प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 387, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] स्वार्थानुमानपरिच्छेदः ३६१
ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम् ।
निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् ॥ ३३४ ॥
विरुद्धमागमापेक्षेणानुमानेन वा वदत् ।
विरोधमसमाधाय शास्त्रार्थं चाप्रदर्श्य सः ॥ ३३५ ॥
सत्यार्थं प्रतिजानानो जयेद् धाष्टर्येन बन्धकीम् ।
सिद्ध्येत् प्रमाणं यद्येवम्, अप्रमाणमथेह किम् ॥ ३३६ ॥
न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ।
नायं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः ॥ ३३७ ॥
वदत्, वस्तुतोऽतीन्द्रियान् गुणकर्मसामान्यादीन् ऐन्द्रियान् प्रत्यक्षाद् वदत्,
तथा भावानां विषमं हेतुं प्राग्जनकं वदत्, तथा विषमां स्थितिं निष्प-
न्नानां भावानामाश्रयवशेन स्थितिं वदत्, निवृत्तिञ्च विषमां स्वतोऽनश्वर-
स्वभावानामन्यकृतां निवृत्तिं वदत्, अन्यद्वा वस्तु व्यस्तगोचरं प्रमाणाभ्यां
प्रत्यक्षानुमानाभ्यां निरस्तावकाशं वदत्, आगमापेक्षेणागमसिद्धलिङ्गत्रैरूप्येणा-
नुमानेन च विरुद्धमग्निहोत्रस्नानादेः पापशमनं वदत् । न हि रागादिप्रभवो
धर्मस्तदपनयनमन्तरेण स्नानादेर्निवृत्तिमर्हति । एवं विधविसंवादभाजमर्थं वदत्
शास्त्रं विरोधं प्रामाणिकमसमाधाय अपरिहृत्य प्रवृत्तिकामोचितं शास्त्रार्थमनु-
गुणोपायं पुरुषार्थलक्षणञ्चाप्रदर्श्य स जरन्मीमांसक एकदेशसंवाददर्शनात्
सत्यार्थं प्रतिजानानो धाष्टर्येन बन्धकीं साक्षाद् दृष्टव्यलीकां स्वपतिं
स्वशीलप्रामाण्योद्भावनेन भ्रान्तमावेदयन्तीं जयेत् ।
किञ्च—यद्येवम्, दृष्टैकदेशसंवादस्यावयवत्वादन्यदपि प्रमाणं सिद्ध्येत्,
अथेह न्याये किमप्रमाणं शास्त्रं भविष्यति ! ॥ ३३६ ॥
न हि बहुभाषिणि पुरुषे सत्यार्थमेकं वचो नास्ति, किन्त्वस्त्येव ।
तेनैव दृष्टान्तेन तद्वचनं प्रमाणं स्यात् ।
नायं ध्वनिर्वस्तूनां स्वभावः, कार्यं वा; यस्माद् वक्तरि ध्वनिर्भवति ।
न हि वस्तुनः स्वभावोऽन्यत्र धर्मिणि वर्त्तते, कार्यं वाऽन्यतो भवितुमर्हति
॥ ३३७ ॥