सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

विचारः ] स्वार्थानुमानपरिच्छेदः ३२५
पौरुषेयत्वविचारः
अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोध्येत्यपरे विदुः ॥ २२० ॥
सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम्¹ ।
सात्मीभावात् तदभ्यासाद् हीयेरन्नास्रवाः क्वचित् ॥ २२१ ॥
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ २२२ ॥
सर्वासाम् दोषजातीनां जातिः सत्कायदर्शनात् ।
किन्तु अयं पुमान् एवं दोषवान् न वा निर्दोष इत्यन्यस्य दोषा निर्दो-
षतापि वा प्रमाणानां दुर्लभत्वात् दुर्बोध्येत्यपरे सौगता विदुः । 'दुर्बोधा'
इति 'अन्यदोषा' इत्यनेन लिङ्गवचनविपरिणामेन सम्बन्धनीयम् ॥ २२० ॥
तत्किमशक्योच्छेदा दोषा न ? इत्याह—सर्वेषामास्रवाणां रागादीनां प्रतिपक्ष-
सम्मुखीभावाभावयोर्निर्ह्रासातिशयावुपचयापचयौ श्रयन्त इति निर्ह्रासातिशयं
श्रितास्तेषां सविपक्षत्वात् प्रतिपक्षसम्भवात् तस्य प्रतिपक्षस्याभ्यासात्
सात्मीभावादास्रवा क्वचिच्चित्तसन्ताने हीयेरन्निति खलु निर्दोषपुरुषापलापः
क्रियते, किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छाधीनस्य व्याहारस्यान्यथापि
कर्तुं शक्यत्वात् न ततस्तथार्थनिश्चयः ॥ २२१ ॥
अथ सात्मीभूतप्रतिपक्षस्य² मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्या-
सात् पुनर्दोषोत्पत्तिः ? इत्याह—निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात्,
भूतार्थस्य प्रमाणपरिदृष्टार्थविषयत्वात् , स्वभावस्यानारोपितत्वात् मार्गसात्म्यस्य
विपक्षेण न बाधा; यत्नवत्त्वेऽपि । यत्न एव तावन्न सम्भवति; विपक्षाभ्यासे
दोषदर्शनात् । यत्नवत्त्वेऽपि तु बुद्धेस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो
न बाधा । न हि रज्ज्वां निवृत्तसर्पभ्रमः सर्पं भावयितुं यतते कश्चित्;
भूतार्थस्य दर्शनात् ॥ २२२ ॥
कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्ते ? इत्याह—सर्वासां दोष-
१. ०तिशयं श्रितः—रा० । २. सात्मीयभूत०—रा० ।

३२६ प्रमाणवार्त्तिके [ पौरुषेयत्व-
साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ २२३ ॥
मोहो निदानं दोषाणामत एवाभिधीयते ।
सत्कायदृष्टिरन्यत्र;
तत्प्रहाणे प्रहाणतः ॥ २२४ ॥
अपौरुषेयत्वविचारः
वेदप्रामाण्यनिराकरणम्
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ २२५ ॥
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
जातीनां दोषप्रकाराणां जातिर्जन्म सत्कायदर्शनादात्माभिनिवेशात् ।
नन्वविद्याहेतुकाः क्लेशा भगवतोक्ताः ? इत्याह—साऽविद्या सत्कायदर्शन-
मेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु
स्नेहः, तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषादीनां सम्भव इति दोषो-
त्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मार्गो युक्तः, सत्कायदृष्टिप्रतिपक्षत्वात् ॥२२३॥
यतश्च सत्त्वदृष्टिरविद्या, अत एव मोहोऽविद्या दोषाणां निदानम-
भिधीयते भगवता “अविद्याहेतुकाः सर्वे क्लेशाः” ( ) इति, पुनरन्यत्र
प्रदेशे “सत्कायदृष्टिर्दोषनिदानम्” ( ) अभिधीयते ।
नन्वन्येऽपीन्द्रियविषया योनिशोमनस्कारादयो दोषहेतवः, तत् किमविद्या-
सत्कायदृष्टी एवाभिहिते ? इत्याह—तस्य मोहस्य सत्कायदृष्टिलक्षणस्य प्रहाणे
दोषाणां प्रहाणतः प्राधान्यात् स एवोक्तः, नेतर इत्यर्थः ॥ २२४ ॥
वेदप्रामाण्यं निराचिकीर्षन् परमतमुत्थापयति—गिरां वाचां मिथ्यात्वस्य
हेतूनां दोषाणामज्ञानविसंवादाभिप्रायादीनां वा पुरुषस्याश्रयादाश्रयणत्वात्
अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात् सत्यार्थमिति केचित्
जैमिनीयाः प्रचक्षते ॥ २२५ ॥
तानेव¹ प्रति गिरां सत्यत्वस्य हेतूनां दयाधर्मपरत्वादीनां गुणानां
१. मीमांसकानेवेत्यर्थः ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३२७
अपौरुषेयं मिथ्यार्थं किं नेत्यन्ये प्रचक्षते ॥ २२६ ॥
अर्थज्ञापनहेतुर्हि संकेतः पुरुषाश्रयः ।
गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भवः ॥ २२७ ॥
सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः ।
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥ २२८ ॥
गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ।
पुरुषस्याश्रयादपौरुषेयं वाक्यं सत्यताहेतोः पुरुषगुणस्याभावात् मिथ्यार्थं किं
न भवतीत्यन्ये सौगताः प्रचक्षते ॥ २२६ ॥
किञ्च—संकेतमन्तरेणापौरुषेयादपि वाक्यादर्थप्रतीतेरभावात् अर्थज्ञापन-
हेतुरिह संकेतः स्वीकर्त्तव्यः । स च पुरुषकृतत्वात् पुरुषाश्रयः । अतः
संकेतस्य पुरुषाश्रयत्वात् गिरामपौरुषेयत्वेऽपि मिथ्यात्वस्य सम्भवः ।
संकेतवशेन वाचोऽर्थं ब्रुवते । स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न
विसंवादशङ्कानिरासः, पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनम् ॥ २२७ ॥
अथ शब्दार्थयोः सम्बन्धो न पौरुषेयः, किन्तु स्वाभाविकः, ततो न
मिथ्यात्वसम्भवः; तदा सम्बन्धापौरुषेयत्वेऽपीष्यमाणे स्यादर्थानां प्रतीतिः;
असंविदोऽविद्यमानसंकेतप्रतीतेः पुंसः । न चेच्छब्दार्थयोः सांकेतिको वाच्य-
वाचकतासम्बन्धः, किन्तु स्वाभाविकः । तदाऽगृहीतसङ्केतोऽपि श्रुताच्छब्दादर्थं
प्रतिपद्येतेति ।
अथ संकेतात् सतोऽपि तस्य सम्बन्धस्याभिव्यक्तिः, प्रदीपादिवद् घटादेः,
अतो नागृहीतव्यञ्जकस्य व्यङ्ग्यप्रतीतिः ? तदा संकेतात् तस्य सम्बन्धस्या-
भिव्यक्ताविष्यमाणायां संकेतादन्यस्य सम्बन्धस्य कल्पनाऽसमर्था सम्बन्ध-
व्यवस्थापनाय; संकेतादेव वाच्यवाचकभावस्य कल्पितस्य घटमानत्वात्, हस्त-
संज्ञादेरिवार्थप्रतिपादनस्य ॥ २२८ ॥
किञ्च—वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बन्धः ? अथानेकैः ?
