प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 380, कुल 532 में से
संदर्भ में पढ़ें३५४ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् ।
सा चानुपूर्वी वर्णानां प्रवृत्ता१ रचनाकृतः१ ॥ ३०७ ॥
इच्छाऽविरुद्धसिद्धीनां स्थितिक्रमविरोधतः ।
कार्यकारणतासिद्धेः पुम्भ्यो२ वर्णक्रमस्य च ॥ ३०८ ॥
सर्वो वर्णक्रमः पुम्भ्यो दहनेन्धनयुक्तिवत् ।
असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम्३ ॥ ३०९ ॥
पुंसां३ ज्ञानप्रभावाभ्यामन्येषां तदभावतः ।
येऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुर्वते ॥ ३१० ॥
प्रभोः४ प्रभावस्तेषां४ स तदुक्तन्यायवृत्तितः ।
वसायविषयत्वेऽपि कर्तृसंस्कारतो वर्णसमुत्थापकचित्तशक्तिभेदाज्जातं भिन्नम् ,
क्रमेण चानुभूय स्मृत्या सहितं स्मृतं सत् कार्यभेदकृदर्थप्रतिपत्तिविशेषकारि ।
सा च वर्णानामानुपूर्वी तद्धेतुग्राहिचेतसां रचनाकृतः पुरुषात् प्रवृत्तेति
न स्थितक्रमा वर्णाः पुरुषेच्छयाऽविरुद्धसिद्धीनां वर्णानां स्थितस्य क्रमस्य
विरोधात् । न हि स्थितक्रमाणां हिमवद्विन्ध्यमलयानामिच्छया विपरीतक्रमः
शक्यः । वर्णास्त्विच्छया विपर्यासन्ते; विकल्पक्रमानुविधायित्वाच्च ॥ ३०७ ॥
तद्वत् कल्पितोऽप्यर्थो न प्रमाणम्; कार्यकारणतायाः सिद्धेः । सर्वो
वैदिकोऽन्यश्च वर्णक्रमः पुम्भ्यो भवतीत्यवधारणम् । दहनेन्धनयुक्तिवत् ।
यथैकस्य दहनस्य इन्धनपूर्वकत्वदृष्ट्या सर्वोऽग्निरिन्धनपूर्व इति न्यायः ।
अत एव च मन्त्राख्यवर्णक्रमकारिणां पुंसां ज्ञानप्रभावाभ्यां पुरुषान्तरैः
सहासाधारणताऽसमानता सिद्धा; अन्येषां तयोर्ज्ञानप्रभावयोरभावतः ।
ननु तन्त्रज्ञा रथ्यापुरुषा अपि मन्त्रं किञ्चित् कार्यसमर्थं प्रणयन्तो दृश्यन्ते,
ततो मन्त्रकरणान्नातिशयसिद्धिः ? इत्याह—येऽपि केचित् साधारणा मन्त्रविदो
मन्त्रशास्त्रज्ञाः कांश्चन मन्त्रान् विषादिशमनान् कुर्वते, तेषां प्रभोर्मन्त्रप्रणेतु-
रतिशयितशक्तेः स प्रभावः सामर्थ्यं तदुक्तस्य न्यायस्य समयानुष्ठानादे-
१-१. तद्धेतुग्राहिचेतसाम्—रा० । २. पुंसां—पाठा० ।
३-३. पुंसां च क्रमकारिणाम् । अतो—रा० । ४-४. प्रभुप्रभाव०—पाठा० ।