सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

विचारः ] स्वार्थानुमानपरिच्छेदः ३४५
असत्त्वेऽभाववाशित्वप्रसङ्गोऽपि न युज्यते ॥ २७६ ॥
नाशन यस्माद् भावस्य न विनाशनमिष्यते ।
नश्यन् भावोऽपरापेक्ष¹ इति¹ तज्ज्ञापनाय सा ॥ २७७ ॥
अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा ।
स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः ॥ २७८ ॥
न तस्य किञ्चिद् भवति न भवत्येव केवलम् ।
वस्तु हि नित्यमनित्यं वा स्यात् । यत्तु न किञ्चित्, तत् कथमुच्यताम् !
अतश्चानित्यत्वादसत्त्वे नाशस्याभावनाशित्वस्य प्रसङ्गोऽपि न युज्यते;
यस्माद् भावस्य काष्ठादेर्नाशेन हेतुना नाशनं नेष्यते । यदि हि 'नाशेन
नाशः क्रियते' इतीष्यते, तदा नाशाभावे वस्तुनाशो न स्यात्; किन्तु स्वहेतुत
एव भावा एकक्षणस्थितिधर्माण उत्पन्ना द्वितीये क्षणे न भवन्ति, न तु नाम
कश्चिद् भवति, यस्य नित्यत्वानित्यत्वयोर्दोषावकाशः ।
कथं तर्हीदानीमहेतुको नाशो भवतीत्युच्यते ? इत्याह— नश्यन् भाव
एव क्षणस्थितिधर्मतया स्वहेतोरुत्पत्तेर्द्वितीये क्षणेऽभवन्नपरापेक्षः कारणान्तर-
निरपेक्ष इति तस्य कारणान्तरानपेक्षनाशित्वस्य ज्ञापनाय सा भावानामवस्थाऽ-
हेतुरुक्ता, 'अहेतुको विनाशो भवति' इत्यादिवचसैवास्या अवस्थाया धर्मिणः
सकाशात् भेदान्तरप्रतिक्षेपेण चेतसा विकल्पकेन भेदमारोप्य । न तु वस्तुतो
नाशो नाम कश्चित् भावाद् भिन्नस्वभावो भवति ।
स्वतोऽप्यभावस्य भावेऽन्यत्वानन्यत्वविकल्पः समश्चेत् । तथा हि—यदि
भावाद् भिन्नोऽप्यभावो ज्ञातो भावः किमिति न दृश्यते, अभेदे तु भाव एव नाश
इति कथं नष्टः ? ॥ २७८ ॥
अत्राह—न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किं
तर्हि ? स एव केवलं न भवति; व्यवहर्त्तव्यैकरूपत्वात् तस्य । तत्र च
भेदाभेदविकल्पानवतारः ।
१-१. भावः परापेक्षो न तस्य ज्ञाप०—रा० ।

३४६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥ २७९ ॥
न भावो भवतीत्युक्तमभावो भवतीति¹ न¹ ।
अपेक्ष्येत² परः कार्यं यदि विद्येत किञ्चन ॥ २८० ॥
यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ।
एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः ॥ २८१ ॥
सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ।
यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां तथा ॥ २८२ ॥
नाशः स्वभावो भावानां नानुत्पत्तिमत्तां यदि ।
हि यस्माद् भावे विकल्प एष भेदाभेदात्मकः स्यात् ; विधेर्वस्त्व-
नुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वाद् भेदाभेदविकल्पाक्षमः ।
यदि च प्रसज्यप्रतिषेधेऽपि वस्त्वन्तरविधिः, तदा पर्युदासान्न भिद्येत; उभयत्रापि
विधेः प्राधान्यात् । पर्युदासो वा न सिध्येत्; एकनिवृत्तावपरविधाने स स्यात्,
निवृत्तिसिद्धौ तु कथं युक्तः ! ॥ २७९ ॥
यदा च भावनिवृत्तिर्विनाशार्थः, तदा 'अभावो भवति' इत्यादिवाक्येन
भावो न भवतीत्युक्तम्; अभावस्य भावायोगात् । अतश्च हेतुरपि नाशस्य
न कश्चित्; यस्मात् परः कारणाभिमतोऽपेक्ष्येत यदि किञ्चन कार्यं विद्येत ।
अन्यथा यदकिञ्चित्करं वस्तु तत् केनचित् किमपेक्ष्यते ! ॥ २७९ ॥
एतेन नाशस्य निःस्वभावत्वकथनेनाहेतुकत्वेऽपि सत्यभूत्वा नाशस्य
भावतः ॥ २८१ ॥
सत्तानाशित्वदोषस्य प्रसञ्जनं घटादाविव प्रत्याख्यातम् । न
ह्यभावो नाम कश्चिद् भवति, यस्याभूत्वा भावात् सत्त्वं नाशित्वं वा स्यात् ॥
ननु यथा जन्मिनां बुद्ध्यादीनां मध्ये केषाञ्चिदेव घटादीनां प्रतिघः
स्वदेशे वस्त्वन्तरोत्पत्तिव्याघात इष्टः, न बुद्ध्यादीनाम्; तथा यदि सतामुत्पत्ति-
मतामेव नाशः स्वभावः स्यात्, नानुत्पत्तिमत्तां शब्दाकाशादीनाम्, तदा कथ-
मुक्तम्- "सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः” (प्र० वा० ३.२७०) इति ?
१-१. भवतीत्यपि—पाठा० । २. अपेक्षेत—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३४७
स्वभावनियमाद्धेतोः स्वभावनियमः फले ॥ २८३ ॥
नानित्ये रूपभेदोऽस्ति भेदकानामभावतः ।
प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता ॥ २८४ ॥
सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ।
भाट्टमतनिराकरणम्
नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम् ॥ २८५ ॥
दृष्टोऽन्यथापि वह्नयादिरदुष्टः पुरुषागसा ।
न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते ॥ २८६ ॥
नित्येभ्यो वस्तुसामर्थ्यात् न हि १ जन्मास्ति कस्यचित् ।
अत्राह—हेतोः स्वभावस्य विशिष्टकार्योत्पादनयोग्यतया नियमात् फले
कार्ये स्वभावस्य प्रतिघाप्रतिघादेर्नियमः । ततो नित्यत्वाभिमतानाञ्च हेतुमन्तरेण
स्वभावनियमायोगात् हेतुरेष्टव्यः । कृतके पुनरनित्ये वा भावे रूपस्य नश्वरान-
श्व

