प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 382, कुल 532 में से
संदर्भ में पढ़ें३५६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
तद्वत् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथं न वः ।
यस्य१ प्रमाणविसंवादि१ वचनं सोऽर्थविद् यदि ॥ ३१५ ॥
न ह्यात्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ।
यस्य प्रमाणसंवादि वचनं तत्कृतं वचः ॥ ३१६ ॥
स आगम इति प्राप्तं निरर्थाऽपौरुषेयता ।
यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भवः ॥ ३१७ ॥
अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ।
स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः ॥ ३१८ ॥
न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ।
तीन्द्रियार्थसम्बन्धवेत्ता कल्प्यते, तदा पुंस्त्वे सत्यपि कश्चिदन्योऽपि ज्ञानी
ज्ञानातिशयवान् कथमप्यभ्यासादिना तद्वज्जैमिन्यादिवत् कथं वो मीमां-
सकानां नाभिमतः ।
स्यादेतत् । न वयं पुरुषप्रामाण्याद् व्याख्यानमनुमन्यामहे, किन्तु यस्य
प्रमाणमविसंवादि वचनं सोऽर्थविद् वेदार्थज्ञाता यदीष्यते ? नन्वत्यन्त-
परोक्षेषु वेदार्थेषु प्रमाणस्य सम्भवो न हि कस्यचिदस्ति, तत् कथं संवादा-
दर्थविद् व्यवस्थाप्यते !
अपि च—यस्य प्रमाणसंवादि वचनम्, स यदि व्याख्याता, तदा
'संवाद आगमलक्षणम्' इति, तेन संस्कृतं वच आगम इति प्राप्तमिति
निरर्थाऽपौरुषेयता वेदानां कल्पिता ।
तथा ॰यद्यत्यन्तपरोक्षेऽर्थे स्वर्गसम्बन्धादौ जैमिन्यादेरनागमस्या-
गमनिरपेक्षस्य ज्ञानस्य सम्भवः, तदाऽतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभि-
मतं भवेत् । ततस्तत्प्रतिषेपो न युक्तः ।
यदि तु न कश्चिदतीन्द्रियार्थदर्शी, तदा स्वयं रागादिमान् पुमान्
वेदस्यार्थं न वेत्ति, न चान्यतः; अन्यस्यापि रागादिमत्त्वेऽज्ञानत्वात् ॥३१८॥
वेदोऽपि स्वार्थं न वेद्यति, ततश्च कुतो वेदार्थस्य गतिः ! न
१-१. प्रमाणमविसंवादि—रा० ।