प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 378, कुल 532 में से
संदर्भ में पढ़ें३५२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
तेऽपि¹ तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ।
स्वसामान्यस्वभावानामेकभावविवक्षया ॥ ३०१ ॥
उक्तैः समयकाराणामविरोधो न वस्तुनि ।
आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतौ ॥ ३०२ ॥
न कार्यभेद इति चेद् ? अस्ति सा पुरुषाश्रया ।
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ॥ ३०३ ॥
तज्जत्वात् तस्य व्यक्तिरिति चेत् ? ॥ ३०० ॥
यद्येवम्, शब्दविकल्पवदर्थविकल्पा अपि तत्प्रभवा इति तेऽपि तथा
शब्दव्यक्तयः स्युः । परः न केवलाच्छब्दप्रभवत्वात् तद्व्यक्तिः, किन्तु तदर्था
शब्दविषया सतीति चेत् ? न चार्थविकल्पः शब्दविषयः । शब्दविकल्पस्य शब्द-
विषयत्वमसिद्धम्; कल्पनाया वाच्यवाचकयोजनाया अन्वयात् सम्बन्धात् ।
न च कल्पना वस्तुविषयेति कथ्यते ।
अस्माकं तु मते स्वसामान्यस्वभावानां शब्दस्वलक्षणसामान्यलक्षणानां
प्रत्यक्षविकल्पबुद्धिविषयाणामेकत्वाध्यवसायवशादेकभावस्यैकत्वस्य विवक्षया
समयकाराणां समयकर्त्तृभिः शक्तिमत्पुम्भिर्मन्त्राणामुक्तेरविरोधः । उपांशुजप-
मनोजपयोर्वैफल्यविरोधाभावो दृश्यविकल्प्यावेकाध्यवसायादेककार्यकारित्वेनाधिष्ठि-
तत्वात् तत् कुरुतः । ये तु वस्तुभूतं मन्त्रमिच्छन्ति तेषां विरोध एव ? तदाह—
न वस्तुनि विरोधाभावः । न ह्युपांशुजपादिविषयो वस्तु; कल्पितत्वात् ।
अथ तन्मतेऽपि आनुपूर्व्यां वर्णव्यतिरिक्तायामसत्यां सरो रस इति
प्रसिद्धानुलोमविलोमक्रमायां श्रुतौ कार्यस्य स्वज्ञानस्य भेदो न स्यादिति चेत् ?
अस्त्यस्मन्मते सा आनुपूर्वी पुरुषाश्रया पुरुषकृता प्रतिपदं भिन्ना, ततो न
ज्ञानभेदप्रसङ्गः ।
तथा हि—यो ध्वनिर्जायते तद्वर्णसमुत्थो ज्ञानतः । यश्चासौ वर्णश्च
यद्वर्णस्तस्य समुत्थानं कारणं तच्च तत् ज्ञानं च यद्वर्णसमुत्थानज्ञानं तस्माज्जातं
यद्वर्णसमुत्थानज्ञानजं तस्मात् ज्ञानमतः । अयमर्थः—आद्यस्य वर्णस्य
१. अत्र 'अपि' ग्रहणं छन्दोभङ्गकरत्वेऽपि वृत्तिद्वयसम्मतमिति ध्येयम् ।