तत्र गिरामेकस्मिन्नर्थे वाचकत्या नियमे सति संकेतवशादन्यत्रार्थे न स्याद्
गतिः, दृश्यते च विवक्षातोऽनेकार्थाभिधानम् ।

३२८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ २२९ ॥
अपौरुषेयतायाश्च¹ व्यर्था स्यात् परिकल्पना ।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ २३० ॥
असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता ।
संस्कारोपगमे मुख्यं गजस्नानमिदं² भवेत् ॥ २३१ ॥
सम्बन्धविचारः
सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता ।
अनेकैरर्थैर्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्तेः प्रतीतेः सम्भवः
स्यात् । 'अग्निष्टोमः स्वर्गस्य साधनम्' इति विपर्ययोऽप्यवसीयेत । ततश्चाप्रवृत्ति-
रेव स्यात् स्वर्गार्थिनः ॥ २२९ ॥
अथानेकार्थाभिधाय्यपि शब्दः पुरुषेण संकेतादभिमतार्थाभिधायित्वेन निय-
म्यते ? तदा अपौरुषेयतायाश्च व्यर्था परिकल्पना स्यात्, तदभ्युपगमेऽपि
पुरुषस्वातन्त्र्याभ्युपगमात् । तदर्थेभ्यो भिन्नानां शब्दानां तैः सह सम्बन्धस्य
व्यवस्थितिः । हेतुश्च वाच्यो येनाव्यभिचारः । न हि शब्दार्थयोस्तादात्म्यम् ;
भेदात् । नापि तदुत्पत्तिः, अर्थमन्तरेणापि विवक्षातः शब्दोत्पत्तेः, अन्यथा
चाव्यभिचाराभावात् ॥ २३० ॥
उक्तमर्थं संगृह्णाह — यदि संकेतनिरपेक्षाणां स्वत एव वाचकत्वं शब्दा-
नाम्, तदा पुंभिरसंस्कार्यतया संकेतद्वारेण नियम्यतया सर्वथा निरर्थता
स्यात् ; सङ्केतनिरपेक्षाच्छब्दादर्थप्रतीतेरभावात् । एतद्दोषाभावात् संस्कारस्योप-
गमे स्वीकारे इदमपौरुषेयत्वं मुख्यमनुपचरितं गजस्नानं भवेत् । गजो हि
स्नानेन पङ्कमपनीय पुनस्तेनात्मानं लिम्पति । तथाऽपौरुषेयत्वं सम्बन्धस्य स्वी-
कृत्यापि पुनः सङ्केते पुरुषापेक्षेति व्यक्तं साम्यम् ॥ २३१ ॥
तथा सम्बन्धिनामर्थानामनित्यत्वात् सम्बन्धे नित्यता नास्ति । न
ह्याश्रयापाये भवत्याश्रितम् ।
१. अपौरुषेयतायाञ्च—रा० ।
२. गजस्नाननिभं—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३६९
नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ॥ २३२ ॥
अर्थैरतः स शब्दानां संस्कार्यः पुरुषैर्धिया ।
अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ २३३ ॥
शब्देषु युक्तः;
सम्बन्धे नायं दोषो विकल्पिते ।
नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत्¹ ॥ २३४ ॥
नित्येष्वाश्रयसामर्थ्यं किं येनेष्टः स चाश्रयः ।
किञ्च—नित्यस्य सम्बन्धस्यानुपकार्यत्वात् अकुर्वाणोऽनुपकुर्वाणः
शब्दोऽर्थश्चाश्रयो न युक्तः । यतः स्वाभाविकसम्बन्धानुपपत्तिः, अतः सम्बन्धो
ऽर्थैः सह शब्दानां पुरुषैर्व्यवहर्तृभिरर्थप्रतिपादनाभिप्रायान्वयव्यतिरेकानुविधान-
माश्रित्य धिया कल्पिकया संस्कार्यो व्यवस्थाप्यः ।
अथानित्य एव सम्बन्धः ? तदा सम्बन्धिनां नाशे सम्बन्धस्य नष्टत्वान्निरर्थकः
शब्दः स्यात् ।
अथ वा—वाच्यैरर्थैरेव सह सम्बन्धस्योत्पाद इष्यते, तदोत्पाद इष्य-
माणेऽपि पूर्वमर्थेन सह सम्बन्धस्य विनष्टत्वात् अर्थसम्बन्धरहितानामसु शब्देषु
स्वभावस्य सम्बन्धविकलस्य विपर्ययः सम्बन्धयोगी न युक्तः । न हि
नित्यस्य पूर्वापरैकस्वभावस्यान्यथात्वं युक्तम्; अन्यथा नित्यताहानिप्रसङ्गात् ।
अस्मन्मते तु—विकल्पिते कल्पनानिर्मिते सम्बन्धेऽयं स्वभावान्यत्व-
प्रसङ्गदोषो न भवति । न हि कल्पनाक्लृप्तो धर्मः स्वभावं वस्तुतः स्पृशति ।
सम्बन्धस्य नित्यत्वात् आश्रयस्य वाच्यस्यापायेऽप्यनाशो यदि
जातेरिव सम्मतः, तदा नित्येषु जातिसम्बन्धादिष्वाश्रयस्य वाच्यस्य वाचकस्य
च किं सामर्थ्यमुपकारविशेषाधायकम्, येन [सामर्थ्येन स वाच्यादिराश्रय
इष्टः । न ह्यनुपकार्यमाश्रितम्; अतिप्रसङ्गात् । नित्यस्य चोपकारासम्भवः; भेदा-
भेदकल्पनायामयुक्तत्वात् ।
१. सम्मतः—रा० ।

३३० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
ज्ञानोत्पादनहेतूनां¹ सम्बन्धात् सहकारिणाम् ॥ २३५ ॥
तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते ।
घटादिष्वपि युक्तिज्ञैः;
अविशेषेऽविकारिणाम् ॥ २३६ ॥
व्यञ्जकैः स्वैः कृतः² कोऽर्थो व्यक्तास्तैस्ते यतो मताः ।
सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ २३७ ॥
ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः ।
भिन्नत्वाद् वस्तुरूपस्य सम्बन्धः कल्पनाकृतः ॥ २३८ ॥
अथ नित्यस्यापि जातिसम्बन्धादेराश्रयेणाभिव्यक्तिलक्षण उपकारः क्रियते,
न चाभिव्यक्तिहेतुः³ कारकः, दीपादिवत् घटादेः ? इत्याह—ज्ञानोत्पादनहेतूनां
दीपादीनां सहकारिणां सम्बन्धात् तदुत्पादनयोग्यत्वेन ज्ञानोत्पादनसमर्थत्वे-
