प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 371, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] स्वार्थानुमानपरिच्छेदः ३४५
असत्त्वेऽभाववाशित्वप्रसङ्गोऽपि न युज्यते ॥ २७६ ॥
नाशन यस्माद् भावस्य न विनाशनमिष्यते ।
नश्यन् भावोऽपरापेक्ष¹ इति¹ तज्ज्ञापनाय सा ॥ २७७ ॥
अवस्थाऽहेतुरुक्तास्या भेदमारोप्य चेतसा ।
स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः ॥ २७८ ॥
न तस्य किञ्चिद् भवति न भवत्येव केवलम् ।
वस्तु हि नित्यमनित्यं वा स्यात् । यत्तु न किञ्चित्, तत् कथमुच्यताम् !
अतश्चानित्यत्वादसत्त्वे नाशस्याभावनाशित्वस्य प्रसङ्गोऽपि न युज्यते;
यस्माद् भावस्य काष्ठादेर्नाशेन हेतुना नाशनं नेष्यते । यदि हि 'नाशेन
नाशः क्रियते' इतीष्यते, तदा नाशाभावे वस्तुनाशो न स्यात्; किन्तु स्वहेतुत
एव भावा एकक्षणस्थितिधर्माण उत्पन्ना द्वितीये क्षणे न भवन्ति, न तु नाम
कश्चिद् भवति, यस्य नित्यत्वानित्यत्वयोर्दोषावकाशः ।
कथं तर्हीदानीमहेतुको नाशो भवतीत्युच्यते ? इत्याह— नश्यन् भाव
एव क्षणस्थितिधर्मतया स्वहेतोरुत्पत्तेर्द्वितीये क्षणेऽभवन्नपरापेक्षः कारणान्तर-
निरपेक्ष इति तस्य कारणान्तरानपेक्षनाशित्वस्य ज्ञापनाय सा भावानामवस्थाऽ-
हेतुरुक्ता, 'अहेतुको विनाशो भवति' इत्यादिवचसैवास्या अवस्थाया धर्मिणः
सकाशात् भेदान्तरप्रतिक्षेपेण चेतसा विकल्पकेन भेदमारोप्य । न तु वस्तुतो
नाशो नाम कश्चित् भावाद् भिन्नस्वभावो भवति ।
स्वतोऽप्यभावस्य भावेऽन्यत्वानन्यत्वविकल्पः समश्चेत् । तथा हि—यदि
भावाद् भिन्नोऽप्यभावो ज्ञातो भावः किमिति न दृश्यते, अभेदे तु भाव एव नाश
इति कथं नष्टः ? ॥ २७८ ॥
अत्राह—न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किं
तर्हि ? स एव केवलं न भवति; व्यवहर्त्तव्यैकरूपत्वात् तस्य । तत्र च
भेदाभेदविकल्पानवतारः ।
१-१. भावः परापेक्षो न तस्य ज्ञाप०—रा० ।