प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 181, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः [ ११७
(सुमन्त्रं दृष्ट्वा) अये तातः ?
सुमन्त्रः—अये, कुमारो लक्ष्मणः ?
भरतः—एवं गुरुरयम् । आर्य ! अभिवादये ।
लक्ष्मणः—एह्येहि । आयुष्मान् भव । (सुमन्त्रं वीक्ष्य) तात ! कोऽत्र
भवान् ?
सुमन्त्रः—कुमार ।
रघोश्चतुर्थोऽयमजात् तृतीयः
पितुः प्रकाशस्य तव द्वितीयः ।
यस्यानुजस्त्वं स्वकुलस्य केतो-
स्तस्यानुजोऽयं भरतः कुमारः ॥६॥
[अन्वयः-—अयं रघोः चतुर्थः अजात् तृतीयः, प्रकाशस्य तव पितुः द्वितीयः,
यस्य त्वम् अनुजः स्वकुलस्य केतोः तस्य अनुजः अयं कुमारः भरतः ॥६॥]
हिन्दी रूपान्तर--
(सुमन्त्र को देखकर) अये, तात हैं ?
सुमन्त्र—अये, कुमार लक्ष्मण हैं ?
भरत—ये बड़े भाई हैं। आर्य ! अभिवादन करता हूँ।
लक्ष्मण--आओ, आओ। आयुष्मान् होओ। (सुमन्त्र को देखकर) तात !
ये आप कौन हैं ?
सुमन्त्र--कुमार !
अर्थ [श्लोक ६]—वंशपरम्परा में ये रघु से चौथी पीढ़ी में हैं, अर्थात् प्रपौत्र
हैं, अज से दूसरी पीढ़ी में हैं, अर्थात् पौत्र हैं, लोक में विख्यात तुम्हारे पिता से दूसरी
पीढ़ी में हैं, अर्थात् पुत्र हैं। जिस राम के तुम छोटे भाई हो, अपने कुल के ध्वजा
रूप उस राम के छोटे भाई ये कुमार भरत हैं।
संस्कृत-व्याख्या--वंशपरम्परायामयं रघोः चतुर्थः चतुर्थत्वेन परिगणनीयः
प्रपौत्रः वर्तते इति भावः । अजात् तृतीयः तृतीयत्वेन परिगणनीयः, पौत्रः वर्तते इति
भावः । प्रकाशस्य लोके प्रसिद्धस्य तव पितुः जनकस्य द्वितीयः द्वितीयत्वेन परिगण-
नीयः, पुत्रः वर्तते इति भावः । यस्य रामस्य त्वम् अनुजः कनिष्ठभ्राता वर्तसे, स्वकुल-
स्य आत्मीयस्य वंशस्य केतोः ध्वजरूपस्य तस्य अनुजः कनिष्ठभ्राता अयं कुमारः
भरतः वर्तते । तव बान्धव एवायमिति भावः ॥६॥
व्याकरण—अनुजातः=अनु + जन् + ड=अनुज ।
छन्दः--उपजाति ।
अलङ्कार--परिकर और रूपक । भरत के लिये साभिप्राय विशेषणों का
कथन करने से परिकर अलङ्कार है । उपमेय राम पर उपमान केतु का आरोप करने
से रूपक अलङ्कार है ।