सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 390, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 390

वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्त्तते ॥ २ ॥
बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोऽप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलं ततः ॥ ३ ॥
तदागमवतः सिद्धं यदि कस्य क आगमः ।
बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ॥ ४ ॥
तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ! ।

पदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टान्तादिवचनं स्यात् । प्रमाणान्तरसंवादापेक्षा
च न भवेत् । संवादज्ञानस्यैवार्थभावाभावानुविधायित्वात् तस्मिन्नागमार्थे प्रामाण्यम् ।
वचनस्य तु विपर्ययात् । यदि त्वागम इत्येव प्रमाणम्, तदा प्रमाणान्तरसंवादा-
पेक्षा न स्यात् । हि यस्मात् अस्मिन्नागमार्थे प्रमाणप्रतिपादितत्वान्निश्चिते-
ऽनुमानं न प्रवर्त्तते । यदि ह्यागमार्थः सन्दिह्येत, तदा तन्निश्चयार्था प्रमाणा-
न्तरवृत्तिरपेक्ष्येत ॥ २ ॥
यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्ति-
मत्त्वादेः सांख्येन परं बौद्धं प्रत्युक्तिः, ततः कारणात् स आगमोऽप्रमाणम्;
तदा न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात्
पारम्पर्याभ्यां सिद्धमुत्पत्तिमत्त्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धम् ॥ ३ ॥
स च सुखाद्युत्पत्तिमत्त्वप्रतिपादक आगमश्च तदागमः तद्वतस्तत्सम्बन्धिनो
बौद्धस्य सिद्धमुत्पत्तिमत्त्वादिलिङ्गमिति चेत् ? कस्य पुरुषस्य क आगमः
सम्बन्धी । न तावद्वयववत् आगमोऽपि पुरुषस्य सहजसम्बन्धेन सम्बद्धः । नापि
युक्त्युपपन्नतयोपाधिना प्रत्यक्षानुमानवत् सम्बन्धः । तथा हि—प्रमाणनोत्पत्तिमत्त्वा-
दिलिङ्गेनानुमानेनागमप्रतिपादितस्य सुखादिचैतन्यस्य बाधनात् बाध्यमान
आगमः हेतुः । स कथमागमसिद्धः, येन युक्तिसंवादोपाधिनापि पुरुषेण
सम्बन्धमनुभवेत् ! ॥ ४ ॥
स्यादेतत् । सुखादीनामचैतन्यं तेनैवागमेन प्रदेशान्तरे दर्शितम्, अतोऽ-
बाध्यत्वात् प्रमाणादस्मात् साधनविधियुक्तः ? इत्याह—तस्माच्चैतन्यात् प्रति-
पादिताद् विरुद्धस्याचैतन्यस्याभ्युपगमस्तेन चैतन्यप्रतिपादकेनैव चागमेन