नोत्पत्तिर्घटादिष्वपि भावेषु युक्तिज्ञैर्न्यायविद्भिर्व्यक्तिरिष्यते; अन्यथा
ज्ञानोत्पादनयोग्यस्य स्वभावस्यानुत्पत्तौ ज्ञानोत्पादनं न स्यात् ।
नित्यानां जातिसम्बन्धादीनामविकारिणां कुतश्चिदविशेषे विशेषासम्भवे
स्वैर्व्यञ्जकैराश्रयाभिमतैः कोऽर्थः स्वभावान्यथात्वादिः कृतः, न कश्चित्; यतो-
ऽर्थात् कृतात् तैर्व्यञ्जकैस्ते जात्यादयो व्यक्ता मताः ।
किञ्च—यदि सम्बन्धस्य वस्तुत्वम्, तदा वस्तुत्वे सति भेदोऽभेदो
वाभ्युपगन्तव्यः । तत्र भेदात् बुद्धेश्चित्रता स्यात् । वाच्यवाचकौ सम्बन्धश्चेति
त्रितयं दृश्येत, न चेष्यते । अथ द्वितीयः पक्षः, तदा ताभ्यामभेदे सम्बन्धस्य
तौ वाच्यवाचकावेव स्याताम्, न तु सम्बन्धो नाम कश्चित् । अथ सम्बन्धो
न भिन्नः, नाप्यभिन्नः । अतो भेदाभेदाभ्यामन्या वस्तुनो गतिर्नास्ति ।
अन्योन्यव्यवच्छेदात्मकत्वादनयो राश्यन्तरासम्भवान्नान्यः प्रकारोऽस्ति वस्तुनः ।
तस्माद्—भिन्नत्वाद् वस्तुनोः सम्बन्धिनोः रूपस्य सम्बन्धः श्लेष-
१. ज्ञानोत्पादेन हेतूनां—रा० । एवं वृत्तावपि ।
२. कुतः—रा० । एवं वृत्तावपि ।
३. चाव्यक्तिहेतुः—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३३१
सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम् ।
वर्णा निरर्थकाः सन्तः;
पदादिपरिकल्पितम् ॥ २३९ ॥
लक्षणः कल्पनया कृतो न वास्तवः; अन्यथा सद् द्रव्यं सम्बन्धाख्यं पराधीनं
सम्बन्ध्यायत्तं कथं स्यात् ! कथं वा भिन्नयोः सम्बन्धिनोः श्लेषलक्षणः सम्बन्धः;
परस्परममिश्रस्वभावत्वात् सर्वस्य ! तथापि सम्बन्धेऽतिप्रसङ्गात् ।
किञ्च —अयं सम्बन्धो वर्त्तमानो वर्णेषु पदादिषु वा वर्त्तेत । तत्र वर्णाः
सन्तो निरर्थकाः; प्रत्येकं तेषामर्थप्रतिपादकत्वाभावात् । नानाप्रयोक्तृप्रयुक्ते-
भ्योऽर्थप्रतिपत्तेश्च व्यतिक्रमप्रयुक्तेभ्यश्च सरो रस इत्यादिभ्यस्तुल्या स्यात्
प्रतिपत्तिः, तत्समुदायस्य चासम्भवः; क्रमेणोपलम्भात् । न च समुदायो नाम
समुदायिभ्यो भिन्नः; अनुपलब्धबाधितत्वात् । तेषां च वाचकत्वादेकस्मादपि
प्रतीतिः स्यात् । प्रत्येकं न चेद् वाचकाः, समुदितेभ्योऽपि तेभ्यो न स्यात्
प्रतीतिः; तदाप्यन्यस्याभावात् ।
अथ क्रमेण वर्णेषु गृहीतेषु तत्संस्कारसहायेनाध्यक्षेण गृहीतादन्त्यवर्णा-
दर्थप्रतीतिः । तत् किमन्य एव वर्णो वाचकः, नान्ये ! तथा चेद् ? व्यर्थं तेषा-
मुच्चारणम् । सर्वेषु प्रतीतेष्वर्थप्रतीतिरिति चेत् ? किमन्यवर्णग्राहिकया बुद्ध्या
सर्वत्र ग्रहणम् ! अन्यान्यबुद्धयैव चेत् ? ताः किं बुद्धयोऽन्त्यवर्णबुद्धिकाले भवन्ति,
येन तदर्थप्रतीतिरुच्यते ! अन्यान्यकाल एवेति चेत् ? यदि ताभिर्वाचका वर्णा
गृह्यन्ते, एकैकवर्णग्रहणेऽप्यर्थप्रतीतिः स्यात् । वाचकेषु सर्वेषु गृहीतेषु प्रती-
तिरिति चेत् ? तदा तु न प्रत्येकं वाचकः, तदतिरिक्तश्च समुदायो नास्ति ।
प्रत्येकं समर्थाः स्थितिबीजादयोऽङ्कुरजनने, न च केवला जनयन्तीति
चेत् ? ये समर्थाः, न तेषां क्षणिकत्वात् पृथग्भाव इत्यसमानम् । समुदिता एव तु
समर्थाः । न त्वेवं वर्णानां कापि समुदायः; क्रमोपलभ्यत्वात् । तदा चेद् ? प्रति-
पादका अवाचका एव । पूर्ववर्णग्रहणसंस्कारेऽपि किमन्यवर्णबुद्धौ सर्वे प्रतिभान्ति ?
न वा ? न तावदुपलभ्यन्ते । ततस्तदुपदर्शमपि व्यर्थम् । सर्वेषु क्रमात् प्रतीतेषु
स्मृतिः समुदायविषया भवतीति चेत् ? किं वर्णानां समुदायोऽस्ति, प्रतीतो वा;

३३२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
अपौरुषेयतापीष्टा कर्तॄणामस्मृतेः किल ॥ २४० ॥
सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः ! ।
कुमारिलमतखण्डनम्
यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ २४१ ॥
यः स्मर्यते केवलं कल्प्यते । कल्पितस्य वाचकत्वाभ्युपगमे न विवादः । तस्मान्न
वर्णे सम्बन्धवृत्तिः ।
पदवाक्यादिषु तर्हि स्यादिति चेत् ? न हि क्रमोच्चारितेभ्यो वर्णेभ्यो
व्यतिरिक्तं पदादिकमुपलभ्यते । केवलं कल्पनाबुद्ध्या क्रमोच्चारितानां वर्णानां
समुदायः कल्पितः पदम् । पदानां च समुदायः कल्पितो वाक्यमुच्यते । तच्च
कल्पितत्वादवस्तु । अवस्तुनि सम्बन्धस्यास्य वस्तुनः कथं वृत्तिः ! न
हि शशविषाणस्य नीलादिधर्मो युक्तः । तदेवं न सम्बन्धो नित्योऽनित्यो वा
युक्त इति स्थितम् ।
वेदवाक्यानामपौरुषेयतापि केनचिन्मीमांसकप्रवरेणेष्टा; कर्तॄणामस्मृतेः
लिङ्गात् किल । अक्षमायां किल-शब्दः । अस्याप्यर्थस्य न्यायाद् दूरमायातस्या-
नुवक्तारः पण्डितम्मन्याः१ सन्ति । तस्यैव तावदीदृशं प्रज्ञास्खलितं कथं
वृत्तमिति सविस्मयानुकम्पञ्चेत् । तदप्यपरेऽनुवदन्तीति निर्दयाक्रान्तभुवनम् !