३४८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
विकल्पवासनोद्भूताः समारोपितगोचराः ॥ २८७ ॥
जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः ।
मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः ॥ २८८ ॥
सत्यार्थं व्यतिरेकस्य विरोधिव्यापनाद् यदि ।
हेतावसम्भवेऽनुक्ते¹ भावस्तस्यापि¹ शङ्क्यते ॥ २८९ ॥
विरुद्धानां पदार्थानामपि व्यापकदर्शनात् ।
नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात् ॥ २९० ॥
अन्यस्य वा जन्मास्ति; क्रमाक्रमयोर्व्यापकयोर्नित्यान्निवृत्तेः, तद्व्याप्यस्य
सामर्थ्यस्याभावात् ।
तस्मात् तत्रानित्यात्मन्युच्चरिते शब्देऽनाद्यन्तेन विकल्पेन चित्तसन्तता-
वारोपिताया वासनाया विकल्पिका बुद्धयो जायन्ते समारोपितगोचराः
कल्पितार्थविषयाः, नार्थगोचरा न स्वलक्षणविषयाः; तथार्थत्वे शब्दप्रमाणान्तर-
वैफल्यस्योक्तेः ।
ननु मिथ्यात्वमर्थशून्यत्वं कृतकेष्वेव वाक्येषु दृष्टमित्यकृतं वचः
सत्यार्थं यदि स्यात्, तदा को दोषः ? कस्मादेवमित्याह परः—अकृतकत्वस्य
साधनस्य विरोधिना कृतकत्वेन साध्यविपर्ययस्य मिथ्यात्वस्य व्यापनात् ?
अत्राह—विपक्षान्मिथ्यात्वादकृतकस्य हेतोरसम्भवेऽसम्भव निमित्ते हेतौ
बाधकप्रमाणेऽनुक्ते तस्याकृतकत्वस्यापि मिथ्यात्वे विपक्षे भावः शंक्यते;
बाधकप्रमाणदर्शनात् ॥ २८९ ॥
ननु मिथ्यात्वं कृतकेषु दृष्टं तदकृतकेषु विरोधिषु कथं स्याद् ? इत्याह—
विरुद्धानामपि हि व्याप्यानां पदार्थानामेकस्य व्यापकस्य दर्शनात् । यथा
प्रयत्नानन्तरीयकत्वयोरेकेन कृतकत्वेनानित्यत्वेन वा व्याप्तिः ।
किञ्च—सर्वतो विपक्षाद्धेतोरसत्ताया अनुपलब्भात् प्रतिबन्धमन्तरेण
न सिद्धिरित्युक्तं प्राक्—"न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता" ( प्र०
वा० ३. १३ ) इत्यादिना ॥ २९० ॥
१-१. हेतावसम्भवे भावस्तत्तस्यापि—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३४९
असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ।
अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि ॥ २९१ ॥
तन्निश्चयफलैर्ज्ञानैः सिद्ध्यन्ति यदि साधनम् ।
यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता ॥ २९२ ॥
स एवास्य सपक्षः स्यात् सर्वो हेतुरतोऽन्वयी¹ ।
समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम्² ॥ २९३ ॥
असिद्धायां वा असत्तायां विपक्षाद् व्यतिरेकिता सन्दिग्धा ।
कस्मात् पुनर्व्यतिरेकनिश्चयापेक्षा, न हि साधनतयोपात्तो धर्म इत्येव
साधनम्, किं तर्हि ? अन्वयः सपक्षे व्यतिरेको विपक्षात् साध्यधर्मिणि
सत्त्वं वा तन्निश्चयफलैरन्वयादिनिश्चयप्रयोजनैर्ज्ञानैः प्रमाणात्मभिर्यदि
सिध्यन्ति, तदा साधनं भवति, निश्चितत्रैरूप्यस्यैव हेतुत्वात् ।
यदपि व्यतिरेकी हेतुरित्युक्तम्, तच्चायुक्तमित्याह—यत्र धर्मिणि साध्य-
विपक्षस्य मिथ्यात्वस्य साधनाविपक्षव्यतिरेकाद् व्यतिरेकिता वर्ण्यते—
यत् कृतकं न भवति तन्मिथ्यार्थं च न भवतीति, स एव साध्यसाधनविपर्यय-
निवृत्तिदर्शनविषयो धर्मी सपक्षः स्यादस्याकृतकत्वस्य हेतोः; विपर्ययनिषेधेन
विधेरेव प्रतिपादनात् । यत्र च साध्यसाधनसत्त्वनिश्चयः, स एव पक्षः । अतः
सर्वो हेतुरन्वयी न केवलव्यतिरेकी ।
ननु पक्षस्य वेदस्य कथं सपक्षता; सपक्षलक्षणयोगात् ? एवं तर्हि सर्वः
पक्षः सपक्षः स्यात् । भवत्येव किमन्येनेति चेत् ? अन्यस्यापि लाक्षणिकं तत् कथं
त्यज्यताम् ।
किञ्च—किञ्चित्कार्यकारिणो मन्त्रा अपौरुषेयाश्चेति व्याहतम् । तथा
हि–कस्यचित् सत्यतपःप्रभावतः पुंसः समयत्वे संकेतत्वे मन्त्राणामभ्युपगम्य-
माने कार्यस्य मन्त्रप्रयोगनिष्पाद्यत्वेनेष्टस्य साधनं सिद्धिः स्यात् । केनचि-
च्छक्तिविशेषवता 'मत्प्रणीतं मन्त्रमेवम्प्रयुञ्जानस्यायमर्थः सेत्स्यति' इति समयस्य
कृतत्वात् सिद्धिः स्यात्, कविसमयादिवत् काव्यपाठकस्यार्थसिद्धिः ॥ २९३ ॥
१. हेतुरनन्वयी—रा० । एवं वृत्तावपि । २. कार्यदर्शनम्—रा० ।

३५० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः¹ ।
क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम् ॥ २९४ ॥
नित्यं तदर्थसिद्धिः स्यादासामर्थ्यमपेक्षणे ।
सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी ॥ २९५ ॥
प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ।
संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः ॥ २९६ ॥
प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ।
अथापि भावशक्तिः स्वभावशक्तिः सा ह्यपौरुषेयाणां स्यात्, यया-
भिमतसिद्धिः ? एवं तर्ह्यन्यथा प्रयुक्तेऽपि मन्त्रे स्यादभिमतम्; अविशेषतो
वर्णात्मकस्य मन्त्रस्य ।
वर्णानां क्रमविशेषो मन्त्रः ततस्तद्ग्रहणेन फलमिति चेत् ? क्रमस्य वर्णेभ्यो-
ऽर्थान्तरत्वञ्च पूर्वमेव निराकृतम्—"वर्णानुपूर्वी वाक्यञ्चेद्” ( प्र० वा० ३.
२६० ) इत्यत्रान्तरे ॥ २९४ ॥
अस्तु वा क्रमः, तस्य नित्यत्वात् तदर्थस्य तन्निष्पाद्यस्यार्थस्य नित्यं सिद्धिः
स्यात् । न ह्यविकले कारणे कार्यक्षेपो युक्तः । अथ प्रयोगविधानाद्यपेक्षास्ति ?
साप्ययुक्ता; अपेक्षणे कस्यचित् सहकारिणोऽसामर्थ्यं स्वभावतः स्यात्, समर्थ-
स्यान्यापेक्षाऽयोगात् । अपेक्षणीयात् समर्थस्वभावोत्पत्तौ तु स्यादपेक्षा ।
किञ्च -- मन्त्राणां भावशक्तिर्यदीदृशी कार्यविशेषसाधिका, तदा सर्वस्य
यजमानस्य इतरस्य च ते मन्त्रा अभिमतार्थसिद्धेः साधनं स्युः । न हि कार्य-
कारिता तेषां कञ्चिदेव प्रति, नेतरान्; साधारणत्वाद् भावस्वभावस्य ॥ २९५ ॥
अथ प्रयोक्तुर्विशेषमपेक्ष्य फलप्रदाः ? तच्चासत्; प्रयोक्तुर्भेदो यज-
मानत्वम्, तदपेक्षा च नित्यस्य परैरसंस्कार्यस्य न युज्यते ।
संस्कार्यस्यापि भावस्य वस्तुनः संस्कर्तुर्भेदो हि भेदको भवितु-
मर्हति, न तु ब्राह्मणशूद्रादीनां वस्तुतो जातिभेदः कश्चिदस्ति; व्यवहारमात्रत्वात्
तस्य । ततश्च प्रयोक्तुर्भेदादपि मन्त्राणां शक्तौ नियमो न सम्भवति ।
१. ०दन्यत्राप्य०—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३५१
अनाधेयविशेषाणां किं कुर्वाणः प्रयोजकः ॥ २९७ ॥
प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ।
व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्यते ॥ २९८ ॥
स्याच्छ्रोतुः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् ।
अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ॥ २९९ ॥
मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ।
पारम्पर्येण तज्जत्वात् तद्व्यक्तिः सापि चेन्मतिः ॥ ३०० ॥
ननूपलभ्यते नियता मन्त्राणां शक्तिः ? सत्यमुपलभ्यते; किन्तु सा पुरुषकृते
समयेऽभ्युपगम्यमाने भवेत्, न त्वकृतत्वे । यो हि ब्राह्मण इति प्रसिद्धः, तस्यै-
वायं विधिप्रयुक्तो मन्त्रः फलप्रदः, नेतरस्येति कर्त्रा पुरुषेण शक्तिविशेषवता
समितत्वान्मन्त्रस्य ।
किञ्च—नित्यानामनाधेयविशेषाणां प्रयोक्ता पुरुषः किं कुर्वाणः
प्रयोजक इष्टः, अनुपकारकस्य प्रयोजकत्वे सर्वस्य तथात्वप्रसङ्गात् ॥ २९७ ॥
यद्यभिव्यक्तिः प्रयोग उच्यते, साऽभिव्यक्तिर्नित्यानां प्रागेव सामान्य-
प्रस्तावे निराकृता । न हि स्वरूपपरिणाम आवरणविगमो वा सा नित्यानां
घटते । बुद्धिः कदाचित् सम्भाव्यते, तदा तद्व्यक्तिश्च बुद्धिरुच्येत । सा
यस्माद् वक्तुर्भवति फलेन युज्यते यदि, तदा नातिप्रसङ्गः ॥ २९८ ॥
नन्वेमपि श्रोतुः फलसम्बन्धः स्यात्, न वक्तुरेव । वक्ता हि व्यक्ते-
र्ज्ञानस्य कारणमिति फले युज्यते । तच्च ज्ञानहेतुत्वं श्रोतुरप्यस्त्येव ।
किञ्च—अनभिव्यक्तोऽनिवेदितः शब्दो यैस्तेषां करणादीनां प्रयो-
जनं प्रयोगो यदा, तदा ताल्वादिकरणप्रस्पन्दमात्रयोपांशुजपः क्रियते, न तु
व्यक्तमुच्यते ॥ २९९ ॥
यदा च तामपि विना मनोमात्रेण मनोजपो वा क्रियते, तदा द्वावपि
जपाविमौ व्यर्थौ स्याताम् । शब्दो हि श्रोत्रगोचर उच्यते, न च जपयो-
रनयोः श्रोत्रगोचरः कश्चिदस्ति ।
ननु याऽप्युपांशुमनोजपकाले शब्दाभासा धीः, सापि मतिः पारम्पर्येण

३५२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
तेऽपि¹ तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ।
स्वसामान्यस्वभावानामेकभावविवक्षया ॥ ३०१ ॥
उक्तैः समयकाराणामविरोधो न वस्तुनि ।
आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतौ ॥ ३०२ ॥
न कार्यभेद इति चेद् ? अस्ति सा पुरुषाश्रया ।
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ॥ ३०३ ॥
तज्जत्वात् तस्य व्यक्तिरिति चेत् ? ॥ ३०० ॥
यद्येवम्, शब्दविकल्पवदर्थविकल्पा अपि तत्प्रभवा इति तेऽपि तथा
शब्दव्यक्तयः स्युः । परः न केवलाच्छब्दप्रभवत्वात् तद्व्यक्तिः, किन्तु तदर्था
शब्दविषया सतीति चेत् ? न चार्थविकल्पः शब्दविषयः । शब्दविकल्पस्य शब्द-
विषयत्वमसिद्धम्; कल्पनाया वाच्यवाचकयोजनाया अन्वयात् सम्बन्धात् ।
न च कल्पना वस्तुविषयेति कथ्यते ।
अस्माकं तु मते स्वसामान्यस्वभावानां शब्दस्वलक्षणसामान्यलक्षणानां
प्रत्यक्षविकल्पबुद्धिविषयाणामेकत्वाध्यवसायवशादेकभावस्यैकत्वस्य विवक्षया
समयकाराणां समयकर्त्तृभिः शक्तिमत्पुम्भिर्मन्त्राणामुक्तेरविरोधः । उपांशुजप-
मनोजपयोर्वैफल्यविरोधाभावो दृश्यविकल्प्यावेकाध्यवसायादेककार्यकारित्वेनाधिष्ठि-
तत्वात् तत् कुरुतः । ये तु वस्तुभूतं मन्त्रमिच्छन्ति तेषां विरोध एव ? तदाह—
न वस्तुनि विरोधाभावः । न ह्युपांशुजपादिविषयो वस्तु; कल्पितत्वात् ।
अथ तन्मतेऽपि आनुपूर्व्यां वर्णव्यतिरिक्तायामसत्यां सरो रस इति
प्रसिद्धानुलोमविलोमक्रमायां श्रुतौ कार्यस्य स्वज्ञानस्य भेदो न स्यादिति चेत् ?
अस्त्यस्मन्मते सा आनुपूर्वी पुरुषाश्रया पुरुषकृता प्रतिपदं भिन्ना, ततो न
ज्ञानभेदप्रसङ्गः ।
तथा हि—यो ध्वनिर्जायते तद्वर्णसमुत्थो ज्ञानतः । यश्चासौ वर्णश्च
यद्वर्णस्तस्य समुत्थानं कारणं तच्च तत् ज्ञानं च यद्वर्णसमुत्थानज्ञानं तस्माज्जातं
यद्वर्णसमुत्थानज्ञानजं तस्मात् ज्ञानमतः । अयमर्थः—आद्यस्य वर्णस्य
१. अत्र 'अपि' ग्रहणं छन्दोभङ्गकरत्वेऽपि वृत्तिद्वयसम्मतमिति ध्येयम् ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३५३
जायते, तदुपाधिः स श्रुत्या समवसीयते ।
तज्ज्ञानजनितज्ञानः स श्रुतावपटुश्रुतिः ॥ ३०४ ॥
अपेक्ष्य तत्स्मृतिं पश्चात्¹ स्मृतिमाधत्त आत्मनि¹ ।
इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥ ३०५ ॥
कार्यकारणता वर्णेष्वानुपूर्वीति² कथ्यते ।
अन्यदेव ततो रूपं तद्वर्णानां पदे³ पदे³ ॥ ३०६ ॥
यत्समुत्थापकं विवक्षात्मकं ज्ञानं तेन समनन्तरप्रत्ययेन सता द्वितीयवर्णसमुत्थापकं
ज्ञानं जन्यते, तेन च द्वितीयो वर्णः, एवं द्वितीयवर्णसमुत्थापकात् ज्ञानात्
तृतीयवर्णोत्थापकज्ञानोत्पत्तौ तृतीयवर्णोत्पत्तिरिति कारणक्रमाद् वर्णोत्पत्तिक्रम
उक्तः । पुनः कार्यक्रमेण क्रमं दर्शयितुमाह—स उत्तरो वर्णस्तदुपाधिः पूर्ववर्ण-
विशेषणः, तदनन्तर इत्यर्थः, श्रुत्या श्रवणज्ञानेन ग्राह्यवर्णकार्येण श्रोतृसन्तानवर्तिना
समवसीयते । क्रमोत्पन्ना वर्णाः स्वस्वजनितज्ञानैरसहभाविन एव गृह्यन्ते ।
ननु क्रमभाविनां सहदर्शनाभावात् कथं पूर्ववर्णोपाधिग्रहणम् ? इत्याह—
तस्य पूर्ववर्णस्य ज्ञानेन ग्राहकेणोत्तरवर्णसहकारिणा जनितं ग्राहकं ज्ञानं
यस्मिन् स तज्ज्ञानजनित उत्तरो वर्णः मन्दमुच्चार्यमाणत्वात् श्रुतौ श्रवणज्ञाने-
ऽपटुश्रुतिर्मन्दचारिश्रवणज्ञानः । तस्य पूर्ववर्णस्य स्मृतिमपेक्ष्यात्मनि स्मृतिं
पूर्ववर्णानन्तरत्वेनाधत्ते । यस्मात् पूर्ववर्णानन्तरत्वेनोत्तरः स्मर्यते, तस्मात्
तदनन्तर एवासौ गृहीत इत्यर्थः ।
इति एवमुक्तेन क्रमेण वर्णेषु क्रमभाविषु तद्धेतुचेतसां वर्णोत्थापकचेतसां
वक्तृसन्तानवर्तिनाम्, तद्ग्राहिचेतसां वर्णग्राहकचेतसां श्रोतृसन्तानवर्तिनां
कार्यकारणतैषा यथायोगं वर्णापेक्षा क्रमवती कारणता कार्यता चानुपूर्वी
कथ्यते । सा च पुरुषनिर्वर्त्यत्वात् पौरुषेय्येव ।
यतो न नित्यत्वम्, ततोऽन्यदेव वर्णानां तद्रूपं पदे पदे प्रतिपदमेकाध्य-
१-१. पश्चादाधत्ते स्मृतिमात्मनि—इत्येवमपि पाठः ।
२. वर्णे ह्यानुपूर्वीति—रा० ।
३-३. पदं पदम्—पाठा० ।
प्र० वा० : २३

३५४ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् ।
सा चानुपूर्वी वर्णानां प्रवृत्ता१ रचनाकृतः१ ॥ ३०७ ॥
इच्छाऽविरुद्धसिद्धीनां स्थितिक्रमविरोधतः ।
कार्यकारणतासिद्धेः पुम्भ्यो२ वर्णक्रमस्य च ॥ ३०८ ॥
सर्वो वर्णक्रमः पुम्भ्यो दहनेन्धनयुक्तिवत् ।
असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम्३ ॥ ३०९ ॥
पुंसां३ ज्ञानप्रभावाभ्यामन्येषां तदभावतः ।
येऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुर्वते ॥ ३१० ॥
प्रभोः४ प्रभावस्तेषां४ स तदुक्तन्यायवृत्तितः ।
वसायविषयत्वेऽपि कर्तृसंस्कारतो वर्णसमुत्थापकचित्तशक्तिभेदाज्जातं भिन्नम् ,
क्रमेण चानुभूय स्मृत्या सहितं स्मृतं सत् कार्यभेदकृदर्थप्रतिपत्तिविशेषकारि ।
सा च वर्णानामानुपूर्वी तद्धेतुग्राहिचेतसां रचनाकृतः पुरुषात् प्रवृत्तेति
न स्थितक्रमा वर्णाः पुरुषेच्छयाऽविरुद्धसिद्धीनां वर्णानां स्थितस्य क्रमस्य
विरोधात् । न हि स्थितक्रमाणां हिमवद्विन्ध्यमलयानामिच्छया विपरीतक्रमः
शक्यः । वर्णास्त्विच्छया विपर्यासन्ते; विकल्पक्रमानुविधायित्वाच्च ॥ ३०७ ॥
तद्वत् कल्पितोऽप्यर्थो न प्रमाणम्; कार्यकारणतायाः सिद्धेः । सर्वो
वैदिकोऽन्यश्च वर्णक्रमः पुम्भ्यो भवतीत्यवधारणम् । दहनेन्धनयुक्तिवत् ।
यथैकस्य दहनस्य इन्धनपूर्वकत्वदृष्ट्या सर्वोऽग्निरिन्धनपूर्व इति न्यायः ।
अत एव च मन्त्राख्यवर्णक्रमकारिणां पुंसां ज्ञानप्रभावाभ्यां पुरुषान्तरैः
सहासाधारणताऽसमानता सिद्धा; अन्येषां तयोर्ज्ञानप्रभावयोरभावतः ।
ननु तन्त्रज्ञा रथ्यापुरुषा अपि मन्त्रं किञ्चित् कार्यसमर्थं प्रणयन्तो दृश्यन्ते,
ततो मन्त्रकरणान्नातिशयसिद्धिः ? इत्याह—येऽपि केचित् साधारणा मन्त्रविदो
मन्त्रशास्त्रज्ञाः कांश्चन मन्त्रान् विषादिशमनान् कुर्वते, तेषां प्रभोर्मन्त्रप्रणेतु-
रतिशयितशक्तेः स प्रभावः सामर्थ्यं तदुक्तस्य न्यायस्य समयानुष्ठानादे-
१-१. तद्धेतुग्राहिचेतसाम्—रा० । २. पुंसां—पाठा० ।
३-३. पुंसां च क्रमकारिणाम् । अतो—रा० । ४-४. प्रभुप्रभाव०—पाठा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३५५
कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना ॥ ३११ ॥
अशक्तिसाधनं पुंसामनेनैव निराकृतम् ।
बुद्धीन्द्रियोक्तिपुंस्तत्वादिसाधनं यत्तु वर्ण्यते ॥ ३१२ ॥
प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः ।
अर्थोऽयं १ नायमर्थो न १ इति शब्दा वदन्ति न ॥ ३१३ ॥
कल्प्योऽयमर्थः पुरुषैस्ते च रागादिसंयुताः ।
तत्रैकस्तत्त्वविन्नान्य २ इति भेदश्च किंकृतः ॥ ३१४ ॥
वृत्तितः । आराधितस्य प्रभोः प्रभावादीदृक् शक्तिलाभ इत्यर्थः ।
तस्मात् कृतकाः पौरुषेयाश्च मन्त्राः वाच्याः फलेप्सुना सर्वेण,
येन पुरुषाः शक्तिविशेषवन्तो मन्त्रान् प्रणेतुमीशते । अनेनैव मन्त्रादिप्रणयनं
प्रति पुंसामशक्तिसाधनं यत् किमपि मीमांसकैरिष्टं तन्निराकृतं बोद्धव्यम् ।
एतदेव स्फुटयितुमाह—बुद्धीन्द्रियोक्तिपुंस्तत्वादिसाधनं शक्तिविशेष-
निराकरणं यत्तु वर्ण्यते तत् प्रमाणाभमनैकान्तिकम् । न हि बुद्धिमत् एकस्य
शक्तिविशेषो न दृष्ट इत्यन्यस्यापि तथा । अभ्यासाधीनो हि प्रकर्षो गुणेषु तद-
भिलाषादभ्यासोऽपि सम्भवी । दृश्यते च प्रज्ञादिगुणानामतिशयितः प्रकर्ष इति
बुद्धिमत्त्वाद्यसाधनम् । न हि शेषवतो लिङ्गात् यथार्थानुमेयस्य गतिर्भ-
वितुमर्हति ।
अपि च—पुरुषातिशयमनिच्छतां जैमिनीयानां महत् दुःश्लिष्टम् । तथा
हि—'अयमर्थोऽस्य शब्दस्य' 'अयं न नः'—इति न तावच्छब्दाः स्वयं
वदन्ति ॥ ३१३ ॥
तस्मात् पुरुषैरयमर्थः कल्प्यः । ते च रागादियुक्ता नावधारणपटवः ।
अथ रागिष्वपि कश्चिज्जैमिन्यादिर्जानात्येव । तत्रैकस्तत्त्वविद्, अन्यो
नेति भेदश्च किंकृत एषः । रागित्वाविशेषात् सर्व एवाज्ञः प्राप्तः, न वा
कश्चित् ॥ ३१४ ॥
अथ पुरुषत्वसाम्येऽपि जैमिन्यादिरतीन्द्रियार्थदर्शित्वाद् वैदिकशब्दानाम्-
१-१. अयमर्थो नायमर्थ—पाठा० । २. स एकस्तत्त्व०—रा० ।

३५६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
तद्वत् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथं न वः ।
यस्य१ प्रमाणविसंवादि१ वचनं सोऽर्थविद् यदि ॥ ३१५ ॥
न ह्यात्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ।
यस्य प्रमाणसंवादि वचनं तत्कृतं वचः ॥ ३१६ ॥
स आगम इति प्राप्तं निरर्थाऽपौरुषेयता ।
यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भवः ॥ ३१७ ॥
अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ।
स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः ॥ ३१८ ॥
न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ।
तीन्द्रियार्थसम्बन्धवेत्ता कल्प्यते, तदा पुंस्त्वे सत्यपि कश्चिदन्योऽपि ज्ञानी
ज्ञानातिशयवान् कथमप्यभ्यासादिना तद्वज्जैमिन्यादिवत् कथं वो मीमां-
सकानां नाभिमतः ।
स्यादेतत् । न वयं पुरुषप्रामाण्याद् व्याख्यानमनुमन्यामहे, किन्तु यस्य
प्रमाणमविसंवादि वचनं सोऽर्थविद् वेदार्थज्ञाता यदीष्यते ? नन्वत्यन्त-
परोक्षेषु वेदार्थेषु प्रमाणस्य सम्भवो न हि कस्यचिदस्ति, तत् कथं संवादा-
दर्थविद् व्यवस्थाप्यते !
अपि च—यस्य प्रमाणसंवादि वचनम्, स यदि व्याख्याता, तदा
'संवाद आगमलक्षणम्' इति, तेन संस्कृतं वच आगम इति प्राप्तमिति
निरर्थाऽपौरुषेयता वेदानां कल्पिता ।
तथा ॰यद्यत्यन्तपरोक्षेऽर्थे स्वर्गसम्बन्धादौ जैमिन्यादेरनागमस्या-
गमनिरपेक्षस्य ज्ञानस्य सम्भवः, तदाऽतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभि-
मतं भवेत् । ततस्तत्प्रतिषेपो न युक्तः ।
यदि तु न कश्चिदतीन्द्रियार्थदर्शी, तदा स्वयं रागादिमान् पुमान्
वेदस्यार्थं न वेत्ति, न चान्यतः; अन्यस्यापि रागादिमत्त्वेऽज्ञानत्वात् ॥३१८॥
वेदोऽपि स्वार्थं न वेद्यति, ततश्च कुतो वेदार्थस्य गतिः ! न
१-१. प्रमाणमविसंवादि—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३५७
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ॥ ३१९ ॥
खादेत् श्वमांसमित्येव नार्थ इत्यत्र का प्रमा ।
प्रसिद्धो लोकवादश्चेत् तत्र कोऽतीन्द्रियार्थदृक् ॥ ३२० ॥
अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचितः ।
स्वर्गोर्वश्यादिशब्दश्च दृष्टोऽरूढार्थवाचकः ॥ ३२१ ॥
शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ।
प्रसिद्धिश्च¹ नृणां वादः प्रमाणं स च नेष्यते ॥ ३२२ ॥
कुतश्चिदिति पुरुषा एव यथाप्रतिभं कल्पयेयुः ।
तेन 'अग्निहोत्रं जुहुयात् स्वर्गकामः' (मैत्री० ६.३६) इति श्रुतौ
वेदवाक्ये 'श्वमांसं खादेत्' इत्येष नार्थ इत्यत्र का प्रमा; इत्यपि कल्पयितुं
शक्यत्वात् ।
अग्निर्दाहादिसमर्थः, तस्मिन् घृतादिप्रक्षेपश्च हवनमिति प्रसिद्धो लोक-
वादः, ततो नान्यार्थकल्पनेति चेत् ? तत्र लोके रागादिमति कोऽतीन्द्रियार्थ-
दृगस्ति, येनानेकार्थेष्वनेकार्थाभिधानयोग्येषु शब्देष्वयमभिमतोऽर्थो विवेचितो
वाच्यतया विशेषणव्यवस्थापितः । यदि दाहकद्रव्ये घृतप्रक्षेपस्य स्वर्गेण
सम्बन्धः, श्वमांसभक्षणेन च नास्तीति केनापि दृष्टं स्यात्, स्यादयमर्थविवेकः;
तद्दर्शी तु रागादिमत्त्वात् कश्चिन्नेष्ट इति नास्ति विपरीतकल्पनानिरासः ।
न च लोकप्रसिद्धानुसाराद् वेदार्थव्यवस्था । तथा हि—स्वर्गोर्वश्यादि-
शब्दश्चारूढार्थवाचको दृष्टः । मनुष्यातिशायिपुरुषविशेषनिकेतोऽतिमानुष-
सुखाधिष्ठानो नानोपकरणः स्वर्गः, तत्स्थाऽप्सरा उर्वशीति प्रसिद्धो लोकवादः;
तमुल्लंघ्य—दुःखेनासम्भिन्ना निरतिशया प्रीतिः स्वर्गः, उर्वशी चारणिः पात्री
वा—इत्यप्रसिद्धार्थकल्पनेति । शब्दान्तरेष्वग्निहोत्रादिषु तादृक्षु सर्वार्थयोग्येषु
तादृश्येवाप्रसिद्धार्थैव कल्पनास्तु; न्यायस्य तुल्यत्वात् ।
किञ्च—प्रसिद्धिश्च नृणां वाद एव, न त्वन्यथा काचित् । स च
पुरुषप्रवर्त्तितत्वात् प्रमाणं नेष्यते भवता ॥ ३२२ ॥
१. प्रसिद्धश्च—रा० ।

३५८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
ततश्च भूयोऽर्थगतिः किमेतद् द्विष्ठकामितम् ।
अथ प्रसिद्धिमूल्लंघ्य कल्पने न निबन्धनम् ॥ ३२३ ॥
प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् ।
उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥ ३२४ ॥
यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ।
अन्यथासम्भवाभावात् नानाशक्तेः स्वयं ध्वनेः ॥ ३२५ ॥
अवश्यं शंकया भाव्यं नियामकमपश्यताम् ।
एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥ ३२६ ॥
अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ।
भूयः पुनस्ततो जनवादादर्थस्य गतिरिति किमेतत् द्विष्ठकामितम् !
लोकवादोऽप्रमाणत्वात् द्विष्ठः सम्प्रति काम्यते इति व्यक्तो विरोधः । अथ लोकस्य
प्रसिद्धिमूल्लंघ्य श्वमांसभक्षणाद्यर्थकल्पने न निबन्धनमस्ति ॥ ३२३ ॥
ननु प्रसिद्धेरप्रमाणत्वात् तस्या ग्रहे किं निबन्धनं विचारकस्य, न
किञ्चित् !
किञ्च—प्रसिद्ध्यैव शब्दार्थनिश्चये विपरीतार्थकल्पनायाः शङ्कोत्पा-
दिता; यस्मान्नानार्थवृत्तित्वं शब्दानां गवाक्षप्रभृतीनां तत्र प्रसिद्धौ
दृश्यते ।
तथा—नानाशक्तेरनेकार्थप्रतिपादनयोग्यस्य ध्वनेः स्वयमात्मनाऽन्यथा-
सम्भवस्य एकार्थप्रतिपादनयोग्यतासम्भवस्यासम्भवात् ॥ ३२५ ॥
अवश्यमर्थान्तरशङ्कया भाव्यम् । कथम् ? इत्याह—नियामकम-
पश्यतामनेकार्थस्य शब्दस्य एकवृत्तिनियमकारणमपश्यतां पुंसाम् ।
किञ्च—स्वयमर्थप्रतिपादनशून्यो नेतानभिमतार्थद्योतकत्वेन प्रतिपादयन् कर्तुर्न
भिद्यते; तस्याप्येवं व्यापारत्वात् । यथा केनचित् कश्चन पन्थानं पृष्ट आह—
नाहं जाने, किन्तु स्थाणुरेष वक्ति 'अयं मार्गः' इति, अन्यः पुनः
प्रत्याह—अहं स्वयं ब्रवीमि 'अयं मार्गः' इति; तयोरेवं वादिनोः प्रतिपाद-
कत्वस्य भेदः परीक्ष्यताम् । एको निरभिप्रायवचनं वक्तृत्वेन व्यपदिशति,

विचारः ] स्वार्थानुमानपरिच्छेदः ३५९
सर्वत्र योग्यस्यैकार्थद्योतने नियमः कृतः ॥ ३२७ ॥
ज्ञाता वातीन्द्रियाः केन विवक्षावचनाद् ऋते ।
विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः ॥ ३२८ ॥
अपौरुषेये सा नास्ति तस्य सैकार्थता कुतः !
स्वभावनियमेऽन्यत्र न योज्येत तया पुनः ॥ ३२९ ॥
संकेतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः !
अन्यस्तु न—इति वचनवैदग्ध्यमेवानयोर्भिद्यते, नोपदेशप्रवृत्तिनिवृत्ती । तथा
स्वयमर्थं प्रतिपादयतोऽपि वेदार्थविशेषाभिधायिनोऽभिदधत् कर्तैव वाचकतायाः ।
अथ तदर्थप्रतिपादने योग्या एव शब्दाः ? नन्वेवं सर्वत्रार्थे योग्यस्य
शब्दस्य एकार्थद्योतने नियमः कुतो जातः, पुरुषश्चेन्नियामको न भवति !
॥ ३२७ ॥
स्यादेतत् । प्रतिनियता एवार्थास्तेषाम्, न ते पुरुषेण नियम्यन्ते ? एवमपि
ज्ञाता वा अतीन्द्रियाः प्रतिनियता अर्थाः केन पुरुषेण रागादिमता विवक्षायाः
प्रकाशकात् वचनात् प्रतिपादनादृते । न हि वेदेषु कस्यचिद् विवक्षास्ति ।
तदवगतिमन्तरेण च प्रतिनियतार्थता न शक्या बोद्धुम् । न हि शब्दाः स्वयं
स्वार्थनियमं कथयन्ति संकेतमन्तरेण, स च पौरुषेयः । न चार्थनियमावगमं
विना संकेतकरणम्, अर्थनियमप्रतीतिश्च विना संकेतं नास्तीति व्यक्तमितरे-
तराश्रयत्वम् ।
अपि च—विवक्षार्थस्य नियमे हेतुः संकेतः तत्प्रकाशनोऽर्थनियम-
बोधनः । अपौरुषेये च वेदे सा विवक्षा नास्ति; पुरुषप्रयोज्यत्वात् तस्याः ।
ततस्तत्प्रसाध्या सा एकार्थता वेदस्य कुतः !
अथ स्वभावतः शब्दाः क्वचिदर्थे नियताः, तदा स्वभावनियमेऽन्यत्रा-
र्थे वाचकत्वेन तया विवक्षया न योज्येत पुनः । न हि स्वभावेन प्रतिनियत-
विषयोऽन्यथा कर्तुं शक्यते । संकेतश्च निरर्थः स्यात् स्वभावप्रतिनियमे
सति न हि चक्षुरिन्द्रियं रूपग्रहणप्रतिनियतं तत्र सङ्केतमपेक्षते । सङ्केताद्
वाचकताया व्यक्ताविष्यमाणायां नियमः कुतः ! 'अयमेवास्य शब्दस्यार्थः'

३६० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः ॥ ३३० ॥
द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् ।
जैमिनीयमतनिरासः
यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः ॥ ३३१ ॥
वाक्यं वैदैकदेशत्वादन्यदप्यपरोऽब्रवीत् ।
रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥ ३३२ ॥
शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ।
नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥ ३३३ ॥
इति नियमो न युज्यते पुरुषाधीनसंकेतापेक्षायाम् ।
तथा हि—यत्र पुरुषस्य स्वातन्त्र्यमिच्छायाः, तत्र नियमो नाम
कः सङ्गतः । तेनेच्छाधीनत्वेन संकेतो नेष्टामेव योग्यतामुद्द्योतयेत् । अन-
भिमतापि व्यञ्जयेदित्यर्थः । तदेवम्—अपौरुषेयत्वमागमलक्षणं ब्रुवाणा मीमां-
सकाः प्रतिक्षिप्ताः ।
सम्प्रति वृद्धमीमांसकानां मतं दूषयितुमुत्थापयति—यथा वैदिकं वाक्यम्
“अग्निर्हिमस्य भेषजम्” इति सत्यम्, शीतनोदनत्वेन वह्नेः प्रमाणसिद्धत्वात्;
तथान्यदपि वाक्यम्—“अग्निष्टोमेन जुहुयात् स्वर्गकामः” इत्यादि वैदैकदेश-
त्वात् सत्यमित्यपरो मीमांसकोऽब्रवीदुक्तवान् । किल शब्दोऽक्षमायाम् ।
ईदृशमनुमानं शेषवदनैकान्तिकं व्यभिचारित्वान्न्यायविदा आचार्य-
दिग्नागेन प्रतिक्षिप्तम्; रसवत् तुल्यरूपत्वात् स्वादितफलेन तुल्यरूपत्वात्
फलान्तरस्य तादृग्रसानुमानवत् । एकभाण्डान्तर्गतत्वात् दृष्टपाकतण्डुला-
नुमानवत् । न ह्येतादृशस्य हेतोः साध्यप्रतिबन्धोऽस्ति विपर्ययबाधकप्रमाणादिति
विपञ्चितं प्राक् ( प्र० वा० ३.१४) ।
दृश्यते च बहुतरविषये विसंवादो वेदस्य, कथमेकसत्यतया सर्वत्र तथा-
त्वम् । तथा च—परैरनाधेयविशेषस्य पुंस आत्मनः क्रमजन्मसु कर्मादिषु कर्तृत्वं
वदच्छास्त्रम्, तथा नित्यान् भावान् दिक्कालाकाशादीनर्थक्रियारहितान् सतो

विचारः ] स्वार्थानुमानपरिच्छेदः ३६१
ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम् ।
निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् ॥ ३३४ ॥
विरुद्धमागमापेक्षेणानुमानेन वा वदत् ।
विरोधमसमाधाय शास्त्रार्थं चाप्रदर्श्य सः ॥ ३३५ ॥
सत्यार्थं प्रतिजानानो जयेद् धाष्टर्येन बन्धकीम् ।
सिद्ध्येत् प्रमाणं यद्येवम्, अप्रमाणमथेह किम् ॥ ३३६ ॥
न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ।
नायं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः ॥ ३३७ ॥
वदत्, वस्तुतोऽतीन्द्रियान् गुणकर्मसामान्यादीन् ऐन्द्रियान् प्रत्यक्षाद् वदत्,
तथा भावानां विषमं हेतुं प्राग्जनकं वदत्, तथा विषमां स्थितिं निष्प-
न्नानां भावानामाश्रयवशेन स्थितिं वदत्, निवृत्तिञ्च विषमां स्वतोऽनश्वर-
स्वभावानामन्यकृतां निवृत्तिं वदत्, अन्यद्वा वस्तु व्यस्तगोचरं प्रमाणाभ्यां
प्रत्यक्षानुमानाभ्यां निरस्तावकाशं वदत्, आगमापेक्षेणागमसिद्धलिङ्गत्रैरूप्येणा-
नुमानेन च विरुद्धमग्निहोत्रस्नानादेः पापशमनं वदत् । न हि रागादिप्रभवो
धर्मस्तदपनयनमन्तरेण स्नानादेर्निवृत्तिमर्हति । एवं विधविसंवादभाजमर्थं वदत्
शास्त्रं विरोधं प्रामाणिकमसमाधाय अपरिहृत्य प्रवृत्तिकामोचितं शास्त्रार्थमनु-
गुणोपायं पुरुषार्थलक्षणञ्चाप्रदर्श्य स जरन्मीमांसक एकदेशसंवाददर्शनात्
सत्यार्थं प्रतिजानानो धाष्टर्येन बन्धकीं साक्षाद् दृष्टव्यलीकां स्वपतिं
स्वशीलप्रामाण्योद्भावनेन भ्रान्तमावेदयन्तीं जयेत् ।
किञ्च—यद्येवम्, दृष्टैकदेशसंवादस्यावयवत्वादन्यदपि प्रमाणं सिद्ध्येत्,
अथेह न्याये किमप्रमाणं शास्त्रं भविष्यति ! ॥ ३३६ ॥
न हि बहुभाषिणि पुरुषे सत्यार्थमेकं वचो नास्ति, किन्त्वस्त्येव ।
तेनैव दृष्टान्तेन तद्वचनं प्रमाणं स्यात् ।
नायं ध्वनिर्वस्तूनां स्वभावः, कार्यं वा; यस्माद् वक्तरि ध्वनिर्भवति ।
न हि वस्तुनः स्वभावोऽन्यत्र धर्मिणि वर्त्तते, कार्यं वाऽन्यतो भवितुमर्हति
॥ ३३७ ॥

३६२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता ।
प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥ ३३८ ॥
परस्परविरुद्धार्था कथमेकत्र सा भवेत् ।
वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीपकाः ॥ ३३९ ॥
प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ! ।
तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ॥ ३४० ॥
तेनासन्निञ्चयफलाऽनुपलब्धिर्न सिध्यति ।
न च तद्व्यतिरिक्तस्य कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत
इति निवेदितम् ।
स्यादेतद् । वाचकानां शब्दानां प्रवृत्तिर्वाच्यदृष्टिकृता अभिधेयदर्शना-
गता, ततः परम्परया तत्कार्यतैवैयामिति चेत् ? एवं तर्हि सा शब्दप्रवृत्तिरेकत्र
वस्तुनि परस्परविरुद्धार्था कथं भवेत् !
यदि यथा वस्त्वेव शब्दः, तदा वस्तुत एकरूपेण शब्दे 'नित्यः किमयम-
नित्यो वा' इत्यादि शब्दसन्दर्भों न भवेत् । तेन प्रतिबन्धाभावेन वस्तुभिः सह
नान्तरीयका आगमा प्रतिपत्तुर्थं शब्दात् प्रतिपद्यमानस्य कथञ्चिन्न
सिध्यन्ति, तत् कुतस्तेभ्य आगमार्थनिश्चयः ! ॥ ३३८ ॥
यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिरतस्तस्मात् तस्यागमस्य निवृत्त्यापि
भावस्याभावो न सिध्यति । तेन प्रमाणत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्था-
नामसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तम्—“सदसन्निश्चयफला
नेति स्याद् वाऽप्रमाणता” ( प्र० वा० ३. २०० ) इति । सव्यवहारप्रतिषेधे
तु प्रमाणमेव । दृश्यानुपलब्धिस्तु सव्यवहारप्रतिषेधेऽसद्व्यवहारसाधने चाधिकृते
व्यवस्थितेत्यवस्थितम् ॥ ३४० ॥
इत्याचार्यमनोरथनन्दिकृतायां
प्रमाणवार्त्तिकवृत्तौ तृतीयः
स्वार्थानुमानपरिच्छेदः

परार्थानुमाननामा
चतुर्थः परिच्छेदः
आचार्यदिङ्नागसम्मते
परार्थानुमानलक्षणे
स्वदृष्टग्रहणफलम्
परस्य प्रतिपाद्यत्वात् अदृष्टोऽपि स्वयं परैः ।
दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ १ ॥
अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
स्वार्थानुमानं व्याख्याय परार्थानुमानं व्याख्यातुमाह । तत्र “परार्थानुमानं
स्वदृष्टार्थप्रकाशनम्” इत्याचार्यीयलक्षणम् । स्वेन दृष्टः स्वदृष्टः, स्वदृष्टश्चासावर्थ-
श्चेति त्रिरूपो हेतुः । तस्य प्रकाशनं वचनं अनुमानहेतुत्वादित्यर्थः ।
ननु 'त्रिरूपलिङ्गाख्यानम्' इत्येवास्तु, किं स्वदृष्टग्रहणेन ? इति शङ्कायां
परमतनिरासार्थतामस्य दर्शयितुमाह— परस्य परार्थानुमानेन प्रतिपाद्यत्वात्
साधनवादिना स्वयमदृष्टोऽपि प्रमाणेन परैः प्रतिवादिभिरागमाद् दृष्ट-
साधनं लिङ्गमित्येके सांख्याः । ते हि सुखादीनामुत्पत्तिमत्त्वादनित्यादचेतनत्वं
रूपादीनामिव बौद्धं प्रत्याहुः । न ह्यसत उत्पत्तिमत्त्वं सतश्च निरन्वयविनाशो-
ऽनित्यत्वं हेतुः सांख्यसिद्धः । बौद्धस्य पुनरागमात् सिद्धः । तावतैव हेतुरिति
मन्यते । तस्य परमतस्य क्षेपाय प्रतिषेधायात्मदृग्वचः अदृष्टवचनं सूत्रे
न प्रतिवादिमात्रसिद्धस्य हेतुत्वम्; किन्तूभयसिद्धस्यैवेत्यर्थः ॥ १ ॥
न चागमात् प्रतिवादिनोऽपि साधनसिद्धिर्युक्तेति वक्तुमाह—अनुमानस्य
वस्तुबलप्रवृत्तस्य विषये यस्मादनुमानज्ञानमुत्पद्यते । स च त्रिरूपो हेतुः । तत्र
प्रतिपाद्ये वाच आगमात्मिकायाः प्रामाण्यं नेष्टमर्थप्रतिबन्धाभावादित्युक्तम् ।
किञ्च—प्रमाणान्तरसंवादात् परीक्षितस्य प्रमाणोपपन्नस्यागमार्थस्य परि-
ग्रहात् स्वीकारान्नेष्टं वचनप्रामाण्यम्। यदि वचनमित्येव प्रमाणम्, तदा प्रतिज्ञा-

वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्त्तते ॥ २ ॥
बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोऽप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलं ततः ॥ ३ ॥
तदागमवतः सिद्धं यदि कस्य क आगमः ।
बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ॥ ४ ॥
तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ! ।

पदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टान्तादिवचनं स्यात् । प्रमाणान्तरसंवादापेक्षा
च न भवेत् । संवादज्ञानस्यैवार्थभावाभावानुविधायित्वात् तस्मिन्नागमार्थे प्रामाण्यम् ।
वचनस्य तु विपर्ययात् । यदि त्वागम इत्येव प्रमाणम्, तदा प्रमाणान्तरसंवादा-
पेक्षा न स्यात् । हि यस्मात् अस्मिन्नागमार्थे प्रमाणप्रतिपादितत्वान्निश्चिते-
ऽनुमानं न प्रवर्त्तते । यदि ह्यागमार्थः सन्दिह्येत, तदा तन्निश्चयार्था प्रमाणा-
न्तरवृत्तिरपेक्ष्येत ॥ २ ॥
यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्ति-
मत्त्वादेः सांख्येन परं बौद्धं प्रत्युक्तिः, ततः कारणात् स आगमोऽप्रमाणम्;
तदा न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात्
पारम्पर्याभ्यां सिद्धमुत्पत्तिमत्त्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धम् ॥ ३ ॥
स च सुखाद्युत्पत्तिमत्त्वप्रतिपादक आगमश्च तदागमः तद्वतस्तत्सम्बन्धिनो
बौद्धस्य सिद्धमुत्पत्तिमत्त्वादिलिङ्गमिति चेत् ? कस्य पुरुषस्य क आगमः
सम्बन्धी । न तावद्वयववत् आगमोऽपि पुरुषस्य सहजसम्बन्धेन सम्बद्धः । नापि
युक्त्युपपन्नतयोपाधिना प्रत्यक्षानुमानवत् सम्बन्धः । तथा हि—प्रमाणनोत्पत्तिमत्त्वा-
दिलिङ्गेनानुमानेनागमप्रतिपादितस्य सुखादिचैतन्यस्य बाधनात् बाध्यमान
आगमः हेतुः । स कथमागमसिद्धः, येन युक्तिसंवादोपाधिनापि पुरुषेण
सम्बन्धमनुभवेत् ! ॥ ४ ॥
स्यादेतत् । सुखादीनामचैतन्यं तेनैवागमेन प्रदेशान्तरे दर्शितम्, अतोऽ-
बाध्यत्वात् प्रमाणादस्मात् साधनविधियुक्तः ? इत्याह—तस्माच्चैतन्यात् प्रति-
पादिताद् विरुद्धस्याचैतन्यस्याभ्युपगमस्तेन चैतन्यप्रतिपादकेनैव चागमेन