सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 626, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 626

कथमपराधप्रवृत्तत्वसंभवः ? अर्थप्रत्ययान्यथानुपपत्त्यादिवाचकत्वनिश्चयादत
आह—न नियोगत इति । यत्रार्थप्रतिपत्तेरन्यथानुपपत्तिः, तत्र वाचकत्वनिश्चयः,
इह तु वक्ष्यमाणन्यायेनान्यथोपपत्तेः न अनादिवाचकत्वकल्पना युक्तेति भावः ।
एवमपराधप्रवृत्तत्वसंभवप्रतिपादेन सर्वेषां साधुत्वनियमो निराकृतः; इदानीमेक
एव साधुरितरेऽपभ्रंशा इति स्वपक्षे युक्तिमाह ॥ २५ ॥
एवं प्राप्ते सिद्धान्तः
त० वा०—अभिधीयते—
अनैकान्तिकता तावदर्थापत्तेरिहोच्यते ।
अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थविबोधयोः ॥ ८३३
वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते ।
प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥ ८३४
संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये ।
इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥ ८३५
दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्द्वारेकदेशावता-
रणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् ।
संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् ।
अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥ ८३६
यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते, तादृगेव सर्वेण सर्वदोच्चार्येत ।
ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः
शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु
तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । 'प्रयत्ननिष्पत्तेरिति' पूर्वोक्त-
न्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते ।
अपर आह—अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः
शब्दमभिव्यनक्ति, तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः ।
यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रस-
ङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम्¹ । अथ वा शब्दविषयस्य प्रयत्न-
स्यैव या निष्पत्तिः तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते,
किमुतानिपुणविगुणकरणानाम्—
यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन² वार्यते ॥ ८३७
१. क. (टिप्पण्यां) विषयत्वमिति पा० । २. क. प्रसजत्केन ।