सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 374, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 374

३४८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
विकल्पवासनोद्भूताः समारोपितगोचराः ॥ २८७ ॥
जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः ।
मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः ॥ २८८ ॥
सत्यार्थं व्यतिरेकस्य विरोधिव्यापनाद् यदि ।
हेतावसम्भवेऽनुक्ते¹ भावस्तस्यापि¹ शङ्क्यते ॥ २८९ ॥
विरुद्धानां पदार्थानामपि व्यापकदर्शनात् ।
नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात् ॥ २९० ॥
अन्यस्य वा जन्मास्ति; क्रमाक्रमयोर्व्यापकयोर्नित्यान्निवृत्तेः, तद्व्याप्यस्य
सामर्थ्यस्याभावात् ।
तस्मात् तत्रानित्यात्मन्युच्चरिते शब्देऽनाद्यन्तेन विकल्पेन चित्तसन्तता-
वारोपिताया वासनाया विकल्पिका बुद्धयो जायन्ते समारोपितगोचराः
कल्पितार्थविषयाः, नार्थगोचरा न स्वलक्षणविषयाः; तथार्थत्वे शब्दप्रमाणान्तर-
वैफल्यस्योक्तेः ।
ननु मिथ्यात्वमर्थशून्यत्वं कृतकेष्वेव वाक्येषु दृष्टमित्यकृतं वचः
सत्यार्थं यदि स्यात्, तदा को दोषः ? कस्मादेवमित्याह परः—अकृतकत्वस्य
साधनस्य विरोधिना कृतकत्वेन साध्यविपर्ययस्य मिथ्यात्वस्य व्यापनात् ?
अत्राह—विपक्षान्मिथ्यात्वादकृतकस्य हेतोरसम्भवेऽसम्भव निमित्ते हेतौ
बाधकप्रमाणेऽनुक्ते तस्याकृतकत्वस्यापि मिथ्यात्वे विपक्षे भावः शंक्यते;
बाधकप्रमाणदर्शनात् ॥ २८९ ॥
ननु मिथ्यात्वं कृतकेषु दृष्टं तदकृतकेषु विरोधिषु कथं स्याद् ? इत्याह—
विरुद्धानामपि हि व्याप्यानां पदार्थानामेकस्य व्यापकस्य दर्शनात् । यथा
प्रयत्नानन्तरीयकत्वयोरेकेन कृतकत्वेनानित्यत्वेन वा व्याप्तिः ।
किञ्च—सर्वतो विपक्षाद्धेतोरसत्ताया अनुपलब्भात् प्रतिबन्धमन्तरेण
न सिद्धिरित्युक्तं प्राक्—"न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता" ( प्र०
वा० ३. १३ ) इत्यादिना ॥ २९० ॥
१-१. हेतावसम्भवे भावस्तत्तस्यापि—रा० ।