सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 183, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 183

चतुर्थोऽङ्कः [ ११६
लोके भ्राजितानां शोभमानानां गुणानां बलवीर्यदाक्षिण्यादीनां भाजनं पात्रं भव ।
अस्मत्पूर्वजैः देवतानां साहाय्यार्थं धनुर्भिः दैत्या अपि पराजिताः । रघूणां विश्वजिति
यज्ञे दक्षिणासु ब्राह्मणेभ्यः सकल एव कोशः विश्रान्तः । त्वयापि तैः इव बलशालिना
वीर्यशालिना दाक्षिण्यशालिना च भूत्वा अयोध्यायाः शासनं करणीयम् ॥१०॥
व्याकरण—असुरैः समरे दक्षैः = असुरसगरदक्षैः । वज्रेण संघृष्टं चापं
येषां तैः = वज्रसंघृष्टचापैः । न विद्यते उपमा यस्य तत् = अनुपम । वीरस्य भावः =
वीर + = वीर्य । अनुपमं वीर्यं येषां तैः = अनुपमबलवीर्यैः । यज्ञेषु विश्रान्तः कोशः
येन सः = यज्ञविश्रान्तकोशः । यज् + नङ् = यज्ञ । वि + श्रम् + क्त = विश्रान्त ।
छन्दः—मालिनी ।
भरतः—अनुगृहीतोऽस्मि ।
लक्ष्मणः—कुमार ! इह तिष्ठ। त्वदागमनमार्याय निवेदयामि ।
भरतः—आर्य ! अचिरमिदानीमभिवादयितुमिच्छामि । शीघ्रं निवेद्य-
ताम् ।
लक्ष्मणः—बाढम् । (उपेत्य) जयत्वार्यः । आर्य !
अयं ते दयितो भ्राता भरतो भ्रातृवत्सलः ।
संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ॥११॥
[अन्वयः—यत्र ते रूपम् आदर्शः इव सङ्क्रान्तम्, अयं ते दयितः भ्रातृवत्सलः
भ्राता भरतः तिष्ठति ॥११॥]
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हो गया हूँ ।
लक्ष्मण—कुमार ! यहीं ठहरो । तुम्हारे आने की बात आर्य से निवेदन
करता हूँ ।
भरत—आर्य ! अब शीघ्र ही अभिवादन करना चाहता हूँ । शीघ्र निवेदन
कीजिये ।
लक्ष्मण—हां । (समीप जाकर) आर्य की जय हो । आर्य !
अर्थ [श्लोक ११]—जहां कि आपका रूप दर्पण के समान प्रतिबिम्बित हुआ
है, ऐसा यह आपका प्रिय तथा भाई को स्नेह करने वाला भाई भरत खड़ा है । भरत
का रूप बिलकुल आपके समान है, वह आपको प्रिय है तथा वह आपके प्रति स्नेहशील
है। वह आया है ॥११॥
संस्कृत-व्याख्या—यत्र यस्मिन् जने ते तव रूपम् आदर्शो दर्पणे इव संक्रान्तं
प्रतिबिम्बितं तादृशः अयं पुरो दृश्यमानः ते तव दयितः स्नेहपात्रं भ्रातृवत्सलः भ्रातरि