्षैः समर्थैः
वज्रसंघृष्टचापैः असुरयुद्धे वज्रेण इन्द्रस्य कुलिशेन सह संघृष्टं स्पर्धमानं चापं धनुः
येषां तैः अनुपमबलवीर्यैः अनुपमम् असाधारणं बलं सामर्थ्यं वीर्यं पराक्रमः च येषां तैः
स्वैः आत्मीयैरपि कुलैः वंशीयैः पूर्वजैः नरपतिभिः तुल्यवीर्यः तुल्यं समानं वीर्यं
पराक्रमः यस्य तादृशः त्वं भव । यज्ञविश्रान्तकोशः यज्ञेषु अध्वरेषु विश्रान्तः दक्षिणासु
सम्पूर्णरूपेण प्रदत्तः कोशः निधिः येन तादृशः स प्रसिद्धः नरेन्द्रः राजा रघुः इव जगति
चतुर्थोऽङ्कः [ ११६
लोके भ्राजितानां शोभमानानां गुणानां बलवीर्यदाक्षिण्यादीनां भाजनं पात्रं भव ।
अस्मत्पूर्वजैः देवतानां साहाय्यार्थं धनुर्भिः दैत्या अपि पराजिताः । रघूणां विश्वजिति
यज्ञे दक्षिणासु ब्राह्मणेभ्यः सकल एव कोशः विश्रान्तः । त्वयापि तैः इव बलशालिना
वीर्यशालिना दाक्षिण्यशालिना च भूत्वा अयोध्यायाः शासनं करणीयम् ॥१०॥
व्याकरण—असुरैः समरे दक्षैः = असुरसगरदक्षैः । वज्रेण संघृष्टं चापं
येषां तैः = वज्रसंघृष्टचापैः । न विद्यते उपमा यस्य तत् = अनुपम । वीरस्य भावः =
वीर + = वीर्य । अनुपमं वीर्यं येषां तैः = अनुपमबलवीर्यैः । यज्ञेषु विश्रान्तः कोशः
येन सः = यज्ञविश्रान्तकोशः । यज् + नङ् = यज्ञ । वि + श्रम् + क्त = विश्रान्त ।
छन्दः—मालिनी ।
भरतः—अनुगृहीतोऽस्मि ।
लक्ष्मणः—कुमार ! इह तिष्ठ। त्वदागमनमार्याय निवेदयामि ।
भरतः—आर्य ! अचिरमिदानीमभिवादयितुमिच्छामि । शीघ्रं निवेद्य-
ताम् ।
लक्ष्मणः—बाढम् । (उपेत्य) जयत्वार्यः । आर्य !
अयं ते दयितो भ्राता भरतो भ्रातृवत्सलः ।
संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ॥११॥
[अन्वयः—यत्र ते रूपम् आदर्शः इव सङ्क्रान्तम्, अयं ते दयितः भ्रातृवत्सलः
भ्राता भरतः तिष्ठति ॥११॥]
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हो गया हूँ ।
लक्ष्मण—कुमार ! यहीं ठहरो । तुम्हारे आने की बात आर्य से निवेदन
करता हूँ ।
भरत—आर्य ! अब शीघ्र ही अभिवादन करना चाहता हूँ । शीघ्र निवेदन
कीजिये ।
लक्ष्मण—हां । (समीप जाकर) आर्य की जय हो । आर्य !
अर्थ [श्लोक ११]—जहां कि आपका रूप दर्पण के समान प्रतिबिम्बित हुआ
है, ऐसा यह आपका प्रिय तथा भाई को स्नेह करने वाला भाई भरत खड़ा है । भरत
का रूप बिलकुल आपके समान है, वह आपको प्रिय है तथा वह आपके प्रति स्नेहशील
है। वह आया है ॥११॥
संस्कृत-व्याख्या—यत्र यस्मिन् जने ते तव रूपम् आदर्शो दर्पणे इव संक्रान्तं
प्रतिबिम्बितं तादृशः अयं पुरो दृश्यमानः ते तव दयितः स्नेहपात्रं भ्रातृवत्सलः भ्रातरि
१२० प्रतिमानाटकम्
अनुरक्तः भ्राता अनुजः भरतः तिष्ठति द्वारि स्थितो वर्तते । यथा आदर्श कस्यापि
रूपम् अविकलरूपेणावलोक्यते तथैव भरत ते रूपमविकलरूपेणावलोक्यते ॥११॥
व्याकरण—भ्रातरि वत्सलः = भ्रातृवत्सलः । वत्स + लच् = वत्सल ।
सम् + क्रम् + क्त = संक्रान्त ।
छन्दः—अनुष्टुप्
अलङ्कार—उपमा ।
रामः—वत्स लक्ष्मण ! किमेवं भरतः प्राप्तः ?
लक्ष्मणः—आर्य ! अथ किम् ?
रामः—मैथिलि ! भरतावलोकनार्थं विशाली क्रियतां ते चक्षुः ।
सीता—अय्यउत्त ! किं भरदो आददो ? [आर्यपुत्र ! किं भरत आगतः ?]
रामः—मैथिलि ! अथ किम् ?
अद्य खल्ववगच्छामि पित्रा मे दुष्करं कृतम् ।
कीदृशस्तनयस्नेहो भ्रातृस्नेहोऽयमीदृशः ॥१२॥
[अन्वयः—अद्य खलु अवगच्छामि, मे पित्रा दुष्करं कृतम् । ईदृशः अयं भ्रातृ-
स्नेहः । तनयस्नेहः कीदृशः ॥१२॥]
हिन्दी रूपान्तर—
राम—वत्स लक्ष्मण ! क्या इस प्रकार भरत आया है ?
लक्ष्मण—और क्या ?
राम—सीते ! भरत को देखने के लिये अपनी आंखों को विशाल
बना लो ।
सीता—आर्यपुत्र ! क्या भरत आये हैं ?
राम—सीते ! और क्या ?
