प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 196, कुल 296 में से
संदर्भ में पढ़ें१३२ । प्रतिमानाटकम्
[अन्वयः—यत्सत्यं भवता परितोषितः अस्मि । भवान् निष्कल्मषात्मा ।
त्वद्वाक्यस्य वशानुगः अस्मि । भवतः ख्यातैः गुणैः निर्जितः । किन्तु एतत् नृपतेः वचः ।
त्वया तत् अनृतं कतुं न युक्तम् । किं च, भवद्विधम् उत्पाद्य ते पिता मिथ्याभिधायी
भवतु ? ॥२३॥]
हिन्दी रूपान्तर—
हे वत्स कैकेयी के पुत्र भरत !
अर्थ [श्लोक २३]—हे वत्स बात सत्य है कि आपने मुझको सन्तुष्ट कर
दिया है। आप पापरहित निर्मल अन्तःकरण वाले हैं। मैं आपके वाक्यों के वशीभूत
हो गया हूँ। आपके प्रसिद्ध गुणों ने मुझको जीत लिया है। किन्तु यह तो राजा
दशरथ का वचन है। तुमको उसे असत्य नहीं करना चाहिये और क्या, आपके
जैसे पुत्र को उत्पन्न करके आपके पिता असत्यवादी होवें ? ॥२३॥
संस्कृत-व्याख्या —हे वत्स ! यत्सत्यम् इयं वार्ता यथार्थैव वर्तते यदहं भवतां
परितोषितः सन्तुष्टान्तरात्मा कृतः । भवद्व्यवहारेणाहं पूर्णरूपेण सन्तुष्टः नात्र मे
वनवासविषये भवतः कोऽपि दोषः । भवान् निष्कल्मषः पापपङ्करहितः आत्मा अन्तः-
करणं वर्तते । निष्कलङ्कान्तःकरणो भवान्, न किमपि कलुषत्वं भवतः हृदये वर्तते ।
त्वद्वाक्यस्य तव कथनस्य वशानुगः वशीभूतः अस्मि । यदेव त्वया कथितं तेन मे
हृदयं निर्मलनिष्कपटभावत्वेन स्वायत्तीकृतम् । अतः भवत्कथमनुल्लङ्घनीयमेव ।
भवतः ख्यातैः जगति प्रथितैः गुणैः सौजन्यसारल्यस्नेहश्रद्धाप्रभृतिभिः गुणैः निर्जितः
स्वायत्तीकृतः अस्मि । सर्वमेतत्तुवर्तते एव, किन्तु परन्तु एतत् इदं नृपतेः राज्ञः
दशरथस्य अस्मत्पितुः वचः वचनं वर्तते । त्वया समग्रगुणविशिष्टेन भरतेन तत् पितुः
वचः अनृतम् असत्यं कतुं विधातुं न युक्तम् उचितम् पितुरेव वचनं यद् भरतः
राज्याधिरोहणं कुर्यात् रामश्च वनं प्रव्रजेत्, तच्च त्वया अन्यथा कतुं नोचितम् । किं
च अपरमिदं कथनं यत् भवद्विधं भवत्सदृशं गुणगरिमविशिष्टं पुत्रम् उत्पाद्य जनयित्वा
ते पिता जनकः मिथ्याभिधायी असत्यवादी भवतु ? पुत्रेण पितुः वचः सर्वथा रक्षणी-
यम् । पुनश्च भवांस्तु सकलगुणनिधानम् । अतः भवतः परममिदं कर्तव्यं यत् पितुः
वचनस्य रक्षा भूयात्, न च स लोके कदाचिदपि मिथ्यावादीरूपेण निन्दास्पदः
स्यात् ॥२३॥
व्याकरण —परि + √तुष् + णिच् + क्त=परितोषितः । निष्कल्मषः आत्मा
यस्य स = निष्कल्मषात्मा । निर्गतं कल्मषं यस्य स =निष्कल्मषः । वशम् अनुगच्छति
=वश + अनु + √गम् + ड = वशानुग । मिथ्या अभिदधाति = मिथ्या + अभि +
√धा + णिनि = मिथ्याभिधायिन् ।
छन्दः—शार्दूलविक्रीडित ।
अलङ्कार—काव्यलिङ्ग । समर्थन के योग्य वस्तु का समर्थन करने से काव्य-
लिङ्ग अलङ्कार है।