सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 388, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 388

३६२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता ।
प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥ ३३८ ॥
परस्परविरुद्धार्था कथमेकत्र सा भवेत् ।
वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीपकाः ॥ ३३९ ॥
प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ! ।
तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ॥ ३४० ॥
तेनासन्निञ्चयफलाऽनुपलब्धिर्न सिध्यति ।
न च तद्व्यतिरिक्तस्य कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत
इति निवेदितम् ।
स्यादेतद् । वाचकानां शब्दानां प्रवृत्तिर्वाच्यदृष्टिकृता अभिधेयदर्शना-
गता, ततः परम्परया तत्कार्यतैवैयामिति चेत् ? एवं तर्हि सा शब्दप्रवृत्तिरेकत्र
वस्तुनि परस्परविरुद्धार्था कथं भवेत् !
यदि यथा वस्त्वेव शब्दः, तदा वस्तुत एकरूपेण शब्दे 'नित्यः किमयम-
नित्यो वा' इत्यादि शब्दसन्दर्भों न भवेत् । तेन प्रतिबन्धाभावेन वस्तुभिः सह
नान्तरीयका आगमा प्रतिपत्तुर्थं शब्दात् प्रतिपद्यमानस्य कथञ्चिन्न
सिध्यन्ति, तत् कुतस्तेभ्य आगमार्थनिश्चयः ! ॥ ३३८ ॥
यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिरतस्तस्मात् तस्यागमस्य निवृत्त्यापि
भावस्याभावो न सिध्यति । तेन प्रमाणत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्था-
नामसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तम्—“सदसन्निश्चयफला
नेति स्याद् वाऽप्रमाणता” ( प्र० वा० ३. २०० ) इति । सव्यवहारप्रतिषेधे
तु प्रमाणमेव । दृश्यानुपलब्धिस्तु सव्यवहारप्रतिषेधेऽसद्व्यवहारसाधने चाधिकृते
व्यवस्थितेत्यवस्थितम् ॥ ३४० ॥
इत्याचार्यमनोरथनन्दिकृतायां
प्रमाणवार्त्तिकवृत्तौ तृतीयः
स्वार्थानुमानपरिच्छेदः