सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 188, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 188

१३६ मीमांसादर्शनम् [ सू०
करणेन तदाक्षिप्तफलविधिप्रतिपादनाद्विध्यर्थवादसमुच्चयेन पर्णमय्यधिकरणपूर्वपक्ष इत्यु-
क्तम्--अर्थवादत्वमेवेति । केवलार्थवादत्वेन सिद्धान्तो दर्शितः ।
निवीताद्यर्थवादानामपि सिद्धवत्कीर्त्तनान्यथानुपपत्त्या विध्याक्षेपकत्वात्समुच्चयेन
पूर्वपक्षं कृत्वा, विक्षेपे प्रकरणादुत्कर्षापत्तेः । तस्य च केवलार्थवादत्वेन प्रकरणानिवेश-
सम्भवोपपत्तेः । केवलार्थवादत्वेन सिद्धान्तो निवीताद्यधिकरणेषु करिष्यत इत्याह--
एतेनेति । कृत्वा चिन्तात्वेन वा तेषां पुनरारम्भ इत्याह--अथ वेति । परकृतिपुराकल्पाधि-
करणमपि कृत्वा चिन्तेत्याह--तथेति । इति ह स्माह वटुकुर्वाष्णिर्माषान्मे पचत न ह वा
एतेषांऽहविगृ॑ह्णन्तीत्येककर्त्तृ॑कमुपाख्यानं परकृत्याख्यम् । उल्मुकैर्हस्मपूर्वे समाजग्मुस्तान-
सुरा रक्षांऽसि निज्ज॑घ्नुरिति चानेककर्त्तृ॑कमुपाख्यानं पुराकल्पाख्यमुदाहृत्य किमिमौ
माषपाकोल्मुकसंयोगविधी उतारण्याशनगृहपत्यग्निर्वापस्तुत्यर्थौ निन्दार्थवादाविति
सन्दिह्यार्थवत्त्वाद्विधी इति पूर्वपक्षमङ्गीकृत्य परकृत्युदाहरणे किं सर्वेषामेव दर्शपूर्णमास-
याजिनाम्मौपवसथ्याहे माषभोजनं विधीयते वृष्णिगोत्राणामेव वेति चिन्तयिष्यते । तत्र
वार्ष्णिशब्देन वृष्णिगोत्रविशेषसम्बन्धितया भोजनार्थं माषपाककीर्त्तनात्तदन्यथानुपपत्त्या
विधिः कल्प्यमानो न सर्वविषयः कल्पयितुं शक्यत इति । पश्चाद्वत्तद्व्यवस्थेति प्राप्ते,
विशिष्टपुरुषाचरितत्वेन माषस्तुत्यर्थतया वार्ष्णिसम्बन्धकीर्त्तनोपपत्तेर्विशेषविधित्सायां
वार्ष्णिवद्व्यतिरिक्तानां वृष्णिगोत्राणामपि विधानापत्तेः सर्वेषामेव दर्शपूर्णमासयाजिना-
मारण्यभोजनादिना सह वैकल्पिकं माषभोजनं विधीयत इति पक्षान्तरमुक्त्वा 'तस्मादारण्य-
मेवाश्नीयादिति विध्यन्तरैकवाक्यत्वेनारण्यान्नस्य प्रशस्ततरत्वद्योतनार्थं जर्त्तिलयवाग्वादि-
वन्निन्द्यानामपि माषाणां स्तुतिरिति सिद्धान्तयिष्यते ।
पुराकल्पोदाहरणेऽपि गृहपतेरेवाग्निषु निर्मन्ध्य निर्वपेरन्निति विध्यन्तरैकवाक्यत्वेन
निर्मन्थिताग्निसंसर्गस्तुत्यर्थमुल्मुकसंसर्गे निन्दोपपत्तेर्न निन्दाकल्पनिषेधबलेन प्रापकविधि-
कल्पनं पूर्वमहर्ष्याचरितत्वेन वा पृथग्विधिकल्पनं युक्तमिति सिद्धान्तः करिष्यते । यद्यदा-
चरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायात् । पूर्वाचरितोपन्यासेन विधिकल्पनमित्येवंविध-
पूर्वपक्षसाम्यमात्रेणानयोर्दाहरणयोः साहचर्यम्, न तु पुराकल्पोदाहरणे कृत्वा चिन्ता का
चिदस्ति । तस्मात्परकृतिपुराकल्पयोर्मध्ये एकस्मिन्परकृत्युदाहरणे कृत्वा चिन्तेति निर्द्धा-
रणे सप्तमी व्याख्येया । अर्थैकत्वजर्तिलाधिकरणयोः कथं निवेशोऽत आह—एवमिति ।
सापि कृत्वा चिन्तेत्यर्थः । चिन्तान्तरस्य तत्राभावात्, कृत्वा चिन्तानुपपत्तिमाशङ्क्याह—
बाधप्रसङ्गेनेत्युक्तम् ।
यद्यपि तत्र चिन्तान्तरं न कृतम्; तथापि सामोहोपोद्घातप्रसक्तानुप्रसक्त्या यदृचा
स्तुवत. इति विधिरर्थवादो वेति चिन्तायाः करिष्यमाणत्वात्तदुपयोगितया विधिपक्षे किमति-
देशप्राप्तस्तुतिसाधनसामाधारतृचबाधेनैकगर्गाधारत्वं विधीयते उताप्रगीतर्गैकत्वम् । तत्र पूर्वं-
पक्षे योन्युत्पन्नस्य साम्न उत्तरयोरगानादूहाप्राप्तेरितरस्मिन् पक्षे साम्नस्तृचाश्रितत्वाबाधा-
दूहोपपत्तेरिति चिन्तान्तरं कल्प्यम् ।