अर्थ [श्लोक १२]—आज मैं निश्चय से समझ रहा हूँ कि मेरे पिता ने
बहुत अधिक कठिन कार्य किया है। इस प्रकार का तो यह भाई का स्नेह है तो पुत्र
के प्रति स्नेह कैसा होगा। भाई के प्रति तो स्नेह इतना अधिक है कि मैं भरत
के वियोग में अत्यधिक पीडित हूँ । पुत्र के प्रति स्नेह तो उससे भी अधिक होता है ।
अतः मेरे वन चले आने पर पिता को जो कष्ट हुआ होगा, उसको अब मैं समझ
रहा हूँ ॥१२॥
संस्कृत-व्याख्या—अद्य इदानीम् अहम् अवगच्छामि भ्रातृभरतागमनावसरे
अवचिनोमि ये पित्रा जनकेन दशरथेन दुष्करम् अत्यधिककठिनं कष्टप्रदं च कार्यं कृतं
विहितम् । ईदृशः एवंविधः अयम् एष भ्रातृस्नेहः भ्रातरं भरतं प्रति स्नेहः वर्तते
राज्यमपि परित्यज्य स्नेहभावेन मां द्रष्टुं भरतः आगतः, अहं च तस्यागमनेन हृदये
चेतसि च अनुपमां प्रसन्नतामनुभवामि । तनयस्नेहस्तनयं पुत्रं प्रति तु स्नेहः कीदृशः
चतुर्थोऽङ्कः [ १३१
कथंविधः भविष्यति । तथाविधं पुत्रस्नेहं हृदये धारयन् मे पिता मदीयराज्यविभ्रंशनं
वनवासजनित वियोगं च धारणे असमर्थः सन् दिवं गतः इति मया अधुना भरता-
गमनसमये अवचीयते ॥१२॥
व्याकरण—दुस् + कृ + अच् = दुष्कर । किम् + दृश् + कन् (की आदेश) =
कीदृश । तनोति विस्तारयति कुलम् = तन् + कथन् = तनय ।
छन्दः—अनुष्टुप् ।
विशालीक्रियतां ते चक्षुः—अविशालं विशालं क्रियताम् = विशालीक्रियताम् ।
च्वि प्रत्यय । अत्यधिकस्नेहभाजन व्यक्ति के मिलने पर प्रसन्नता के कारण नयनों
का विशाल करना एक मुहावरा है । भरत को देखने के लिये सीता का नयनों को
विशाल करना स्वाभाविक है । इस प्रकार के प्रयोग कवियों ने अनेकशः
किये हैं ।
लक्ष्मणः—आर्ये ! किं प्रविशतु कुमारः ?
रामः- वत्स लक्ष्मण ! इदमपि तावदात्माभिप्रायमनुवर्तयितुमिच्छसि ?
गच्छ, सत्कृत्य शीघ्रं प्रवेश्यतां कुमारः ।
लक्ष्मणः—यदाज्ञापयत्यार्यः ।
रामः— अथवा तिष्ठत्वम्—
इयं स्वयं गच्छतु मानहेतोर्मातेव भावं तनये निवेश्य ।
तुषारपूर्णोत्पलपत्रनेत्रा हर्षास्रमासारमिवोत्सृजन्ती ॥१३॥
[अन्वयः—माता इव तनये भावं निवेश्य तुषारपूर्णोत्पलपत्रनेत्रा आसारम् इव
हर्षास्रम् उत्सृजन्ती, इयं मानहेतोः स्वयं गच्छतु ॥१३॥]
हिन्दी रूपान्तर
लक्ष्मण—आर्ये ! क्या कुमार भरत प्रवेश करें ?
राम—वत्स लक्ष्मण ! क्या इसमें भी मेरी अनुमति को लेना चाहते हो ?
जाओ और सत्कार के साथ कुमार को शीघ्र अन्दर ले आओ ।
लक्ष्मण—आर्य जैसा आदेश देते हैं ।
राम—अथवा तुम ठहरो—
अर्थ [श्लोक १३ —माता के समान पुत्र के प्रति स्नेह को अपने हृदय में रख
कर' हिम से भरे हुये कमलपत्र के समान नेत्रों वाली तथा धारासार वर्षा के समान
प्रसन्नता के आँसुओं को बहाती हुई यह सीता इस भरत का आदर करने के लिये
स्वयं जावे ॥१३॥
संस्कृत व्याख्या—माता जननी इव तनये पुत्रे भावं वात्सल्यभावं निवेश्य हृदये
संधार्य, यथा काचिन्माता चिरादायातं पुत्रं प्रति वात्सल्यपूर्णा भवति, तथैव तनयसदृशं
भरतं प्रति स्नेहपूर्णा सती इत्यर्थः, तुषारपूर्णोत्पलपत्रनेत्रा तुषारेण हिमेन पूर्णम् आवृत्तम्
˙१२२ ] प्रतिमानाटकम्
उत्पलपत्रं कमलपत्रमिव नेत्रं नयनं यस्या सा, आसारं धारासम्पातमिव हर्षास्रं
प्रसन्नताश्रूणि इव उत्सृजन्ती प्रवाहयन्ती इयं सीता एव मानहेतोः तस्य भरतस्य
सत्कारार्थं स्वयं गच्छतु बहिर्यातु । इयं स्वयमे वगत्वा सत्कृत्य स्वपुत्रतुल्यं भरतं
इहानयतु ॥१३॥
व्याकरण—तुषारेण पूर्णम् उत्पलपत्रं तदिव ने त्रं यस्या सा = तुषारपूर्णोत्पल-
पत्रनेत्रा । आ + सृ + घञ् = आसार ।
छन्दः—उपजाति ।
अलङ्कार—उपमा । मातेव भावं तनये निवेश्य—पूर्णोपमा । तुषारपूर्णोत्पल-
पत्रनेत्रा = वाचकलुप्ता समासगा उपमा ।
सीता—जं अज्जउत्तो आणवेदि । (उत्थाय परिक्रम्य भरतमवलोक्य) हुं,
तदो तं वेलं दाणि णिक्कन्तो अय्यउत्तो । णहि णहि । रूवसादिसं । [यदार्यपुत्र
आज्ञापयति । हुं, ततस्तां वेलामिदानीं निष्क्रान्त आर्यपुत्रः । नहि न हि
रूपसादृश्यम् ।
सुमन्त्रः—अये वधूः ?
भरतः—अये, इयमत्रभवती जनकराजपुत्री ?
इदं तत् स्त्रीमयं तेजो जातं क्षेत्रोदराद्धलात् ।
जनकस्य नृपेन्द्रस्य तपसः सन्निदर्शनम् ॥१४॥
[अन्वयः—इदं तत् स्त्रीमयं तेजः, क्षेत्रोदरात् हलात् जातम् । नृपेन्द्रस्य जनकस्य
तपसः सन्निदर्शनम् ॥१४॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र जैसा आदेश देते हैं । (उठकर घूमकर और भरत को
देखकर) हूँ, तो अब आर्यपुत्र उसी समय बाहर निकल गये थे ? नहीं, नहीं,
रूप की समानता है ।
सुमन्त्र—अये, वधू है ?
