प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 188, कुल 296 में से
संदर्भ में पढ़ें१३४ ] प्रतिमानाटकम्
भरत—तात् ! अब क्या करेंगे ?
सुमन्त्र—
अर्थ [श्लोक १५]—राजा दशरथ के स्वर्ग चले जाने पर, जब कि राम
को इस समाचार का पता लग चुका है, उसके बाद राम को देखने का मेरा यह
पहला अवसर है। अतः मैं बाद में प्रवेश करूँगा ॥१५॥]
संस्कृत-व्याख्या—नराधिपे नराणामधिपे राजनि दशरथे स्वर्गं याते नाक-
मधिरूढे सति, विदितार्थस्य विदितः ज्ञातः अर्थः पितृनिधनरूपः रामाचारः येन तस्य
रामस्य मम एतत् इदं पूर्वदर्शनं प्रथम एव दर्शनावसरः । अतः अहं सुमन्त्रः पश्चात्
तव प्रवेशानन्तरमेव प्रवेक्ष्यामि अन्तः गमिष्यामि । राज्ञः दशरथस्य निधनानन्तरं,
यदा च रामेण स समाचारः विदितः, मम तस्य दर्शनस्य प्रथम एवावसरः । मां दृष्ट्वा
तस्य पितृनिधन जन्यशोकसागरः पुनरपि उद्रेकमवाप्स्यति, अथ च भ्रातृमिलनजन्य-
हर्षश्च मन्दतामेष्यति । अतः भ्रात्रा सह तव मिलनान्तरमेवं मे तत्र गमनं
श्रेयः ॥१५॥
व्याकरण—नराणामधिपे = नराधिपे । अधिपति = अधि + पा + क =
अधिप । विदितः अर्थः येन तस्य विदितार्थस्य ।
छन्दः—अनुष्टुप् ।
—❖❖—
भरतः—एवमस्तु । (राममुपगम्य) आर्य ! अभिवादये । भरतोऽहमस्मि ।
रामः—(सहर्षम्) एह्येहि इक्ष्वाकुकुमार ! स्वस्ति । आयुष्मान् भव ।
वक्षः प्रसारय कपाटपुटप्रमाण-
मालिङ्ग मां सुविपुलेन भुजद्वयेन ।
उन्नामयाननमिदं शरदिन्दुकल्पं
प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥१६॥
[अन्वयः—कपाटपुटप्रमाणं वक्षः प्रसारय । सुविपुलेन भुजद्वयेन माम् आलिङ्ग ।
शरदिन्दुकल्पम् इदम् आननम् उन्नामय । व्यसनदग्धम् इदं शरीरं प्रह्लादय ॥१६॥]
हिन्दी रूपान्तर—
भरत—ऐसा ही हो । (राम के समीप जाकर) आर्य ! अभिवादन करता
हूँ । मैं भरत हूँ ।
राम—(प्रसन्नता के साथ) इक्ष्वाकुकुमार ! आओ, आओ । तुम्हारा
कल्याण हो । आयुष्मान् होओ ।
अर्थ [श्लोक १६]—किवाड़ों के समान विशाल आकार वाले अपने वक्षःस्थल
को फैलाओ । अति विशाल अपनी दोनों भुजाओं से मेरा आलिङ्गन कर लो ।
शरत्कालीन चन्द्रमा के समान इस सुन्दर मुख को ऊपर उठाओ । शोकरूप आपत्ति
से जले हुए इस शरीर को प्रसन्न कर दो ॥१६॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA