प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 386, कुल 532 में से
संदर्भ में पढ़ें३६० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः ॥ ३३० ॥
द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् ।
जैमिनीयमतनिरासः
यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः ॥ ३३१ ॥
वाक्यं वैदैकदेशत्वादन्यदप्यपरोऽब्रवीत् ।
रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥ ३३२ ॥
शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ।
नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥ ३३३ ॥
इति नियमो न युज्यते पुरुषाधीनसंकेतापेक्षायाम् ।
तथा हि—यत्र पुरुषस्य स्वातन्त्र्यमिच्छायाः, तत्र नियमो नाम
कः सङ्गतः । तेनेच्छाधीनत्वेन संकेतो नेष्टामेव योग्यतामुद्द्योतयेत् । अन-
भिमतापि व्यञ्जयेदित्यर्थः । तदेवम्—अपौरुषेयत्वमागमलक्षणं ब्रुवाणा मीमां-
सकाः प्रतिक्षिप्ताः ।
सम्प्रति वृद्धमीमांसकानां मतं दूषयितुमुत्थापयति—यथा वैदिकं वाक्यम्
“अग्निर्हिमस्य भेषजम्” इति सत्यम्, शीतनोदनत्वेन वह्नेः प्रमाणसिद्धत्वात्;
तथान्यदपि वाक्यम्—“अग्निष्टोमेन जुहुयात् स्वर्गकामः” इत्यादि वैदैकदेश-
त्वात् सत्यमित्यपरो मीमांसकोऽब्रवीदुक्तवान् । किल शब्दोऽक्षमायाम् ।
ईदृशमनुमानं शेषवदनैकान्तिकं व्यभिचारित्वान्न्यायविदा आचार्य-
दिग्नागेन प्रतिक्षिप्तम्; रसवत् तुल्यरूपत्वात् स्वादितफलेन तुल्यरूपत्वात्
फलान्तरस्य तादृग्रसानुमानवत् । एकभाण्डान्तर्गतत्वात् दृष्टपाकतण्डुला-
नुमानवत् । न ह्येतादृशस्य हेतोः साध्यप्रतिबन्धोऽस्ति विपर्ययबाधकप्रमाणादिति
विपञ्चितं प्राक् ( प्र० वा० ३.१४) ।
दृश्यते च बहुतरविषये विसंवादो वेदस्य, कथमेकसत्यतया सर्वत्र तथा-
त्वम् । तथा च—परैरनाधेयविशेषस्य पुंस आत्मनः क्रमजन्मसु कर्मादिषु कर्तृत्वं
वदच्छास्त्रम्, तथा नित्यान् भावान् दिक्कालाकाशादीनर्थक्रियारहितान् सतो