धिग्व्यापकं तमः ! तथा हि—कर्तुः स्मरणमसिद्धं स्मरन्ति सौगता मन्त्राणां
कर्तॄन् अष्टकादीन्, काणादाश्च विधातारम् । मिथ्या तत्स्मरणञ्चेत् ? कुमार-
सम्भवादेरपि कालिदासादिकर्तृस्मरणं मिथ्येति तदप्यपौरुषेयम् । तत्रैकं स्म-
रणमप्रमाणमन्यच्चान्यथेति नात्र विभागकारणम् । बहूनां सम्प्रतिपत्तिविप्रतिपत्तयश्च
न प्रमाणेतरलक्षणे संवादसत्त्वेन सिध्यतः । ततश्चास्मृतकर्तृकमित्यशक्यनिश्चयम्;
सन्दिग्धविपक्षव्यावृत्तिकत्वात् ।
यदापि वेदानधीयानो यथायमिदानीन्तनो माणवकोऽन्यत उपा-
ध्यायादश्रुत्वा इममुच्यमानं वर्णपदयोः क्रममानुपूर्वीविशिष्टां वेदारूख्यां
१. कुमारिलादयः ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३३३
वक्तुं समर्थः पुरुषस्तथान्योऽपीति कश्चन¹ ।
अन्यो वा रचितो ग्रन्थः सम्प्रदायादृते परैः ॥ २४२ ॥
दृष्टः कोऽभिहितो येन सोऽप्येवं नानुमीयते ।
यज्जातीयो यतः सिद्धः सोऽविशिष्टोऽग्निकाष्ठवत्² ॥ २४३ ॥
अदृष्टहेतुरुपन्यस्तद्भवः सम्प्रतीयते ।
तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥ २४४ ॥
वक्तुमसमर्थः; वेदकपाठकत्वात् । तथाऽन्य उपाध्यायस्तदुपाध्यायोऽपीत्य-
नादिरेष क्रम इति कश्चन मीमांसकः । सर्वस्यैव वेदपाठः परोपदेशादिति
नित्यतैव वेदानाम् ।
तत्राप्याह—अन्यो वा वेदादितरः काव्यादिग्रन्थो रचितः कवि-
प्रभृतिभिः सम्प्रदायादृते उपदेशाद्विना परैरध्येतृभिरभिहितः को दृष्टः,
न कश्चित्, येन परोपदेशेऽसत्यशक्याध्ययनत्वेन सोऽपि काव्यादिरेवं नित्यं
नानुमीयते । तत्रापि हेतुरयं सिद्ध एव । अथ पुरुषेण, तत्करणाविरोधात्
सन्दिग्धव्यतिरेकताऽस्य हेतोः, तदा वेदेऽपि दुष्टत्वमस्याः कथं निवार्यम् ।
अपि च—यज्जातीयो यद्द्रव्यसमानजातीयो यः पदार्थो यतो हेतोः सिद्धः,
अन्वयव्यतिरेकाभ्यां निश्चितः, स तज्जातीयत्वेनाविशिष्टो अन्योऽदृष्टहेतुरपि
तद्धेतुकत्वेन सम्प्रतीयते । किमिव ? अग्निकाष्ठवत् काष्ठकार्यत्वेन वह्नेर्नि-
श्चितत्वात् वह्निदर्शनाददृष्टमपि काष्ठमनुमीयते । न च वैदिकपौरुषेयवाक्यानां
कश्चिद् भेदः; सर्वेषां दुर्भणत्वादीनां मन्त्रादिसामर्थ्यानां च साधारणत्वात् ।
इदानीं वेदकरणसमर्थपुरुषादर्शनं भारतादिष्वपि समानम्, ततोऽसत्य-
वान्तरभेदे भेदाद्धेतूपन्यासो न युक्तः । सति तु वस्तुतः तत्र साधनीकृते
वस्तुन्यवान्तरभेदे भेदमप्रदर्श्य कार्यसामान्यस्य विजातीयव्यावृत्तिमात्रस्य
१. “वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा” ॥ ( श्लो० वा०, वाक्याधि० ३६६ )
इति दूषयन्नाह आचार्यः ।
२. स तस्मादग्निकाष्ठवत्—पाठा० ।

हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः ।
सर्वथाऽनादिता सिध्येदेवं नापुरुषाश्रयः ॥ २४५ ॥
तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः ।
म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥ २४६ ॥
अनादित्वाद् तथाभावः;
पूर्वसंस्कारसन्ततेः ।
दर्शनात् । ये हेतवः—"यद्वेदाध्ययनं तद्वेदाध्ययनपूर्वकम्, न करणपूर्वकम्,
यथा यः पथिकाग्निः स ज्वालापूर्वको नारणिन्निर्मथनपूर्वकः¹" इत्यादयः
प्रवितन्यन्ते विस्तार्यन्ते, सर्वे ते व्यभिचारिणोऽनैकान्तिकाः; न हि वेदाध्य-
यनमित्येवाध्ययनपूर्वकं कृत्वा करणपूर्वकस्याप्यध्ययनस्योपपत्तेः, अरणिन्निर्मथनस्य
च वह्नेर्भावाविरोधात् ।
भवतु वा । एवं वेदाध्ययनमध्ययनपूर्वतासाधनम्, तथापि सर्वथाऽना-
दिता वेदाध्ययनस्य सिध्येत् डिम्भकपांशुकीडादीनामिव । नापुरुषाश्रयः
पुरुषाश्रयणाभावस्तु न सिध्येत् । डिम्भकपांशुकीडादयो हि दर्शनपूर्वका अनाद-
यश्च । न चापौरुषेयाः; डिम्भकैरेव क्रियमाणत्वात् । एवं शब्दा अप्यध्येतृभिरेव
क्रियन्ते, न तु स्वयमात्मानं ध्वनयन्ति येनापौरुषेयाः स्युः । अनादिस्तादृक्
करणक्रमः; पुरुषपरम्पराया अनादेरागतत्वात् ॥ २४५ ॥
अथानादित्वादेवापौरुषेयता ? इत्याह—तस्मादनादित्वादपौरुषेयत्वे साध्ये
स्यादन्योऽप्यपौरुषेयोऽनराश्रय इति प्रसङ्गः ।
तमेवाह—म्लेच्छादेर्व्यवहाराणां मातृविवाहमुक्तिप्रापणमारणादीनां
नास्तिक्यवचसामपि परलोककर्मफलाद्यपवादिनामनादित्वात् तथाभावोऽपौ-
रुषेयत्वं स्यात् ।
यदि पौरुषेयाः, कथमनादयः ? इत्याह—पूर्वसंस्कारादनादेः सन्ततेः
सन्तानेन प्रवृत्तेः। अथानादित्वात् म्लेच्छादिव्यवहाराणाम्नापौरुषेयतास्तु ? इत्याह—
१. नावारणि०—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३३५
तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ॥ २४७ ॥
अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः ।