भरत—अये, ये आदरणीया राजा जनक की पुत्री सीता हैं—
अर्थ [श्लोक १४]—यह वह स्त्रीरूप में विद्यमान तेज है, जो खेत के मध्य से हल
से उत्पन्न हुआ था । राजाधिराज जनक की तपस्या का यह उत्तम उदाहरण है रामायण
की कथा प्रसिद्ध है कि खेत में हल जोतते हुये राजा जनक को सीता पृथिवी के गर्भ
से प्राप्त हुई थी, जो एक घड़े में थी तथा हल की नोक से उखड़ कर यह घड़ा
पृथिवी के गर्भ से बाहर निकल आया ॥१४॥
संस्कृत-व्याख्या—इदम् एतत् पुरो दृश्यमानं स्त्रीमयं स्त्रीरूपेण परिणतं तेजः
प्रसिद्धा कान्तिः, यत् क्षेत्रोदरात् क्षेत्रस्य कर्षणयोग्यभूमेः उदरात् मध्यभागात् हलात्
चतुर्थोऽङ्कः । १२३ ।
सीरात् जातमुत्पन्नम् । नृपेन्द्रस्य राजाधिराजस्य जनकस्य तपसः तपस्यायाः सन्नि-
दर्शनम् उत्तमम् उदाहरणम् । प्रसिद्धेयं रामायणीकथा-यत् क्षेत्रं कर्षयां कुर्वतः
जनकस्य तपः प्रभावात् सीरोत्कर्षणमवाप्य घट एको भूमेः बहिर्यात:, यत्र
नवजातैका बालिकातितजःस्विनी सन्निहितासीत् । सा हलाग्रसंजातेति नामतः सीता
कृता जनकेन स्वसुतेव च पालिता । सा तेजसाभासमाना अयोनिजा कन्या सीता
जनकस्य तपःप्रभावफलमेवासीत् ॥१४॥
व्याकरण—स्त्री + मयट् = स्त्रीमय । क्षेत्रस्य उदरात् = क्षेत्रोदरात् । सम् +
नि + दृश् + ल्युट् (अन) = सन्निदर्शन ।
छन्दः—अनुष्टुप् ।
अथवातिष्ठत्वम्—राम को भरत अत्यधिक प्रिय थे । अतः उनके प्रति स्नेह
और आदर को प्रकट करने के लिये वे स्वयं सीता को भेजने का उद्योग करते हैं ।
रूपसादृश्यम्—भरत को देखकर पहले तो सीता को भ्रान्ति होती है कि
कहीं राम स्वयं तो बाहर नहीं आ गये । परन्तु शीघ्र समझ जाती है कि राम और
भरत का रूप बिलकुल एक सा है ।
आर्य ! अभिवादये । भरतोऽहस्मि ।
सीता—(आत्मगतम्) णहि रूवं एव्व, सरजोओ वि सो एव्व । (प्रकाशम्)
वच्छ ! चिरंजीव । [न हि रूपमेव, स्वरसंयोगोऽपि स एव । वत्स ! चिरंजीव]
भरतः—अनुगृहीतोऽस्मि ।
सीता—एहि वच्छ ! भादु मणोरहं पूरेहि । [एहि वत्स ! भ्रातृमनोरथं
पूरय ।]
सुमन्त्रः—प्रविशतु कुमारः ।
भरतः—तात ! इदानीं किं करिष्यसि ?
सुमन्त्रः— अहं पश्चात् प्रवेक्ष्यामि स्वर्गं याते नराधिपे ।
विदितार्थस्य रामस्य ममैतत् पूर्वदर्शनम् ॥१५॥
[अन्वयः—नराधिपे स्वर्गं याते, विदितार्थस्य रामस्य मम एतत् पूर्वदर्शनम्,
अहं पश्चात् प्रवेक्ष्यामि ॥१५॥]
हिन्दी रूपान्तर—
आर्ये ! अभिवादन करता हूँ । मैं भरत हूँ ।
सीता—(अपने मन में) रूप ही नहीं है, स्वर भी वैसा ही है । (स्पष्ट रूप
से) वत्स चिरंजीव होओ ।
भरत—मैं अनुगृहीत हुआ हूँ ।
सीता—वत्स ! आओ । भाई के मनोरथ को पूरा करो ।
सुमन्त्र—कुमार प्रवेश करें ।
१३४ ] प्रतिमानाटकम्
भरत—तात् ! अब क्या करेंगे ?
सुमन्त्र—
अर्थ [श्लोक १५]—राजा दशरथ के स्वर्ग चले जाने पर, जब कि राम
को इस समाचार का पता लग चुका है, उसके बाद राम को देखने का मेरा यह
पहला अवसर है। अतः मैं बाद में प्रवेश करूँगा ॥१५॥]
संस्कृत-व्याख्या—नराधिपे नराणामधिपे राजनि दशरथे स्वर्गं याते नाक-
मधिरूढे सति, विदितार्थस्य विदितः ज्ञातः अर्थः पितृनिधनरूपः रामाचारः येन तस्य
रामस्य मम एतत् इदं पूर्वदर्शनं प्रथम एव दर्शनावसरः । अतः अहं सुमन्त्रः पश्चात्
तव प्रवेशानन्तरमेव प्रवेक्ष्यामि अन्तः गमिष्यामि । राज्ञः दशरथस्य निधनानन्तरं,
यदा च रामेण स समाचारः विदितः, मम तस्य दर्शनस्य प्रथम एवावसरः । मां दृष्ट्वा
तस्य पितृनिधन जन्यशोकसागरः पुनरपि उद्रेकमवाप्स्यति, अथ च भ्रातृमिलनजन्य-
हर्षश्च मन्दतामेष्यति । अतः भ्रात्रा सह तव मिलनान्तरमेवं मे तत्र गमनं
श्रेयः ॥१५॥
व्याकरण—नराणामधिपे = नराधिपे । अधिपति = अधि + पा + क =
अधिप । विदितः अर्थः येन तस्य विदितार्थस्य ।
छन्दः—अनुष्टुप् ।
—❖❖—
भरतः—एवमस्तु । (राममुपगम्य) आर्य ! अभिवादये । भरतोऽहमस्मि ।
रामः—(सहर्षम्) एह्येहि इक्ष्वाकुकुमार ! स्वस्ति । आयुष्मान् भव ।
वक्षः प्रसारय कपाटपुटप्रमाण-
मालिङ्ग मां सुविपुलेन भुजद्वयेन ।
उन्नामयाननमिदं शरदिन्दुकल्पं
प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥१६॥
[अन्वयः—कपाटपुटप्रमाणं वक्षः प्रसारय । सुविपुलेन भुजद्वयेन माम् आलिङ्ग ।
शरदिन्दुकल्पम् इदम् आननम् उन्नामय । व्यसनदग्धम् इदं शरीरं प्रह्लादय ॥१६॥]
हिन्दी रूपान्तर—
भरत—ऐसा ही हो । (राम के समीप जाकर) आर्य ! अभिवादन करता
हूँ । मैं भरत हूँ ।
राम—(प्रसन्नता के साथ) इक्ष्वाकुकुमार ! आओ, आओ । तुम्हारा
कल्याण हो । आयुष्मान् होओ ।
