न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
महर्षि गौतम / महर्षि वात्स्यायन द्वारा
स्रोत: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (उद्गम)
प्रमाणचतुष्ट्वपरीक्षाप्रकरणम् [ १-१२ ]
१३६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
नित्यत्वम् । आप्तप्रामाण्याच्च प्रामाण्यम् । लौकिकेषु शब्देषु चैतत् समान-
मिति ॥ ६९ ॥
इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य प्रथमाह्निकम्
[ द्वितीयाह्निकम् ]
प्रमाणचतुष्ट्वपरीक्षाप्रकरणम् [ १-१२ ]
[ पूर्वपक्षः ]
अयथार्थः प्रमाणोद्देश¹ इति मत्वाऽऽह—
न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥ १ ॥
न चत्वार्येव प्रमाणानि, किं तर्हि ? ऐतिह्यम्, अर्थापत्तिः, सम्भवः, अभावः—
इत्येतान्यपि प्रमाणानि, तानि कस्मान्नोक्तानि ?
'इति होचुः' इत्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम्— ऐतिह्यम् ।
रहना ही वेदों का नित्यत्व है। आप्तप्रामाण्य होने से उनका प्रामाण्य है—यह बात
लौकिक वैदिक उभयविध शब्दों में समान है ॥ ६९ ॥
वात्स्यायनीय न्याय(भाष्यसहित न्यायदर्शन) के द्वितीय अध्याय का प्रथम आह्निक समाप्त
सिद्धान्ती का किया हुआ प्रमाणों का नाम से परिगणन यथार्थ नहीं, ऐसा मानकर
पूर्वपक्षी कहता है—
केवल चार ही प्रमाण नहीं; अपितु ऐतिह्य, अर्थापत्ति, सम्भव, अभाव भी
प्रमाण हैं ? ॥ १ ॥
शङ्का—चार ही प्रमाण नहीं; बल्कि ऐतिह्य, अर्थापत्ति, सम्भव, अभाव—ये भी
प्रमाण हैं, इनका परिगणन क्यों नहीं किया ?
'ऐसा किन्हीं ने कहा था'—यों वक्ता का नामनिर्देश न होते हुये जो प्रवाद—
(जनश्रुति) परम्परा चली आती है, 'उसे 'ऐतिह्य' कहते हैं ।
१. प्रत्यक्षमेकं चार्वाकाः, कणादसुगतौ पुनः ।
अनुमानं च तच्चापि साङ्ख्याः शब्दश्च ते उभे ॥
न्यायैकदेशिनोऽप्येवमुपमानं च केचन ॥
अर्थापत्त्या सहैतानि चत्वार्याहुः प्रभाकराः ।
अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा ।
सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥
इत्यभियुक्तोक्त्या प्रमाणविभाजकसंख्यायां संशय इति भावः ।