अन्याविशेषाद् वर्णानां साधने किं फलं भवेत् ॥ २४८ ॥
वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः ।
अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ २४९ ॥
अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ।
प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना ॥ २५० ॥
एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् ।
तादृशे म्लेच्छादिव्यवहारसाधारणेऽपौरुषेयत्वे सिद्धेऽपि को गुणोऽविसंवा-
दकलक्षणो भवेद् । पौरुषेयवाक्यानां विसंवादादर्शनादपौरुषेयत्वमिष्टम्, स च
तस्मिन्नपि सति म्लेच्छादिव्यवहाराणामिव दुष्परिहरः ॥ २४६-२४७ ॥
अथ वेदवाक्यानामेवानादित्वादपौरुषेयत्वम् ? तदा अर्थस्य संस्कारो
व्याख्यानं तस्य भेदानां विकल्पानां प्रकृतिप्रत्ययानेकार्थत्वात् रूढेर्निरुक्ता-
दिभ्यश्च यथाप्रतिभं पुंसां दर्शनात् संशयोऽर्थनिश्चयाभावः ।
कस्य चापौरुषेयत्वमिष्टम्—किं वर्णानाम्, उत पदवाक्यानाम् ? इत्याह—
अन्यैर्लौकिकैर्वर्णैर्वैदिकानां वर्णानामविशेषात् प्रत्यभिज्ञायमानत्वेनैकत्वादपौरु-
षेयत्वस्य साधने किं फलं भवेत् ; तथात्वे लौकिकानामप्यर्थव्यभिचारात् ॥ २४८ ॥
वाक्यं पदं च वर्णेभ्यो भिन्नं न विद्यते; अनुपलम्भात्, तत् कथमस्या-
पौरुषेयत्वं साध्यम् ? अभिन्नं चेत्, तदानेकावयवात्मत्वे वाक्यस्य तेषामवय-
वानां पृथक् प्रत्येकं निरर्थकतेति पदात्मकमनर्थकमेव स्यात् । ततश्चातद्रूपेऽ-
वाचकरूपे ताद्रूप्यं वाचकत्वं कल्पितं कल्पनाबुद्धिनिर्मितं माणवकादाविव
सिंहतादि । ततः पौरुषेयमेव वाचकत्वं स्यादिति प्रस्तुतक्षतिः ।
अथ प्रत्येकमवयवानां सार्थकत्वम् ; तदा—प्रत्येकं सार्थकत्वेऽपि मिथ्या-
नेकत्वस्यानेकावयवात्मकस्य कल्पना, एकस्मादर्थप्रतीतेः ॥ २४९-२५० ॥
तथैकस्यावयवस्य गत्या वाक्यार्थस्य प्रतिपत् प्रतीतिर्भवेत् ; एकस्यापि
वाचकत्वात् । तत्समुदायो वाचक इति चेत् ? स किं तेभ्यो भिन्नः, स च प्रत्युक्तः ।

३३६ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
सकृच्छ्रुतौ च सर्वेषां कालभेदो न युज्यते ॥ २५१ ॥
स्फोटनिरसनम्
एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् ।
अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ! ॥ २५२ ॥
नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात् ।
अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः ॥ २५३ ॥
अवयवा मिलिताः समुदाय इति चेत् ? स च न सम्भवत्येव । तद् यदि प्रत्येकं
वाचकत्वमेव ? तदैषां प्रत्येकं वाचकत्वे चैकस्मादपि स्यादर्थप्रतीतिः ।
अथ एकावयवगत्या ऽर्थप्रतिपत्तेरवयवान्तरवैफल्यदोषात् सर्वावयवानां सकृ-
च्छ्रुतिरिष्यते ? तदा सर्वेषामवयवानां सकृच्छ्रुतौ चाभिमतायामवयवश्रवणस्य
कालभेदो न युज्यते, दृश्येत च ॥ २५१ ॥
अथानवयवमेकं वर्णेभ्यो व्यतिरिक्तं स्फोटरूपं वाक्यम्, तच्च क्रमवद्भि-
र्नियतानुपूर्वीकैर्ध्वनिभिः क्रमेण व्यज्यते । व्यञ्जक्यनुक्रमेणैव च क्रमवत् प्रतीयते,
तद्रूपाविभागेन नादरूपाणां वर्णानां ग्रहणात् वर्णविभागवच्च लक्ष्यते । वस्तु-
तस्तथारहितमपीति केचित् ।
तदेकत्वेऽपि ह्यभिन्नस्यानवयवस्य स्फोटरूपस्य वाक्यस्य प्रथमध्वनिनापि
व्यक्तत्वात् क्रमशो गतेः प्रतीतेरसम्भवात् सकृत्प्रतीतिप्रसङ्गः । यदि प्रथम-
व्यक्तौ न प्रतीतिः, अपरास्वपि न स्यात्; तदेकव्यञ्जकत्वाद् व्यक्तीनाम् ।
किञ्च - वाक्यं तन्नित्यम्, अनित्यं वा स्यात् ? यद्यनित्यम्, पौरुषेयं
कथं न तत्; यत्नसम्भवात् घटादिवत् ॥ २५२ ॥
नित्यत्वेऽप्युपलब्धिर्नित्या भवेत् । वाक्यानामनावरणसम्भवात् आव-
रणायोगात् । यदि नित्यं कदाचिदुपलभ्यते, तदा तस्यानावृतस्वभावताऽभ्युप-
गन्तव्या । तादृशं नित्यमुपलभ्येताभिमतकाल इव । आवृतस्वभावे तु सर्वदाऽ-
नुपलम्भः स्यात् । तस्मात् कालभेदेनोपलभ्यानुपलभ्यस्वभावत्वादेकस्य नाशादन्य-
स्योदय इति स्यात् । तथा च नित्यत्वक्षतिः ।
एकस्वभाव एव शब्दः, परं कस्यचित् सहकारिणो ज्ञानजनकस्य

विचारः ] स्वार्थानुमानपरिच्छेदः ३३७
काममन्यप्रतीक्षाऽस्तु¹, नियमस्तु विरुध्यते ।
सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि ॥ २५४ ॥
सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि ।
संस्कृतस्योपलम्भे च कः संस्कर्त्ताऽविकारिणः ॥ २५५ ॥
इन्द्रियस्य² स्यात्² संस्कारः शृणुयान्निखिलं च तत् ।
संस्कारभेदभिन्नत्वादेकार्थनियमो³ यदि ॥ २५६ ॥
वैकल्यादश्रुतिरिति चेत् ? ॥ २५३ ॥
काममन्यस्य सहकारिण उपकारस्य प्रतीक्षापेक्षणमस्तु, नियमः पूर्वा-