अर्थ [श्लोक १६]—किवाड़ों के समान विशाल आकार वाले अपने वक्षःस्थल
को फैलाओ । अति विशाल अपनी दोनों भुजाओं से मेरा आलिङ्गन कर लो ।
शरत्कालीन चन्द्रमा के समान इस सुन्दर मुख को ऊपर उठाओ । शोकरूप आपत्ति
से जले हुए इस शरीर को प्रसन्न कर दो ॥१६॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
चतुर्थोऽङ्कः । १२५
संस्कृत-व्याख्या-कपाटपुटं कवाटयुगलं तदिव प्रमाणम् मानमाकारः
विस्तीर्णत्वं वा यस्य तादृशं वक्षः उरःस्थलं प्रसारय विस्तारय । तथाभूते च सति त्वयि
ते वक्षःस्थलस्य आलिङ्गनयोग्यता भविष्यति समधिकसुखस्यानुभूतिश्च भविष्यति ।
सुविपुलेन अतिविशालेन भुजद्वयेन बाहुयुगलेन मां रामम् आलिङ्ग आश्लेषबद्धं कुरु ।
शरदिन्दुकल्पं शरत्कालीनचन्द्रसदृशशम् इदम् आननं मुखम् उन्नामय उन्नतं कुरु,
तथाभूते सति च ते मुखे दर्शनाधिकानन्दानुभवो भविष्यति । व्यसनदग्धं व्यसनैः पितृ-
निधनमातृभ्रातृवियोगादिजन्यैः कष्टैरापद्भिश्चदग्धं ज्वलन्तम् इदमेतत् शरीरं वपुः
प्रह्लादय आनन्दोच्छ्वसितं कुरु । विपद्भिः कष्टैश्च मे शरीरे दग्धतुल्या पीडा वर्तते ।
तवालिङ्गनेन तवमुखदर्शनेन चेयं दाहपीडा शिशिरत्वमुपैष्यति ॥१६॥
व्याकरण—प्र + मा + ल्युट् (अन) = प्रमाण ।
छन्दः—वसन्ततिलका ।
अलंकार—उपमा । तृतीय चरण में आनन उपमेय, शरदिन्दु उपमान, कल्प
उपमावाचक और प्रह्लादय साधारण धर्म हैं ।
भरतः—अनुगृहीतोऽस्मि ।
सुमन्त्रः—(उपेत्य) जयत्या युष्मान् ।
रामः—हा तात,
गत्वा पूर्वं स्वसैन्यैरभिसरिसमये खं समानैर्विमानै-
र्विख्यातो यो विमर्दे स स इति बहुशः सासुराणां सुराणाम् ।
स श्रीमांस्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्तं
स्वर्गस्थः साम्प्रतं किं रमयति पितृभिः स्वैर्नरैन्द्रैर्नरेन्द्रः ॥१७॥
[अन्वयः—पूर्वं सासुराणां सुराणां विमर्दे अभिसरिसमये समानैः विमानैः
स्वसैन्यैः खं गत्वा, स स इति यः बहुशः विख्यातः, स श्रीमान् त्यक्तदेहः नरेन्द्रः
दयितं स्नेहवन्तं भवन्तं विना अपि, साम्प्रतं स्वैः पितृभिः नरेन्द्रैः स्वर्गस्थः किं
रमयति ? ॥१७॥]
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हो गया हूँ ।
सुमन्त्र—(समीप आकर) आयुष्मान् की जय हो ।
राम—हाय तात् !
अर्थ [श्लोक १७]—पहले समय में जबकि देवताओं और असुरों का युद्ध
हो रहा था, तब देवताओं की सहायता के लिये स्वर्ग जाते समय, देवताओं के ही
जैसे विमानों द्वारा अपनी सेनाओं के साथ आकाश में जाकर, वह दशरथ है, वह
दशरथ है, इस प्रकार जो बहुत अधिक प्रसिद्ध हुये थे, वे श्रीमान् शरीर को छोड़
देने वाले राजा दशरथ, प्रिय तथा स्नेह से भरे हुये आपको बिना भी, अब अपने
१२६ ] प्रतिमानाटकम्
पितरों राजाओं के साथ स्वर्ग में रहते हुये क्या आनन्दित होते होंगे ? आप सुमन्त्र
के बिना उनको वहाँ भी कोई प्रसन्नता का अनुभव नहीं होता होगा । आपका यहाँ मेरे
पिता के साथ सदा रहना होता था, अतः आपके बिना उनको वहाँ किसी प्रकार का
आनन्द नहीं मिलता होगा ॥१७॥
संस्कृत-व्याख्या — पूर्वं पूर्वस्मिन् काले देवासुरसंग्रामसमये सासुराणां असुरैः
दैत्यैः सह तेषां सुराणां देवानां च विमर्दे युद्धे अभिसरिसमये अभिसरेः देवानां साहा-
य्यार्थमाक्रमणाय प्रस्थानस्य समये काले समानैः देवविमानैः तुल्यैः विमानैः व्योमयानैः
स्वसैन्यैः स्वचमूभिः सह खम् आकाशं गत्वा प्राप्य, स स अयमेव पराक्रमवीर्याति-
शाली दशरथ इति सम्बोध्यमानः बहुशः वारं वारं विख्यातः प्रसिद्धिं प्राप्तः स श्रीमान्
लक्ष्मीसम्पन्नः त्यक्तदेहः त्यक्तः विसर्जितः देहः शरीरं येन तथाभूतः निधनं प्राप्तः
इत्यर्थः नरेन्द्रः राजा दशरथः दयितं स्नेहास्पदीभूतं स्नेहवन्तं स्नेहशालिनं भवन्तं
सुमन्त्रं बिना अन्तरा, साम्प्रतमस्मिन् समये स्वैः आत्मीयैरपि पितृभिः पितृकोटिभूतैः
नरेन्द्रैः राजभिः दिलीपरघु-अजैः सद्भि स्वर्गस्थः स्वर्गस्थितोऽपि किं रमयति आनन्दा-
नुभवं करोति ? न रमयति इत्यर्थः । स्वपितृभिः साकं स्वर्गे वसन्नपि भवन्तं विना
न तस्य काऽपि आनन्दानुभूतिः अस्मिन् लोके सदैवभवता साकं विहरति स्म स राजा ।
स्वर्गे भवन्तमनवाप्य तस्य हर्षानुभूतिरसम्भवैव ॥१७॥
व्याकरण—सेनानां समूहः = सेना + ष्यञ् = सैन्य । स्वर्गे तिष्ठति = स्वर्ग +
स्था + क = स्वर्गस्थ । सम् + प्र + √तन् + इमु = साम्प्रतम् ।
छन्दः—स्रग्धरा ।
अलंकार—उदात्त और विनोक्ति । दशरथ के शौर्यातिशय आदि गुणों का कथन
करने से उदात्त अलंकार है। आपके बिना वह आनन्दित नहीं है, इसमें विनोक्ति
