प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 379, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] स्वार्थानुमानपरिच्छेदः ३५३
जायते, तदुपाधिः स श्रुत्या समवसीयते ।
तज्ज्ञानजनितज्ञानः स श्रुतावपटुश्रुतिः ॥ ३०४ ॥
अपेक्ष्य तत्स्मृतिं पश्चात्¹ स्मृतिमाधत्त आत्मनि¹ ।
इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥ ३०५ ॥
कार्यकारणता वर्णेष्वानुपूर्वीति² कथ्यते ।
अन्यदेव ततो रूपं तद्वर्णानां पदे³ पदे³ ॥ ३०६ ॥
यत्समुत्थापकं विवक्षात्मकं ज्ञानं तेन समनन्तरप्रत्ययेन सता द्वितीयवर्णसमुत्थापकं
ज्ञानं जन्यते, तेन च द्वितीयो वर्णः, एवं द्वितीयवर्णसमुत्थापकात् ज्ञानात्
तृतीयवर्णोत्थापकज्ञानोत्पत्तौ तृतीयवर्णोत्पत्तिरिति कारणक्रमाद् वर्णोत्पत्तिक्रम
उक्तः । पुनः कार्यक्रमेण क्रमं दर्शयितुमाह—स उत्तरो वर्णस्तदुपाधिः पूर्ववर्ण-
विशेषणः, तदनन्तर इत्यर्थः, श्रुत्या श्रवणज्ञानेन ग्राह्यवर्णकार्येण श्रोतृसन्तानवर्तिना
समवसीयते । क्रमोत्पन्ना वर्णाः स्वस्वजनितज्ञानैरसहभाविन एव गृह्यन्ते ।
ननु क्रमभाविनां सहदर्शनाभावात् कथं पूर्ववर्णोपाधिग्रहणम् ? इत्याह—
तस्य पूर्ववर्णस्य ज्ञानेन ग्राहकेणोत्तरवर्णसहकारिणा जनितं ग्राहकं ज्ञानं
यस्मिन् स तज्ज्ञानजनित उत्तरो वर्णः मन्दमुच्चार्यमाणत्वात् श्रुतौ श्रवणज्ञाने-
ऽपटुश्रुतिर्मन्दचारिश्रवणज्ञानः । तस्य पूर्ववर्णस्य स्मृतिमपेक्ष्यात्मनि स्मृतिं
पूर्ववर्णानन्तरत्वेनाधत्ते । यस्मात् पूर्ववर्णानन्तरत्वेनोत्तरः स्मर्यते, तस्मात्
तदनन्तर एवासौ गृहीत इत्यर्थः ।
इति एवमुक्तेन क्रमेण वर्णेषु क्रमभाविषु तद्धेतुचेतसां वर्णोत्थापकचेतसां
वक्तृसन्तानवर्तिनाम्, तद्ग्राहिचेतसां वर्णग्राहकचेतसां श्रोतृसन्तानवर्तिनां
कार्यकारणतैषा यथायोगं वर्णापेक्षा क्रमवती कारणता कार्यता चानुपूर्वी
कथ्यते । सा च पुरुषनिर्वर्त्यत्वात् पौरुषेय्येव ।
यतो न नित्यत्वम्, ततोऽन्यदेव वर्णानां तद्रूपं पदे पदे प्रतिपदमेकाध्य-
१-१. पश्चादाधत्ते स्मृतिमात्मनि—इत्येवमपि पाठः ।
२. वर्णे ह्यानुपूर्वीति—रा० ।
३-३. पदं पदम्—पाठा० ।
प्र० वा० : २३