परैकस्वभावतावरणं तु शब्दानां विरुध्यते । न ह्येकस्वभावः, परमपेक्षते चेति
क्षमम्; उपकारकस्यापेक्षणीयत्वात्, उपकारान्तरस्य च स्वभावान्तरलक्षणत्वात् ।
अपि च शब्दा अव्यापिनः, व्यापिनो वा स्युः ? तत्र यद्यव्यापिता,
तेषां सर्वत्र देशेऽनुपलम्भः स्यात् । न ह्येकदेशस्थितः शैलः सर्वत्रोपलभ्यते ।
योग्यतातिशयलाभाद् व्यञ्जकेभ्यो दृश्यत एवेति चेत् ? एवं तर्हि सर्वैः सर्व-
देशस्थैरुपलभ्येत ॥ २५४ ॥
तथा व्यापिता यदि ? सर्वेषां शब्दानां युगपदुपलम्भः स्यात्;
व्यापित्वात् सर्वेषां सर्वत्र भावात् ।
अथ व्यापित्वेऽपि य एवाभिव्यक्त्या संस्कृतः स एवोपलभ्यते, नेतरः ।
संस्कृतस्य चोपलम्भे च स्वीक्रियमाणे नित्यत्वादविकारिणः कः संस्कर्त्ता
नाम ! न ह्यनुपकुर्वन् संस्कर्त्ता, अनुपकार्यो वा संस्कार्यः ॥ २५५ ॥
अथेन्द्रियमनित्यत्वात् संस्कार्यम्, ततः संस्कृत एव पश्यति नान्य इति
विभागः ? सत्यम्, इन्द्रियस्य स्यात् संस्कारः; किन्तु तदिन्द्रियं निखिलं
च शब्दग्रामं शृणुयात्, न त्वेकशब्दम् ।
संस्कारस्य शब्दविषयस्य भेदात् प्रतिनियमाद् भिन्नत्वादिन्द्रियसंस्का-
१. काममन्यप्रतीक्षोक्तिः—रा० ।
२-२. इन्द्रिये स्याद्धि—पाठा० ।
३. संस्कारभेदाद् भिन्न०—रा० ।
प्र० वा० : २२

३३८ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
अनेकशब्दसंघाते श्रुतिः कलकले कथम् ? ।
ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः ॥ २५७ ॥
ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमति¹ बह्विदम्¹ ।
स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ २५८ ॥
कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् ।
ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः ॥ २५९ ॥
ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते ! ।
राणामेकस्मिन्नर्थे शब्दे नियमः श्रुतिर्यदीष्यते तदानेकशब्दसंघाते कलकले
श्रुतिरनेकेषां शब्दानां कथं संस्कारप्रतिनियमादिन्द्रियं नानेकशब्दग्राहि स्यात् ।
अथ तत्र कलकले ध्वनयः शब्दव्यञ्जकाः केवलं श्रूयन्ते, न
वाचकाः शब्दाः ? ॥ २५७ ॥
ध्वनिभ्यः श्रूयमाणेभ्यो भिन्नं शब्दरूपमस्तीति यत्किञ्चिदिदमति
श्रद्धेयम् । श्रद्धावशाद् यच्चेतदङ्गीक्रियते, न तु प्रमाणबलात् ।
किञ्च—कलकले ध्वनिमात्रं यदि श्रूयते, न शब्दः, तदा बहूनां व्याह-
र्तॄणां तूष्णीम्भावादन्येष्वप्येषु शब्देषु स्थितेषु एकस्मिन् पुरुषे व्याहरति कथं
वाचकः श्रूयते, कलकल इव ध्वनिमात्रश्रुतिस्तदापि स्यात् । अथ वाचकस्यो-
लब्धिप्रत्ययभावादुपलब्धिः, तदा कलकलेऽपि स्याद्; विशेषाभावात् ॥ २५८ ॥
यदि चेन्द्रियाणां संस्कारविशेषाच्छब्दविशेषोपलब्धिप्रतिनियमः, तदा²
शक्तिनियमादिन्द्रियाणां कथं भिन्नध्वनिगतिर्भवेत् । शब्दविशेषवद् ध्वनि-
विशेषस्यैव ग्राहकमिन्द्रियं स्यात्, तत् कथं कलकलध्वनिप्रतीतिः ।
किञ्च—यैः कैरपि दोषैर्ध्वनयोऽवाचकाः सम्मताः, ते दोषा
व्यज्यमानेऽपि वाचकेऽस्मिन् कथं न भवन्ति । तथा हि—यथा प्रत्येकम्-
वाचकत्वाद् , वाचकत्वे वा ध्वन्यन्तरवैफल्यात् साहित्याभावाच्च ध्वनयोऽवाचकाः;
तथा ध्वनिभिः प्रत्येकं वाचकानभिव्यक्तेरभिव्यक्तौ वा ध्वन्यन्तरे वैफल्यात्
साहित्याभावाच्च नाभिव्यज्येत शब्दः । अनभिव्यक्तश्च कमर्थं प्रतिपादयेत् !
१-१. ०मविवक्षितम्—रा० ।
२. ०शक्तिनियमस्तदा—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३३९
वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥ २६० ॥
तेषां च न व्यवस्थानं क्रमान्तरविरोधतः ।
देशकालक्रमाभावो व्याप्तिनित्यत्यत्ववर्णनात् ॥ २६१ ॥
अनित्याव्यापितायां च दोषः प्रागेव कीर्त्तितः ।
व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः ॥ २६२ ॥
वर्णानामानुपूर्वी परिपाटिविशेषो वाक्यम्, तच्चोपलभ्यत एवेति चेत् ?
न; वर्णानामानुपूर्व्या अभेदतः । न हि वर्णेभ्यो भिन्ना आनुपूर्वी प्रतीति-
विषयः । ततश्च वर्णा एव वाक्यमिति स्यात् । तेषां च लोकवेदयोर्न विशेष
इति सर्वत्र प्रामाण्यम्, अथाप्रामाण्यम् वा स्यात् ॥ २५९-२६० ॥
अथ विशेषानुपूर्वीका वर्णा एव वेदवाक्यम्, नेतरः ? इत्याह—तेषां च
वर्णानां न व्यवस्थानक्रमनियमः । क्रमान्तरस्य लौकिकस्य विरोधतः ।
तथा हि—वर्णवेदानुपूर्वी नित्या, न च वर्णा बहवः सन्ति, समानजातीया वा;
एकत्वाद् वर्णस्य । ततश्चाग्निरित्येवाकारगकारनकारानामानुपूर्वीविशिष्टः स्यात्,
नगमित्यन्यथा न भवेत् । कृतकानामपि बीजाङ्कुरपत्रादीनामृतुसंवत्सरादीनां
विशिष्टानुपूर्वी नान्यथा भवति, किं पुनर्नित्यानाम् !