अलंकार है ।
सुमन्त्रः—(सशोकम्)
नरपतिनिधनं भवत्प्रवासं, भरतविषादमनाथतां कुलस्य ।
बहुविधमनुभूय दुष्प्रसह्यं गुण इव बह्वापराद्धमायुषा मे ॥१८॥
[अन्वयः—नरपतिनिधनं, भवत्प्रवासं, भरतविषादं, कुलस्य अनाथतां,
बहुविधं दुष्प्रसह्यम् अनुभूय मे आयुषा गुण इव बहु अपराद्धम् ॥१८॥]
हिन्दी रूपान्तर—
सुमन्त्र—(शोक में भर कर)
अर्थ [श्लोक १८]—राजा दशरथ की मृत्यु, आपका (राम, सीता और
लक्ष्मण तीनों का) वनवास, भरत का दुःख, कुल (रघुकुल) का अनाथ होनां, इस
प्रकार के अनेकों असहनीय दुःखों का अनुभव करके मेरी लम्बी आयु ने गुणों के
चतुर्थोऽङ्कः [ १२७
समान ही (लम्बी आयु होना गुण माना जाता है) बहुत अधिक अपराध किया है ।
अनेक प्रकार के असह्य दुःख उठाने के कारण मैं लम्बी आयु को सहन नहीं कर
पा रहा हूँ ॥१८॥
संस्कृत व्याख्या—नरपतिनिधनं नरपतेः राज्ञः दशरथस्य निधनं मरणं, भव-
त्प्रवासं भवतां राम-सीता-लक्ष्मणानां प्रवासं नगरादागत्य वने निवसनं, भरतविषादं
पितृमरणभ्रातृवियोगादिजन्यं दुःखं, कुलस्य एतादृशस्य उन्नतस्य रघुवंशस्य अनाथतां
न विद्यते कोऽपि नाथः शरणं यस्य तस्य भावः तत्ता ताम्, इति बहुविधम् अनेक प्रकारकं
दुष्प्रसह्यं दुःखेन अतिकष्टेन प्रसह्य सोढुं शक्यं दुःखमिति शेष, मे मम सुमन्त्रस्य
आयुष दीर्घजीवितेन गुणः इव, यद्यपि चिरजीवित्वं गुण एव तथापि तदिव बहु
अत्यधिकम् अपराद्धम् अपराधः कृतः । दीर्घायुर्भावः गुण एव तथापि अहमनेकानि
सोढुमशक्यानि दुःखानि सततमनुभवामि । राज्ञः दशरथः स्वर्गं गतः, भवन्तः वन-
प्रदेशमनुप्राप्ताः, भरतः निरन्तरं विषीदति, रघुकुलस्य न कोऽपि नाथो विद्यते ।
अतः चिरं जीवन्नहं सततमात्मानमपराराधिनमनुभवामि ॥१८॥
व्याकरण—नरपतेः निधनम् = नरपतिनिधनम् । नराणां पतिः = नरपतिः ।
अप + √ राध् + क्त = अपराद्ध । आ + √ इण् + उस् = आयुस् ।
छन्दः—पुष्पिताग्रा ।
अलङ्कार—हेतु । अपराध करने के अनेक हेतुओं का कथन करने से हेतु
अलंकार है ।
सीता—रोदन्तं अय्यउत्तं पुणो वि रोदावीअदि तादो । [रुदन्तमार्यपुत्रं
पुनरपि रोदयति तातः ।]
रामः—मैथिलि ! एष पर्यावस्थापयाम्यात्मानम् । वत्स लक्ष्मण !
आपस्तावत् ।
लक्ष्मणः—यदाज्ञापयत्यार्यः ।
भरतः—आर्य ! न खलु न्याय्यम् । क्रमेण शुश्रूषयिष्ये । अहमेव
यास्यामि । (कलशं गृहीत्वा निष्क्रम्य प्रविश्य) इमा आपः ।
रामः—(आचम्य) मैथिलि ! विशीर्यन्ते खलु लक्ष्मणस्य व्यापाराः ।
सीता—अय्यउत्त ! णं एदिणा वि सुस्सूसइदव्वो । ] आर्यपुत्रः । नन्वेतेनापि
शुश्रूषयितव्यः ।]
रामः---सुष्ठु, खल्विह लक्ष्मणः शुश्रूषयतु । तत्रस्थो मां भरतः
शुश्रूषयतु ।
भरतः—प्रसीदतु मयि भगवान् ।
१२८ ] प्रतिमानाटकम्
इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा ।
नाम्नैव भवतो राज्यं कृतरक्षं भविष्यति ॥१६॥
[अन्वयः—इह देहेन स्थास्यामि, तत्र कर्मणा स्थास्यामि। भवतः राज्यं
नाम्ना एव कृतरक्षं भविष्यति ॥१६॥]
हिन्दी रूपान्तर—
सीता—रोते हुये आर्यपुत्र को तात फिर भी रुला रहे हैं ।
राम—सीते ! यह मैं अपने आपको सम्भाल रहा हूँ । वत्स लक्ष्मण !
जल लाओ।
लक्ष्मण—आर्य जो आदेश देते हैं ।
भरत—आर्य ! यह न्यायोचित नहीं है । क्रम के अनुसार मैं सेवा करूंगा ।
मैं ही जाऊंगा । (कलश को लेकर, निकल कर, प्रवेश करके) ये जल हैं ।
राम—(आचमन करके) सीते ! लक्ष्मण का काम तो छूटा जा रहा है ।
सीता—आर्यपुत्र ! निश्चय से इनको भी सेवा करनी चाहिये ।
राम—ठीक है। तो यहाँ तो लक्ष्मण सेवा करे। वहाँ अयोध्या में स्थित
होने पर मेरी सेवा भरत करे ।
भरत—आप मुझ पर प्रसन्न होवें ।
अर्थ [श्लोक १६]—यहाँ वन में मैं शरीर से स्थित रहूँगा और वहाँ अयोध्या
में कर्म से स्थित रहूँगा । आपके राज्य की रक्षा तो आपके नाम से ही हो जायगी ।
भरत के कहने का अभिप्राय यह है कि वे वन में ही निवास करेंगे और राम की
सेवा करेंगे । परन्तु अयोध्या के राज्य की रक्षा की चिन्ता सदा करते रहेंगे ॥१६॥
संस्कृत-व्याख्या—इह अस्मिन् वने एव अहं देहेन शरीरेण स्थास्यामि निव-
सिष्यामि । नाहमयोध्यां निवर्त्य गमिष्यामि, वन एव मे निवासो भविष्यत्यर्थः । तत्र
अयोध्यायां राजधान्यां तु कर्मणा राज्यपालन रूपकर्तव्यकर्मणा स्थास्यामि, शरीरेण
इहस्थोऽप्यहं राज्यरक्षात्मककर्तव्यं सम्पादयिष्यामि। भवतः राज्यं नाम्ना भवतः
नाममात्रश्रवणेन एव कृतरक्षं कृता विहिता रक्षा यस्य तादृशं सुरक्षितं भविष्यति ।
भवतः नाममात्रं श्रुत्वैव न कस्यचिदप्यत्रोपद्रवकरणसाहसं भविष्यति ॥१६॥
