प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 193, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । १२६
रामः—वत्स कैकेयीमातः ! मा मैवम्—
पितुर्नियोगादहमागतो वनं
न वत्स ! दर्पान्न भयान्न विभ्रमात् ।
कुलं च नः सत्यधनं ब्रवीमि ते
कथं भवान् नीचपथे प्रवर्तते ॥२०॥
[अन्वयः—वत्स ! पितुः नियोगात् अहं वनम् आगतः । न दर्पात्, न भयात्,
न विभ्रमात् । ते ब्रवीमि, नः कुलं च सत्यधनम् । भवान् नीचपथे कथं प्रवर्तते ॥२०॥]
हिन्दी रूपान्तर—
राम—हे वत्स कैकेयी के पुत्र ! ऐसा मत कहो, मत कहो—
अर्थ [श्लोक २०]—हे वत्स ! पिता के आदेश से मैं वन में आया हूँ। न
तो किसी घमण्ड के कारण, न भय के कारण और नाहीं चित्त की भ्रान्ति के कारण
यहाँ आया हूँ। मैं तुमसे कहता हूँ कि हमारे कुल का धन सत्य ही है। इसलिये आप
नीच मार्ग पर क्यों प्रवृत्त हो रहे हैं ? आपको चाहिये कि सत्य के व्रत का पालन
करें और अयोध्या जाकर राज्य संभाले ॥२०॥
संस्कृत व्याख्या—वत्स भरत ! पितुः जनकस्य दशरथस्य नियोगाद् आदेशाद्
अहम् वनम् अरण्यम् आगतः आयातः । न दर्पात् गर्वात्, न भयात् भयकारणात्, न
च विभ्रमात् चित्तस्य भ्रान्तिवशाद् वनमागतः । अत्र वनागमनहेतुः पितुः निदेशएव,
न दर्पः, न भयं, न च विभ्रमः । ते त्वां ब्रवीमि कथयामि, नः अस्माकं कुलं रघुवंशः
सत्यधनं सत्यमेव धनं यस्य तादृशं वर्तते । अतः भवान् नीचपथे अधमजनोचितमार्गे
कथं कस्मात्कारणात् प्रवर्तसे प्रवृत्तो भवसि । न कुलस्य सत्यधनत्वात् भवतापि सत्य-
मार्गे प्रवर्तितव्यम् । पितुरादेशं मान्यं कृत्वा अयोध्यां गत्वा राज्यरक्षा कर्तव्या ॥२०॥
व्याकरण—नि + युज् + घञ् = नियोग । सत्यं धनं यस्य तत् = सत्यधनम् ।
छन्दः—वंशस्थ ।
•••
सुमन्त्रः—अथेदानीमभिषेकोदकं क्व तिष्ठतु ?
रामः—यत्र मे मात्राऽभिहितं, तत्रैव तावत् तिष्ठतु ।
भरतः—प्रसीदत्वार्यः । आर्य ! अलमिदानीं व्रणे प्रहर्तुम् ।
अपि सुगुण ! ममापि त्वत्प्रसूतिः प्रसूतिः
स खलु निभृतधीमांस्ते पिता मे पिता च ।
सुपुरुष ! पुरुषाणां मातृदोषो न दोषो
वरद ! भरतमातं पश्यतावद्यथावत् ॥२१॥
[अन्वयः—अपि च । सुगुण ! त्वत्प्रसूतिः मम अपि प्रसूतिः। निभृतधीमान्