प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 189, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । १२५
संस्कृत-व्याख्या-कपाटपुटं कवाटयुगलं तदिव प्रमाणम् मानमाकारः
विस्तीर्णत्वं वा यस्य तादृशं वक्षः उरःस्थलं प्रसारय विस्तारय । तथाभूते च सति त्वयि
ते वक्षःस्थलस्य आलिङ्गनयोग्यता भविष्यति समधिकसुखस्यानुभूतिश्च भविष्यति ।
सुविपुलेन अतिविशालेन भुजद्वयेन बाहुयुगलेन मां रामम् आलिङ्ग आश्लेषबद्धं कुरु ।
शरदिन्दुकल्पं शरत्कालीनचन्द्रसदृशशम् इदम् आननं मुखम् उन्नामय उन्नतं कुरु,
तथाभूते सति च ते मुखे दर्शनाधिकानन्दानुभवो भविष्यति । व्यसनदग्धं व्यसनैः पितृ-
निधनमातृभ्रातृवियोगादिजन्यैः कष्टैरापद्भिश्चदग्धं ज्वलन्तम् इदमेतत् शरीरं वपुः
प्रह्लादय आनन्दोच्छ्वसितं कुरु । विपद्भिः कष्टैश्च मे शरीरे दग्धतुल्या पीडा वर्तते ।
तवालिङ्गनेन तवमुखदर्शनेन चेयं दाहपीडा शिशिरत्वमुपैष्यति ॥१६॥
व्याकरण—प्र + मा + ल्युट् (अन) = प्रमाण ।
छन्दः—वसन्ततिलका ।
अलंकार—उपमा । तृतीय चरण में आनन उपमेय, शरदिन्दु उपमान, कल्प
उपमावाचक और प्रह्लादय साधारण धर्म हैं ।
भरतः—अनुगृहीतोऽस्मि ।
सुमन्त्रः—(उपेत्य) जयत्या युष्मान् ।
रामः—हा तात,
गत्वा पूर्वं स्वसैन्यैरभिसरिसमये खं समानैर्विमानै-
र्विख्यातो यो विमर्दे स स इति बहुशः सासुराणां सुराणाम् ।
स श्रीमांस्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्तं
स्वर्गस्थः साम्प्रतं किं रमयति पितृभिः स्वैर्नरैन्द्रैर्नरेन्द्रः ॥१७॥
[अन्वयः—पूर्वं सासुराणां सुराणां विमर्दे अभिसरिसमये समानैः विमानैः
स्वसैन्यैः खं गत्वा, स स इति यः बहुशः विख्यातः, स श्रीमान् त्यक्तदेहः नरेन्द्रः
दयितं स्नेहवन्तं भवन्तं विना अपि, साम्प्रतं स्वैः पितृभिः नरेन्द्रैः स्वर्गस्थः किं
रमयति ? ॥१७॥]
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हो गया हूँ ।
सुमन्त्र—(समीप आकर) आयुष्मान् की जय हो ।
राम—हाय तात् !
अर्थ [श्लोक १७]—पहले समय में जबकि देवताओं और असुरों का युद्ध
हो रहा था, तब देवताओं की सहायता के लिये स्वर्ग जाते समय, देवताओं के ही
जैसे विमानों द्वारा अपनी सेनाओं के साथ आकाश में जाकर, वह दशरथ है, वह
दशरथ है, इस प्रकार जो बहुत अधिक प्रसिद्ध हुये थे, वे श्रीमान् शरीर को छोड़
देने वाले राजा दशरथ, प्रिय तथा स्नेह से भरे हुये आपको बिना भी, अब अपने