व्याकरण—कृता रक्षा यस्य तादृशम् = कृतरक्षम् ।
छन्दः—अनुष्टुप् ।
न्याय्यम्—न्यायस्ययोग्यम् = न्याय = ण्यत् = न्याय्य । भरत को कवि ने
लक्ष्मण से छोटा वर्णित किया है । सबसे छोटे का अधिकार सबकी सेवा करने का
होता है । भरत छोटे हैं, अतः लक्ष्मण को जल लाने के लिये उद्यत देखकर स्वयं
जल लाने का प्रस्ताव करते हैं ।
चतुर्थोऽङ्कः । १२६
रामः—वत्स कैकेयीमातः ! मा मैवम्—
पितुर्नियोगादहमागतो वनं
न वत्स ! दर्पान्न भयान्न विभ्रमात् ।
कुलं च नः सत्यधनं ब्रवीमि ते
कथं भवान् नीचपथे प्रवर्तते ॥२०॥
[अन्वयः—वत्स ! पितुः नियोगात् अहं वनम् आगतः । न दर्पात्, न भयात्,
न विभ्रमात् । ते ब्रवीमि, नः कुलं च सत्यधनम् । भवान् नीचपथे कथं प्रवर्तते ॥२०॥]
हिन्दी रूपान्तर—
राम—हे वत्स कैकेयी के पुत्र ! ऐसा मत कहो, मत कहो—
अर्थ [श्लोक २०]—हे वत्स ! पिता के आदेश से मैं वन में आया हूँ। न
तो किसी घमण्ड के कारण, न भय के कारण और नाहीं चित्त की भ्रान्ति के कारण
यहाँ आया हूँ। मैं तुमसे कहता हूँ कि हमारे कुल का धन सत्य ही है। इसलिये आप
नीच मार्ग पर क्यों प्रवृत्त हो रहे हैं ? आपको चाहिये कि सत्य के व्रत का पालन
करें और अयोध्या जाकर राज्य संभाले ॥२०॥
संस्कृत व्याख्या—वत्स भरत ! पितुः जनकस्य दशरथस्य नियोगाद् आदेशाद्
अहम् वनम् अरण्यम् आगतः आयातः । न दर्पात् गर्वात्, न भयात् भयकारणात्, न
च विभ्रमात् चित्तस्य भ्रान्तिवशाद् वनमागतः । अत्र वनागमनहेतुः पितुः निदेशएव,
न दर्पः, न भयं, न च विभ्रमः । ते त्वां ब्रवीमि कथयामि, नः अस्माकं कुलं रघुवंशः
सत्यधनं सत्यमेव धनं यस्य तादृशं वर्तते । अतः भवान् नीचपथे अधमजनोचितमार्गे
कथं कस्मात्कारणात् प्रवर्तसे प्रवृत्तो भवसि । न कुलस्य सत्यधनत्वात् भवतापि सत्य-
मार्गे प्रवर्तितव्यम् । पितुरादेशं मान्यं कृत्वा अयोध्यां गत्वा राज्यरक्षा कर्तव्या ॥२०॥
व्याकरण—नि + युज् + घञ् = नियोग । सत्यं धनं यस्य तत् = सत्यधनम् ।
छन्दः—वंशस्थ ।
•••
सुमन्त्रः—अथेदानीमभिषेकोदकं क्व तिष्ठतु ?
रामः—यत्र मे मात्राऽभिहितं, तत्रैव तावत् तिष्ठतु ।
भरतः—प्रसीदत्वार्यः । आर्य ! अलमिदानीं व्रणे प्रहर्तुम् ।
अपि सुगुण ! ममापि त्वत्प्रसूतिः प्रसूतिः
स खलु निभृतधीमांस्ते पिता मे पिता च ।
सुपुरुष ! पुरुषाणां मातृदोषो न दोषो
वरद ! भरतमातं पश्यतावद्यथावत् ॥२१॥
[अन्वयः—अपि च । सुगुण ! त्वत्प्रसूतिः मम अपि प्रसूतिः। निभृतधीमान्
१३० ] प्रतिमानाटकम्
स ते पिता खलु मे पिता । सुपुरुष ! पुरुषाणां मातृदोषः दोषः न । वरद ! आर्तं
भरतं तावत् यथावत् पश्य ॥२१॥
हिन्दी रूपान्तर—
सुमन्त्र—अब यह अभिषेक का जल कहाँ रखा जावे अर्थात् किसका राज्या-
भिषेक किया जावे ?
राम—जहाँ मेरी माता ने कहा है, वहीं रखा जावे ।
भरत—आर्य प्रसन्न होवें । हे आर्य ! अब घाव पर और प्रहार मत करो—
अर्थ [श्लोक २१]—और भी यह बात है । श्रेष्ठ गुणों से सम्पन्न हे आर्य !
तुम जिस वंश में उत्पन्न हुये हो, मैं भी उस वंश में उत्पन्न हुआ हूँ । स्थिर बुद्धि
वाले तुम्हारे पिता निश्चय से मेरे भी पिता हैं । हे श्रेष्ठ पुरुष ! पुरुषों के लिये,
माता की ओर से किया गया दोष, दोष नहीं गिना जाता । वर देने वाले हे भाई !
पीड़ित भरत को तो ठीक प्रकार से देखिये । भरत की पीड़ा का अनुभव
कीजिये ॥२१॥
संस्कृत-व्याख्या—अपि चेयं वार्ता । सुगुण शोभनगुणसम्पन्न हे आर्य !
त्वत्प्रसूतिः त्वदुत्पत्तिकुलं मम भरतस्य अपि प्रसूतिः प्रभवकुलं वर्तते । निभृतधीमान्
निभृता प्रशस्ता स्थिरा बुद्धिः मतिः निभृतधीः सा यस्य अस्ति स निभृतधीमान् ते
पिता जनकः दशरथः खलु निश्चयेन मे अपि पिता वर्तते । सुपुरुष शोभनपुरूष !
पुरुषाणां मातृदोषः मातरं प्रति उद्दिश्य उपलक्षितः दोषः दोषः न गण्यते । वरद वरं
ददादि इति वरदः, आर्तं पितृमरणभ्रातृवनवासजनितपीडासन्तप्तं भरतं तावत्
यथावत् उचित प्रकारेण पश्य अवलोकय । भवता विचारणीयोऽस्मिन् मम दोषः ।
मातृकृतापराधेऽहं न दण्डनीय इति भावः ॥२१॥
व्याकरण—शोभना गुणाः यस्य स सुगुणः । प्र + √सू + क्तिन् = प्रसूति ।
निभृत + धी + मतुप् = निभृतधीमत् । शोभनः पुरुषः = सुपुरुषः । वरं ददाति = वर
- √दा + क = वरद । आ + √ऋ + क्त = आर्त ।
छन्दः—मालिनी ।
सीता—अय्यउत्त ! अधिकरुणं मन्तेअइ भरदो । किं दाणि अय्यउत्तेण चिन्ती
यदि ? [आर्यपुत्र ! अतिकरुणं मन्त्रयते भरत । किमिदानीमार्यपुत्रेण
चिन्त्यते ?]
रामः—मैथिलि !
