सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 384, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 384

३५८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
ततश्च भूयोऽर्थगतिः किमेतद् द्विष्ठकामितम् ।
अथ प्रसिद्धिमूल्लंघ्य कल्पने न निबन्धनम् ॥ ३२३ ॥
प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् ।
उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥ ३२४ ॥
यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ।
अन्यथासम्भवाभावात् नानाशक्तेः स्वयं ध्वनेः ॥ ३२५ ॥
अवश्यं शंकया भाव्यं नियामकमपश्यताम् ।
एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥ ३२६ ॥
अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ।
भूयः पुनस्ततो जनवादादर्थस्य गतिरिति किमेतत् द्विष्ठकामितम् !
लोकवादोऽप्रमाणत्वात् द्विष्ठः सम्प्रति काम्यते इति व्यक्तो विरोधः । अथ लोकस्य
प्रसिद्धिमूल्लंघ्य श्वमांसभक्षणाद्यर्थकल्पने न निबन्धनमस्ति ॥ ३२३ ॥
ननु प्रसिद्धेरप्रमाणत्वात् तस्या ग्रहे किं निबन्धनं विचारकस्य, न
किञ्चित् !
किञ्च—प्रसिद्ध्यैव शब्दार्थनिश्चये विपरीतार्थकल्पनायाः शङ्कोत्पा-
दिता; यस्मान्नानार्थवृत्तित्वं शब्दानां गवाक्षप्रभृतीनां तत्र प्रसिद्धौ
दृश्यते ।
तथा—नानाशक्तेरनेकार्थप्रतिपादनयोग्यस्य ध्वनेः स्वयमात्मनाऽन्यथा-
सम्भवस्य एकार्थप्रतिपादनयोग्यतासम्भवस्यासम्भवात् ॥ ३२५ ॥
अवश्यमर्थान्तरशङ्कया भाव्यम् । कथम् ? इत्याह—नियामकम-
पश्यतामनेकार्थस्य शब्दस्य एकवृत्तिनियमकारणमपश्यतां पुंसाम् ।
किञ्च—स्वयमर्थप्रतिपादनशून्यो नेतानभिमतार्थद्योतकत्वेन प्रतिपादयन् कर्तुर्न
भिद्यते; तस्याप्येवं व्यापारत्वात् । यथा केनचित् कश्चन पन्थानं पृष्ट आह—
नाहं जाने, किन्तु स्थाणुरेष वक्ति 'अयं मार्गः' इति, अन्यः पुनः
प्रत्याह—अहं स्वयं ब्रवीमि 'अयं मार्गः' इति; तयोरेवं वादिनोः प्रतिपाद-
कत्वस्य भेदः परीक्ष्यताम् । एको निरभिप्रायवचनं वक्तृत्वेन व्यपदिशति,