प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 179, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः [ ११५
तया स्फुटभावेन प्रतीयमानानि यानि करणानि उच्चारणसाधनानि तैः नानाक्षराणि
विविधवर्णाः तेषां भावस्तत्ता तया अनुपहतसञ्चाररभसः अनुपहतः अप्रतिरुद्धः सञ्चा-
रस्य शब्दोच्चारण प्रचारस्य रभसः वेगः यस्य स, यः यथास्थानं वर्णोच्चारणशक्त्या
विविधाक्षरान् स्पष्ट रूपेण वेगेन च उच्चारयितुं समर्थः इति भावः, चतुर्णां चतुः-
संख्यापरिमितार्ना ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणाम् अभयं निर्भयत्वम् इव दातुं व्यवसितः
उद्युक्तः । मुखे-कण्ठे वक्षसि च विशिष्टवर्णोच्चारणक्षमानि स्थानानि वर्तन्ते तालुमूर्ध-
कण्ठोष्ठादीनि तैः करणैः यः स्वरसंयोगः स्पष्टरूपेण वेगेन च नानाविधान् अक्षर्रान्
उच्चारयितुं क्षमते, यस्य च गाम्भीर्यभावेन लोकाः निर्भयत्वमनुभवन्ति तादृशः
स्वरोऽयं परिचीयते ॥७॥
व्याकरण—समदः यः वृषभस्तस्य स्वर इव स्निग्धः मधुरः च । √वृष् +
अभच् = वृषभ । √स्निह् + क्त = स्निग्ध । मधु + √रा + क = मधुर । न उपहतः
= अनुपहतः । अनुपहतः सञ्चारस्य रभसः यस्य स । न + उप + हन् + क्त = अनुप-
हत । सम् + चर् + घञ् = सञ्चार । स्फुटानि करणैः नाना अक्षराणि तस्य भावः
तत्ता तया । कृ + ल्युट् (अन) = करण । न + क्षर = अक्षर । वि + अव + √षिव्
- क्त = व्यवसित ।
छन्दः—शिखरिणी ।
अलङ्कार—परिकर और उत्प्रेक्षा । अभिप्रायगर्भित विशेषणों का प्रयोग होने
से परिकर अलङ्कार है । अभयं दातुम् इव में दानम् क्रिया की सम्भावना होने से उत्प्रेक्षा
अलङ्कार है ।
बन्धुजनबहुमानम्—बन्धुजनस्य बहुमानम् । लक्ष्मण ने पहचान लिया कि यह
स्वर मेरे भाई भरत का है । अतः भरत के प्रति उनके : हृदय में बहुत अधिक आदर
का भाव हुआ कि वे वन में मिलने आये हैं ।
❖❖❖
रामः—सर्वथा नामयबान्धवस्य स्वरसंयोगः। क्लेदयतीव मे हृदयम् ।
वत्स लक्ष्मण ! दृश्यतां तावत् ।
लक्ष्मणः —यदाज्ञापयत्यार्यः । (परिक्रामति)
भरतः—अये, कथं न कश्चित् प्रतिवचनं प्रयच्छति ? किन्तु खलु
विज्ञातोऽस्मि, कैकेय्या पुत्रो भरतः प्राप्त इति ?
लक्ष्मणः—(विलोक्य) अये, अयमार्यो रामः । न न, रूपसादृश्यम्—
मुखमनुपमं त्वार्यस्यामुं शशाङ्कमनोहरं
मम पितृसमं पीने वक्षः सुरारिशरक्षतम् ।
द्युतिपरिवृतस्तेजोराशिर्जगत्प्रियदर्शनो
नरपतिरयं देवेन्द्रो वा स्वयं मधुसूदनः ॥८॥