सा चेयमानुपूर्वी वर्णानां देशकृता वा पिपीलिकानामिव पंक्तौ स्यात्,
कालकृता वा बीजाङ्कुरादीनामिव; द्वयोरपि देशकालक्रमयोरभावः; वर्णानां
व्याप्तिनित्यत्वयोर्वर्णनाद् अन्योन्यदेशपरिहारेण । वृत्तिर्हि देशपौर्वापर्यम्,
तच्च सर्वगानामसम्भवि । तथान्योन्यकालपरिहारेण वृत्तिः कालपौर्वापर्यं च
नित्यानामसम्भवि ॥ २६१ ॥
अथानुपूर्वीसमर्थनार्थमनित्यताऽव्यापितेष्यते ? अनित्याव्यापितायां च
दोषः प्रागेव उक्तः (प्र० वा० ३.२५२) । अनित्यत्वे पौरुषेयता, अव्यापित्वे
च सर्वत्रोपलब्धिश्च न स्यात् । इति नित्यव्यापिनामपि शब्दानां व्यक्तेरभिव्यक्तेः
प्रतिनियतदेशकालायाः क्रमो वाक्यं न युक्तः; नित्यस्य व्यक्तिनिराकृतेः
“ज्ञानोत्पादनहेतूनाम्” (प्र० वा० ३.२३५) इत्यादिना ॥ २६२ ॥

३४० प्रमाणवार्त्तिके [ अपौरुषेयत्व-
व्यापारादेव तत्सिद्धेः करणानां च कार्यता ।
स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः ॥ २६३ ॥
यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् ।
करणानां समग्राणां व्यापारादुपलब्धितः ॥ २६४ ॥
नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् ।
तद्रूपावरणानां च व्यक्तिस्ते विगमो यदि । २६५ ॥
अभावे करणग्रामसामर्थ्यं किं नु¹ तद्भवेत् ।
शब्दाविशेषादन्येषामपि व्यक्तिः प्रसज्यते ॥ २६६ ॥
तस्मात् करणानां व्यापारादेव तेषां वर्णानां सिद्धेः कार्यतैषां युक्ता,
न व्यङ्ग्यता ।
किञ्च—सिद्धे विद्यमानेऽर्थे स्वज्ञानेन कारणेनान्यस्य ज्ञानहेतुर्व्यञ्जको
मतः । प्रदीपो घटस्य यथा ॥ २६२ ॥
अन्यथा वापीति यदि व्यङ्ग्यः प्राक् सिद्धो न भवेत्, तदास्य व्यञ्जकस्य
कारकाद्धेतोः को विशेषः, न कश्चित्; अपूर्वप्रतिपत्तिहेतुत्वाविशेषात् ।
तथा—करणानां समग्राणां व्यापारात् नियमेनोपलब्धितश्च²
कार्यत्वमेव; वर्णानां व्यञ्जके दीपादौ तस्य व्यङ्ग्योपलब्धिनियमस्या-
सम्भवात् । न हि दीप इत्येव घटप्रतीतिः, करणसामग्र्यं तु कार्यमवश्यं
भावयतीति करणसामग्र्ये नियतोपलम्भस्य कार्यतैव ।
तेषां वर्णानां रूपस्य स्तिमितवायवीयावयवसंयोगरूपाणामावरणानां
प्रयत्नप्रेरितेन वायुना विगमो यदि व्यक्तिस्ते मीमांसकस्येष्टा, तदा पूर्वा-
वस्थात्यागे नातिशयो न व्यक्तिः; अनित्यत्वासक्तेः ॥ २६३-२६५ ॥
उपलम्भावरणविगमो वा शब्दालम्बनं ज्ञानं वा व्यक्तिः स्यादिति ? अत्राह—
कार्यं व्यक्तिरशक्या, यस्मादावरणविगमेऽभावे नीरूपे करणग्रामस्य किं नु तत्
सामर्थ्यं भवेत् । क्वचित् कर्त्तव्ये सामर्थ्यं स्यात्, न तु कर्त्तव्याभावे । यदि
समस्तकार्यत्वसम्भवेऽपि शब्दानां न कार्यता, तदा शब्दादविशेषादन्यव्यापारा-
१. न—पाठा० । २. नियमोपलब्धितश्च—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३४१
तथाभ्युपगमे सर्वकारकाणां १ निरर्थता ।
साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥ २६७ ॥
अनुदाहरणं सर्वभावानां क्षणभङ्गतः ।
दूष्यः कुहेतुरन्योऽपि;
बुद्धेरपुरुषाश्रये ॥ २६८ ॥
बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् ।
आनुपूर्व्याश्च वर्णेभ्यो भेदः स्फोटेन चिन्ततः ॥ २६९ ॥
न्तरादुपलभ्यमानत्वनियमेनान्येषां घटादीनामपि व्यक्तिः प्रसज्येत, कार्यता
न स्यात् ॥ २६६ ॥
तथाभ्युपगमे च सर्वेषां कारकाणां व्यञ्जकाभिमतानां निरर्थकता ।
उत्पादकं हि कारणमिष्यते, न तु व्यञ्जकं शब्दानामिव ।
यच्च नित्यत्वसिद्धये वर्णानां प्रत्यभिज्ञानं सत्प्रयोगः, आदिशब्दादुच्चा-
र्यमाणत्वादि, साधनं मतं सन्नेव हि प्रयुज्यते, यथा वास्यादि च्छिदायाम्,
ततः प्रयोगात् प्रयोगेऽपि विद्यमानत्वाद् वर्णा नित्या एव; तदनुदाहरणं
दृष्टान्तविकलम्; सर्वेषां भावानां क्षणभङ्गतः ।
अनयैव दिशा परैरुच्यमानः कुहेतुरन्योऽपि दूष्यः ।
अथ बुद्धिरभिव्यक्तिर्वर्णानाम्, सा च क्रमवती वाक्यमिष्टम्, तदा वाक्यस्या-
पौरुषेयत्वेनेष्टत्वाद् बुद्धिरपौरुषेयी स्यात् । तत्र बुद्धेरपुरुषाश्रये पुरुषानाश्रयणे
बाधा । कैः ? इत्याह—अभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् एककालमेव
बुद्धेरपुरुषाश्रयत्वस्याभ्युपेतेन पुरुषगुणत्वाभ्युपगमेन प्रत्यक्षप्रतीतेन च पुरुष-
कार्यत्वेन, तत्प्रयत्नकार्यत्वेन वा कादाचित्कत्वानुमितेन कार्यत्वेन च बाधा ।
वर्णानामानुपूर्वी वाक्यं स्याद् ? इत्याह—वर्णेभ्य आनुपूर्व्या भेदश्च
स्फोटेन चिन्तितेन “एकत्वेऽपि २ ह्यभिन्नस्य क्रमः” (प्र० वा० ३. २५२)
इत्यादिना चिन्तितः । न हि वर्णेभ्यो व्यतिरिक्ता आनुपूर्वी काचिदुपलभ्यते ।
१. ०कारणानां—पाठा० । २. एकत्वेन—रा० ।

३४२ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
कल्पनारोपिता सा स्यात् कथं वाऽपुरुषाश्रया ।
सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः ॥ २७० ॥
अग्नेरर्थान्तरोत्पत्तौ¹ भवेत् काष्ठस्य दर्शनम्¹ ।
अविनाशात् स, एवास्य विनाश इति चेत्, कथम् ॥ २७१ ॥
अन्योऽन्यस्य² विनाशोऽस्तु² काष्ठं कस्मान्न दृश्यते ।
अभेदपक्षे च सरो रस इत्यादौ प्रतिपत्तेर्भेदाभावप्रसङ्गः, प्रकारान्तरस्य
चाभावः ॥ २६७-२६९ ॥
तस्माद् वस्तुभूतानुपूर्व्याऽयोगात् कल्पनारोपिता सा स्यात् । तथा
चापुरुषाश्रया कथमुच्यते !
कथं पुनरवगम्यते ध्वनिरवश्यमनित्यः ? इत्याह—सत्तामात्रानुबन्धित्वा-
न्नाशस्य ध्वनेरनित्यता । न खल्वसतामन्यस्मान्नाशोत्पत्तिः, स्वहेतोरेव तु
विनश्वरस्वभावतयोत्पन्ना भावा विनश्यन्ति । विनाशो हि क्रियमाणो भावाद्
व्यतिरिक्तो वा भवेत्, अव्यतिरेकपक्षे भाव एव क्रियत इति स्यात् । तच्चा-
शक्यक्रियम्; उत्पन्नत्वात् ॥ २७० ॥
व्यतिरेकेऽप्यग्नेः सकाशात् अर्थान्तरस्य विनाशाख्यस्योत्पत्तौ काष्ठस्य
दर्शनं भवेद्; अविनाशात् ।
स एवाग्निजन्माऽर्थोऽस्य विनाशस्तेनादर्शनमिति चेत् ? कथमन्योऽ-
र्थोऽन्यस्य विनाशो युक्तः । एवं ह्यतिप्रसङ्गः स्यात् । काष्ठेऽग्निकृतः स्वभावः,
विनाशो न सर्व इति चेत् ? काष्ठविनाशयोः कः सम्बन्धः ! नाश्याश्रयिभावः ?
