सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 372, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 372

३४६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥ २७९ ॥
न भावो भवतीत्युक्तमभावो भवतीति¹ न¹ ।
अपेक्ष्येत² परः कार्यं यदि विद्येत किञ्चन ॥ २८० ॥
यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ।
एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः ॥ २८१ ॥
सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ।
यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां तथा ॥ २८२ ॥
नाशः स्वभावो भावानां नानुत्पत्तिमत्तां यदि ।
हि यस्माद् भावे विकल्प एष भेदाभेदात्मकः स्यात् ; विधेर्वस्त्व-
नुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वाद् भेदाभेदविकल्पाक्षमः ।
यदि च प्रसज्यप्रतिषेधेऽपि वस्त्वन्तरविधिः, तदा पर्युदासान्न भिद्येत; उभयत्रापि
विधेः प्राधान्यात् । पर्युदासो वा न सिध्येत्; एकनिवृत्तावपरविधाने स स्यात्,
निवृत्तिसिद्धौ तु कथं युक्तः ! ॥ २७९ ॥
यदा च भावनिवृत्तिर्विनाशार्थः, तदा 'अभावो भवति' इत्यादिवाक्येन
भावो न भवतीत्युक्तम्; अभावस्य भावायोगात् । अतश्च हेतुरपि नाशस्य
न कश्चित्; यस्मात् परः कारणाभिमतोऽपेक्ष्येत यदि किञ्चन कार्यं विद्येत ।
अन्यथा यदकिञ्चित्करं वस्तु तत् केनचित् किमपेक्ष्यते ! ॥ २७९ ॥
एतेन नाशस्य निःस्वभावत्वकथनेनाहेतुकत्वेऽपि सत्यभूत्वा नाशस्य
भावतः ॥ २८१ ॥
सत्तानाशित्वदोषस्य प्रसञ्जनं घटादाविव प्रत्याख्यातम् । न
ह्यभावो नाम कश्चिद् भवति, यस्याभूत्वा भावात् सत्त्वं नाशित्वं वा स्यात् ॥
ननु यथा जन्मिनां बुद्ध्यादीनां मध्ये केषाञ्चिदेव घटादीनां प्रतिघः
स्वदेशे वस्त्वन्तरोत्पत्तिव्याघात इष्टः, न बुद्ध्यादीनाम्; तथा यदि सतामुत्पत्ति-
मतामेव नाशः स्वभावः स्यात्, नानुत्पत्तिमत्तां शब्दाकाशादीनाम्, तदा कथ-
मुक्तम्- "सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः” (प्र० वा० ३.२७०) इति ?
१-१. भवतीत्यपि—पाठा० । २. अपेक्षेत—रा० ।