तं चिन्तयामि नृपतिं सुरलोकयातं
ये नायमात्मजविशिष्ट गुणो न दृष्टः ।
ईदृग्विधं गुणनिधिं समवाप्य लोके
धिग् भो ! विधेर्यदि बलं पुरुषोत्तमेषु ॥२२॥
चतुर्थोऽङ्कः । १३१
[अन्वयः—सुरलोकयातं तं नृपतिं चिन्तयामि, येन आत्मजविशिष्टगुणः अयं
न दृष्टः । ईदृग्विधं गुणनिधिं समवाप्य लोके पुरुषोत्तमेषु यदि विधेः बलं, भो !
धिक् ॥२२॥
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! भरत बहुत अधिक करुणा में भर कर कह रहा है । आर्य-
पुत्र अब क्या विचार कर रहे हैं ?
राम—हे सीते !
अर्थ (श्लोक २२)—स्वर्गलोक को गये हुये उस राजा दशरथ पिता के
सम्बन्ध में मैं विचार कर रहा हूँ, जिसने अपने चारों पुत्रों में विशिष्ट गुणशाली इस
भरत को नहीं देखा था । इस प्रकार के विशिष्ट स्वभाव वाले और गुणों के निधि
पुत्र को पाकर भी लोक में, श्रेष्ठ पुरुषों के मध्य में यदि विधाता का बल सामर्थ्य-
शाली होता है, तो हे लोगो ! तुम सबको धिक्कार है । उस विधि का यह अत्यधिक
अनुचित कार्य है कि इस प्रकार के गुणनिधान पुत्र को अच्छी प्रकार न समझकर वे
मेरे पिता कालकवलित हो गये ॥२२॥
संस्कृत-व्याख्या—सुरलोकयातं स्वर्गलोकसम्प्राप्तं तं नृपतिं राजानं दशरथमेव
चिन्तयामि विचारयामि येन नृपतिना आत्मजगुणविशिष्टः आत्मजेषु स्वकीयेषु
चतुर्ष्वपि पुत्रेषु मध्ये विशिष्टाः सर्वाधिकाः गुणाः यस्य तादृशः सर्वाधिक विशिष्ट-
गुणसम्पन्तः अयं भरतः न दृष्टः अवलोकितः यथार्थरूपेण नावगतः इति भावः ।
ईदृग्विधम् एतादृशं गुणनिधि गुणानां निधानं पुत्रं भरतं समवाप्य समधिगम्य लोके
जगति पुरुषोत्तमेषु श्रेष्ठ मनुष्येषु पितृचरण सदृशेषु यदि विधेः भाग्यस्यैव बलं
सामर्थ्यमवलोक्यते, स एव विधिः प्रमुखो भूत्वा स्वसामर्थ्येन लोकं सञ्चालयति,
तदा भोः हे जनाः धिक् अस्मादृशाः सर्व एव जनाः धिक्कारयोग्याः सन्ति । दैवपार-
वश्यता धिक्कारयोग्यैव ॥२२॥
व्याकरण—आत्मजेषु विशिष्टाः गुणाः यस्य स=आत्मजविशिष्टगुणः ।
आत्मनो जातः = आत्मन् + √जन् + ड = आत्मज । गुणानां निधिम् = गुणनिधिम् ।
नि + √धा + कि = निधि ।
छन्दः—वसन्ततिलका ।
वत्स ! कैकेयीमातः !
यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवां-
स्तैस्तैर्वाक्यस्य वशानुगोऽस्मि भवतः ख्यातैर्गुणैर्निर्जितः ।
किंवा तेन नृपतेर्वचस्तदनृतं कर्तुं न युक्तं त्वया
किञ्चोत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ॥२३॥
१३२ । प्रतिमानाटकम्
[अन्वयः—यत्सत्यं भवता परितोषितः अस्मि । भवान् निष्कल्मषात्मा ।
त्वद्वाक्यस्य वशानुगः अस्मि । भवतः ख्यातैः गुणैः निर्जितः । किन्तु एतत् नृपतेः वचः ।
त्वया तत् अनृतं कतुं न युक्तम् । किं च, भवद्विधम् उत्पाद्य ते पिता मिथ्याभिधायी
भवतु ? ॥२३॥]
हिन्दी रूपान्तर—
हे वत्स कैकेयी के पुत्र भरत !
अर्थ [श्लोक २३]—हे वत्स बात सत्य है कि आपने मुझको सन्तुष्ट कर
दिया है। आप पापरहित निर्मल अन्तःकरण वाले हैं। मैं आपके वाक्यों के वशीभूत
हो गया हूँ। आपके प्रसिद्ध गुणों ने मुझको जीत लिया है। किन्तु यह तो राजा
दशरथ का वचन है। तुमको उसे असत्य नहीं करना चाहिये और क्या, आपके
जैसे पुत्र को उत्पन्न करके आपके पिता असत्यवादी होवें ? ॥२३॥
संस्कृत-व्याख्या —हे वत्स ! यत्सत्यम् इयं वार्ता यथार्थैव वर्तते यदहं भवतां
परितोषितः सन्तुष्टान्तरात्मा कृतः । भवद्व्यवहारेणाहं पूर्णरूपेण सन्तुष्टः नात्र मे
वनवासविषये भवतः कोऽपि दोषः । भवान् निष्कल्मषः पापपङ्करहितः आत्मा अन्तः-
करणं वर्तते । निष्कलङ्कान्तःकरणो भवान्, न किमपि कलुषत्वं भवतः हृदये वर्तते ।
त्वद्वाक्यस्य तव कथनस्य वशानुगः वशीभूतः अस्मि । यदेव त्वया कथितं तेन मे
हृदयं निर्मलनिष्कपटभावत्वेन स्वायत्तीकृतम् । अतः भवत्कथमनुल्लङ्घनीयमेव ।
भवतः ख्यातैः जगति प्रथितैः गुणैः सौजन्यसारल्यस्नेहश्रद्धाप्रभृतिभिः गुणैः निर्जितः
स्वायत्तीकृतः अस्मि । सर्वमेतत्तुवर्तते एव, किन्तु परन्तु एतत् इदं नृपतेः राज्ञः
दशरथस्य अस्मत्पितुः वचः वचनं वर्तते । त्वया समग्रगुणविशिष्टेन भरतेन तत् पितुः
वचः अनृतम् असत्यं कतुं विधातुं न युक्तम् उचितम् पितुरेव वचनं यद् भरतः
राज्याधिरोहणं कुर्यात् रामश्च वनं प्रव्रजेत्, तच्च त्वया अन्यथा कतुं नोचितम् । किं
च अपरमिदं कथनं यत् भवद्विधं भवत्सदृशं गुणगरिमविशिष्टं पुत्रम् उत्पाद्य जनयित्वा
ते पिता जनकः मिथ्याभिधायी असत्यवादी भवतु ? पुत्रेण पितुः वचः सर्वथा रक्षणी-
यम् । पुनश्च भवांस्तु सकलगुणनिधानम् । अतः भवतः परममिदं कर्तव्यं यत् पितुः