निषेत्स्यमानत्वात् । कार्यकारणभावश्चेत् ? अग्नेरपि स विनाशः स्यात्; तस्यापि
कार्यत्वात् । तस्मान्न भावान्तरमर्थस्य नाशः । अस्तु वा नाशः काष्ठं चेद् ?
अप्रच्युतप्राचीनस्वभावं कस्मान्न दृश्यते !
ननु योऽसावर्थान्तरस्वभावो वह्निकृतः, स काष्ठस्य नाशो नाशरूपतया
प्रतीतेः । विनाशश्चाभावः, यश्चाभावः स काष्ठविरोधिरूप एव क्रियते । न
१-१. कारिकांशोऽयं रा० पुस्तके नास्ति ।
२-२. अन्योऽर्थोऽन्यस्य नाशोस्तु—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३४३
तत्परिग्रहस्तश्चेन्न तेनानावरणं यतः ॥ २७२ ॥
चायमर्थान्तरत्वाद् घटवद् विरोधरूपतया कर्तुमशक्यः । न हि घटवदर्था-
न्तरत्वाद् धूमोऽग्निकार्यो न भवति । तस्माद् यथार्थान्तररूपोऽपि धूमोऽग्निना
क्रियते, तथा विरोधरूपोऽपि विनाशीक्रियेत । ययोश्च परस्परपरिहारेण विरोधः,
तयोरेकभाव एवापरस्परस्यादर्शनमिति कथमग्निकृतस्यार्थान्तरस्य विनाश-
संज्ञितस्य विरोधिनो भावे काष्ठस्य दर्शनमुच्यते ?
अत्रोच्यते—योऽसावर्थान्तरस्वभावो नाशस्तेन सह काष्ठस्य को विरोधः ?
यदि सहानवस्थानलक्षणः; सम्भाव्यत एव, तद्भावयोर्निवर्त्यनिवर्त्तकभावदर्शना-
दग्निशीतयोरिव । किन्तु भावान्तरस्य यदि काष्ठविनाशकत्वम्, स च नाशः
किमर्थान्तरनिवृत्तिः ? अर्थान्तरत्वे तुल्यः प्रसङ्गः । निवृत्तिश्च निःस्वभावा, न तत्र
हेतुव्यापार इति वक्ष्यते । परस्परपरिहारस्थितिलक्षणश्चेद् विरोधः । एवमप्यति-
प्रसङ्गः । यथा काष्ठाद् भिन्नमभिमतपदार्थान्तरम्, तथान्यदपि घटादिकमिति
तदपि काष्ठस्य विनाशः स्यात् ।
ननु य एव काष्ठस्य नाशरूपतया विरोधिरूपतया च स्वहेतुभिः क्रियते
स एव नाशः, न तु यः कश्चिदर्थ इति कथमतिप्रसक्तिः ? तदप्ययुक्तम्;
परस्परपरिहारेण हि विरोधी नाश इष्टः, स च परस्परपरिहारोऽभिमतपदार्थवद्
घटादीनामपीति न विशेषः । अथ य एव काष्ठनिवृत्तिरूपः स एव तन्नाशः,
नान्यः । किमिदं निवृत्तिरूपत्वं काष्ठादन्यत्वम्, निवृत्तिमात्रात्मकत्वं वा ?
अन्यत्वं चेत्, तदितरस्यापि समानम् । निवृत्तिमात्रात्मकत्वं च भावान्तरस्यायुक्तम्;
स्वभावाविशेषवत्त्वात् । यदुत्पत्तौ यन्निवृत्तिः स विरोधी नाशश्चेति चेत् ? अन्या
तर्हि विनाशान्निवृत्तिः । तत्र च समानः सर्व एव प्रसङ्गः । तस्मात् काष्ठं
स्वरसनिरोधितया निवर्त्ततेऽग्निकाष्ठादिसामग्र्यास्त्वङ्गारादिकं जायत इति युक्तम् ।
अर्थान्तरस्वभावे तु सति नाशे काष्ठं कस्मान्न दृश्यत इत्यनिवार्यः प्रसङ्गः ।
तेन विनाशाख्येन भावान्तरेण परिगृहीतोऽवष्टब्धत्वात् काष्ठादर्शनमिति
चेत् ? न तेन भावान्तरेण काष्ठस्यानावरणं यतस्ततः काष्ठस्यापरिग्रहः ॥२७२॥

३४४ प्रमाणवार्त्तिके [ अपौरुषेयत्व-
विनाशस्य विनाशित्वम्;
स्यादुत्पत्तेस्ततः पुनः ।
काष्ठस्य दर्शनम्;
हन्तृघाते चैत्रापुनर्भवः ॥ २७३ ॥
यथात्राप्येवमिति चेत् हन्तुनार्मरणत्वतः ।
अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु ॥ २७४ ॥
तस्य^१ सत्त्वादहेतुत्वं^१ नातोऽन्या विद्यते गतिः ।
अहेतुत्वेऽपि नाशस्य नित्यत्वाद् भावनाशयोः ॥ २७५ ॥
सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ! ।
न हि नाशो वस्त्रावरणम्; अविनाशित्वप्रसङ्गात् । न च पूर्वापरैकस्वभा-
वस्यावरणं युक्तमित्युक्तम् ।
किञ्च—भावान्तरभूतस्य नाशस्य यद्युत्पत्तिरिष्यते, तदोत्पत्तिलिङ्गाद्
विनाशित्वं नाशस्य स्यात्, घटादिवत् । ततः काष्ठनाशस्य नाशात् पुनः
काष्ठदर्शनं भवेत् ।
ननु चैत्रस्य हन्तुर्व्याघाते कृते चैत्रस्य पुनर्भवो^२ नास्ति यथा,
तथात्रापि काष्ठनाशनिवृत्त्या न काष्ठपुनर्भाव इति चेत् ? न; हन्तुरमरण-
त्वतः । न हि हन्ता मरणं चैत्रस्य; किन्त्वन्य एवेन्द्रियायुर्निरोधः, येन हन्तृ-
मरणे न चैत्रपुनरुज्जीवनप्रसङ्गः । यदि त्विन्द्रियादिनिरोधनिवृत्तिः स्यात्, स्यादेवो-
ज्जीवनम् । तच्च तन्मते प्राप्तम्; निरोधस्योत्पत्तिभावयोरिष्टत्वात् ।
अथ न भावाद्भिन्नो नाशः, किं तर्हि ? अभिन्नः । अनन्यत्वे विनाशस्य
नाशः काष्ठमेव तु स्यात्; तस्य काष्ठस्याग्निसन्निधानात् प्रागेव सत्त्वाद-
हेतुत्वं नाशकाभिमतस्य । नातो भेदाभेदप्रकारादन्या गतिरुत्पत्तिमतोऽस्ति ।
द्विधापि च नाशहेत्वयोगः ।
अहेतुत्वेऽपि नाशस्य नित्यत्वादाकाशादिवत् भावनाशयोरन्योन्या-
भावस्वभावयोः सहभावप्रसङ्गश्चेत् ? ननु नाशस्यासतो नीरूपत्वान्नित्यता कुतः ! ।
१-१. तस्यासत्त्वा०—रा० । २. पुनर्भावो—रा० ।