वचनस्य रक्षा भूयात्, न च स लोके कदाचिदपि मिथ्यावादीरूपेण निन्दास्पदः
स्यात् ॥२३॥
व्याकरण —परि + √तुष् + णिच् + क्त=परितोषितः । निष्कल्मषः आत्मा
यस्य स = निष्कल्मषात्मा । निर्गतं कल्मषं यस्य स =निष्कल्मषः । वशम् अनुगच्छति
=वश + अनु + √गम् + ड = वशानुग । मिथ्या अभिदधाति = मिथ्या + अभि +
√धा + णिनि = मिथ्याभिधायिन् ।
छन्दः—शार्दूलविक्रीडित ।
अलङ्कार—काव्यलिङ्ग । समर्थन के योग्य वस्तु का समर्थन करने से काव्य-
लिङ्ग अलङ्कार है।
चतुर्थोऽङ्कः [ १३३
अतिकरुणं मन्त्रयते भरतः—भरत के दीनता से भरे वचनों को सुनकर सीता
करुणा से भर जाती है तथा पति से प्रार्थना करती है कि भरत की बात को ध्यान
से सुन लें ।
कैकेयीमातः—कैकेयी माता यस्य स = कैकेयीमातः । यह सम्बोधन साभि-
प्राय है । इसके द्वारा राम यह अभिव्यक्त करना चाहते हैं कि कैकेयी के कारण ही
पिता ने ये वचन दिये थे, अतः तुमको निश्चय रूप से उनका पालन करना है ।
भरतः— यावद्भविष्यति भवन्नियमावसानं
तावद् भवेयमिह ते नृप ! पादमूले ।
रामः— मैवं नृपः स्वसुकृतैरनुयातुसिद्धिं
मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥२४॥
[अन्वयः—नृप ! यावत् भवन्नियमावसानं भविष्यति, तावत् इह ते पाद-
मूले भवेयम् ।।
मा एवम् । नृपः स्वसुकृतैः सिद्धिम् अनुयातु । चेत् स्वराज्यं न परिरक्षसि,
मे शापितः ॥२४॥]
हिन्दी रूपान्तर—
भरत—
अर्थ [श्लोक २४]—हे राजन् ! जब तक कि आपके नियम, चौदह वर्षों के
वनवास की समाप्ति होगी, तब तक यहाँ आपके चरणों की सेवा में रहूँ ।
रामः—
ऐसा मत कहो । राजा, हमारे आदरणीय पिता अपने सत्यवादित्व
आदि पुण्यों के प्रभाव से सिद्धि को, स्वर्ग आदि अनन्त सुखों को प्राप्त
करें । यदि तुम अपने राज्य की रक्षा नहीं करते, तो तुमको मेरी शपथ है ॥२४॥
संस्कृत-व्याख्या—नृप हे राजन् ! यावत् यावत्कालपर्यन्तं भवन्नियमावसानं
भवतः नियमस्य चतुर्दशवर्षपर्यन्तं यद् वने निवसनं तस्य अवसानं समाप्तिः भविष्यति,
तावत् तावत्कालपर्यन्तम् इह अस्मिन्नेव वन प्रदेशे ते तव पादमूले च चरणसेवायां
तवाश्रये भवेयम् निवासं कुर्याम् । इति मे प्रार्थना ।
मा एवम् अनेन प्रकारेण, अहं वने निवत्स्यामि इति प्रकारेण न कथय ।
नृपः राजा दिलीपः अस्मत्पितृपादाः स्वसुकृतैः स्वीयैः सत्यवादित्वादिपुण्य-
कर्मफलैरेव सिद्धिं स्वर्गाद्यनन्तसुखभोगफलम् अनुयातु प्राप्नोतु । यदि त्वं मया सह
वने निवत्स्यसि, राज्यस्य च रक्षां न करिष्यसि, पितुः वचनमन्यथा भविष्यति । एवं
च स राजा मिथ्यावादी भूत्वा विनष्टपुण्यो भूत्वा स्वर्गादिकं न प्राप्स्यसि । अतः
१३४ ] प्रतिमानाटकम्
चेत् यदि त्वं स्वराज्यं स्वकीयं शासनाधिपत्यं न परिरक्षसि परित्रायसे, मे शापितः
अहं तुभ्यं शपथेन बध्नामि अहं त्वां शपथेनेदं कथयामि ॥ २४॥
व्याकरण—भवतः नियमस्य अवसानम् = भवन्नियमावसानम् । अव + √
सो + ल्युट् (अन) अवसान ।
स्वैः सुकृतैः = स्वसुकृतैः । सु + √ कृ + क्त = सुकृत । √ शप् + णिच् + क्त =
शापित ।
छन्दः—वसन्ततिलका ।
अनुत्तरमभिहितम्—न विद्यते उत्तरः यस्य तत् = न + उत्तरं = अनुत्तर ।
अभि + धा + क्त = अभिहित । राम ने जो कहा था, भरत के पास उसका कोई
उत्तर नहीं था, क्योंकि पिता को मिथ्यावादी बनाना उसके लिये अनुचित था ।
कः समयः—समय के अनेक अर्थ हैं—शपथ, काल, समझौता, शर्त आदि ।
यहाँ समय पद का अर्थ शर्त है—"समया—शपथाचारकालसिद्धान्तसंविदः” ।
प्रतिग्रहीतुम्—सामान्यतः 'प्रतिगृहीतुम्' पद का अर्थ है—स्वीकार करने के
लिये, लेने के लिये । परन्तु यह अर्थ यहाँ संगत नहीं है, क्योंकि भरत चाहते हैं कि
वनवास की अवधि पूरी होने पर वे पुनः राम को राज्य वापिस कर दें । अतः यहाँ
अन्तर्भावित ण्यथं मानने पर अर्थ की संगति हो सकेगी । इसका अर्थ होगा कि
'प्रतिग्राहयितुम्' आप को राज्य स्वीकार कराना चाहता हूँ ।
भरतः—हन्त, अनुत्तरमभिहितम् । भवतु समयतस्ते राज्यं परिपाल-
यामि ।
रामः—वत्स ! कः समयः ?
भरतः—मम हस्ते निक्षिप्तं तव राज्यं चतुर्दशवर्षान्ते प्रतिगृहीतु-
मिच्छामि ।
रामः—एवमस्तु ।
भरतः—आर्य ! श्रुतम् ? आर्ये ! श्रुतम् ? तातः ! श्रुतम् ?
सर्वेः—वयर्माप श्रोतारः ।
भरतः—आर्य ! अन्यमपि वरं हर्तुमिच्छामि ।
रामः—वत्स ! किमिच्छसि ? किमहं ददामि ? किमहमनुष्ठास्यामि ?
भरतः— पादोपभुक्ते तव पादुके मे
एते प्रयच्छ प्रणताय मूर्ध्ना ।
यावद् भवानेष्यति कार्यसिद्धिं
तावद् भविष्याम्यनयोर्विधेयः ॥२५॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA