सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्

५१० मीमांसादर्शनम् [ सू०
वक्ता तु१ भाषणे सर्वो गुणभूतो विधीयते ।
न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥ ७०१
न प्रधानपदं चात्र विद्यते स्वर्गकामवत् ।
न च षष्ठ्युक्तसम्बन्धात्स्वामित्वेन प्रधानतः२ ॥ ७०२
यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् ।
पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥ ७०३
न चेहोच्चारणमुच्चारयित्रर्थम्, येन भोजनादिसमत्वं प्रतिद्येत । स्वरूपेण
पुनर्भङ्गित्वाद् बुद्धिवदेवासंस्कार्यम् ।
एवं चावेदमूलत्वान्न धर्मनियमार्थता ।
युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शाखता स्वयम् ॥ ७०४
तदुक्तं 'प्रयोगशास्त्रमिति चेन्नासन्नियमात्' इति ।
वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः
नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता ।
पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥ ७०५
सर्वत्र हि 'पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययः' तेन कर्त्रभिप्रायप्रका-
शनमात्रोपयुक्तत्वाद्द्व्याकरणेनैव शब्दगतसाध्वसाधुविभागः प्रतीयते ।
न च स्मृत्यन्तरं किंचिद् दृष्टं तत्कार्यगोचरम् ।
दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥ ७०६
व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम्
प्रायेण मनु-गौतम-वसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते ।
तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समा-
नार्थत्वम् ।
सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्
परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः ।
सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ॥ ७०७
न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् ।
कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥ ७०८
येष्वपि तद्ग्रन्थेषु विस्रष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते । न चैषां
श्रवण-ग्रहण-धारणेपु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव
१. क. कुभाषणे । २. क. प्रधानता ।

२४ ] प्रथमाध्याये तृतीयपादः ५११
निबध्यन्ते 'धर्मं व्याख्यास्यामः (वे. द. १ १-१'), यज्ञं व्याख्यास्यामः (आप० परि०
सू. १-१) इत्येवमादिभिः । इह पुनरत्यन्तकष्टं व्याकरणं प्रणयता सूत्रकारेण
धर्मार्थकाममोक्षाणां न कस्यचित्प्रयोजनत्वमाश्रितम् । न च सर्वप्रधाने वस्तुन्य-
नादरो युक्तः । सुज्ञातत्वं पुनरीदृशम्, येनाद्यापि विवदन्ते ।
धर्मश्च फलसंबद्धं कर्म यागादि वर्ण्यते ।
न च व्याकरणे किंचित्तादृक्कर्मोपदिश्यते ॥ ७०९
धर्मत्वं यच्च विज्ञान-शास्त्रपूर्वप्रयोगयोः ।
यथेष्टं वर्णितं तच्च न शास्त्रसदृशं मतम् ॥ ७१०
शास्त्रार्थो हि निरूपितरूपो भवति । इह च ज्ञानधर्मत्वमुपन्यस्य, अधर्मप्रस-
ङ्गभीतेन शास्त्रपूर्वप्रयोगेऽभ्युदय इति वार्तिककारेणोक्तम् । भाष्यकार आह—
अथ वा पुनरस्तु ज्ञाने धर्मः (पस्पशाह्निक. १-१-१) इति । न चैवमनियमेन
धर्मत्वावधारणं युक्तम् १ ।
संबद्धयोश्च धर्मत्वं यदेकस्यावधार्यते ।
तदेतरत्तदर्थत्वान्न धर्मत्वेन गम्यते ॥ ७११
ज्ञानप्रयोगयोरन्योन्यतरस्यानुनिष्पादितत्वेन उपसंहारः
तदिह यदि तावज्ज्ञानमेव धर्मत्वेनावधारितम्, ततो लोकप्रसिद्धस्यैव प्रयोगस्य
ज्ञानात्तु निष्पादितत्वेन सत्यामप्युपकारनिवृत्तौ वाजिनादिवत्प्रयोजकत्वाभावः ।
शास्त्रपूर्वकप्रयोगपक्षे तु ज्ञानस्य तदङ्गत्वेन निराकाङ्क्षभूतत्वात् । असत्यां प्रयो-
जनान्तराकाङ्क्षायां यद्यपि कांचित्फले श्रुतिर्भवेत् साऽपि 'द्रव्यसंस्कारकर्म' २
४-३-१ इत्यनेन न्यायेनऽर्थवादतया ज्ञायते । न हि समानाध्वनोः परस्मिन्फलवति
ज्ञाते पूर्वस्यापि फलवत्ता ज्ञायत इति वर्णितमेतत् "योऽश्वमेधेन यजते य उ
चैनमेवं वेद" इति ।
किं च—आदिमत्त्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः ।
न हि व्याकरणापेक्षा वर्तते वैदिकी श्रुतिः ॥ ७१२
यन्नाम ज्ञानं नित्येन वेदेनैव क्रियते, तत्र तत्पूर्वकप्रयोगविधानं फलायोप-
पद्यते । व्याकरणज्ञानं तु पौरुषेयम्, ग्रन्थाधीनत्वान्मन्त्रार्थवादगतानित्यसंयोगपरि-
हारन्यायेनानादिवेदविषयत्वेन नावधार्यते ।
व्यवहारनित्यतया कण्ठस्थनित्यतया वेदस्य नित्यत्वनिरासः
न च व्याकरणं नित्यं कथंचिदवगम्यते ।
कर्तृस्मृतिद्रढिम्ना हि नित्यपक्षनिराक्रिया ॥ ७१३
१. क. उक्तम् । २. क. कर्मस्वित्यनेन ।

५१२ मीमांसादर्शनम् [ सू०
अथापि व्यवहारनित्यतान्यायेन पौरुषेयव्याकरणपरम्पराऽनादिः कल्प्येत,
तथाऽपि ‘उक्तं तु शब्दपूर्वत्वम्’ (१-१-२९) इत्यस्य न्यायस्य स्थितत्वात्। अनेक-
पुरुषकृतमपि सव्याकरणं वेदालम्बनत्वं न प्रतिपद्यते ।
न च व्याकरणत्वाख्या जातिः काचिद्व्यवस्थिता ।
अनित्ये वाक्यसंघाते सा जातिः क्वाऽवतिष्ठताम् ॥ ७१४
पातञ्जलभाष्यानुसारेणाशङ्का-निरासौ
अथ ‘लक्ष्यलक्षणे व्याकरणम्’ (प. आ.) इति सत्यपि लक्षणांशकृत्रिमत्वे
लक्ष्यांशेन नित्येन विधिरुपपत्स्यत इति ।
तदनुपपन्नम् । कुतः—
अत्यन्तभिन्नरूपत्वाल्लक्ष्याणां लक्षणादिना ।
नैकमालम्बनं किंचिद्विधेरस्तीत्युदाहृतम् ॥ ७१५
ननु वेद¹ एव व्याकरणनित्यत्वं दृश्यते । यथाऽऽह—‘तस्मादेषा व्याकृता
वागुद्यत’ (तै. सं. ६.४.७) इति । नैतदस्ति ।
व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकी ।
अनूदितोच्यमानेयं कर्मस्वाध्यायकालयोः ॥ ७१६
अव्याकृताया हि लौकिक्या वाचः शिष्याचार्यसम्बन्धेन स्वरवर्णमात्रा-
क्रमैरविप्लुत रूपैर्निरूपिताकारैरेव वैदिकी व्याकृतेत्युच्यते। तस्माच्च मन्त्रब्राह्मणा-
त्मिकायाः कर्मसु, ज्ञाने, प्रयोगे च धर्मोऽस्त्येव । यदपि च एकः शब्दः सम्यग्
ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति (म. भा. ६.१.८४) इति ।
तदपि स्वाध्यायप्रशंसाशेषभूतमेव । “अहरहः स्वाध्यायमधीयीत” इत्यत्र
‘अप्येकामृचम्, यजुः, साम वा’ इत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् ।
योऽपि मन्त्रं समस्तं हि न धीयीताप्यशक्तितः ।
तस्य शास्त्रान्वितः शब्द एकोऽपि स्वर्गकामधुक् ॥ ७१७
शास्त्रान्वित इति च यथास्वाध्यायमनुगत इत्यर्थः । सम्यक्प्रयुक्त इति
चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादीतिकर्तव्यतोपपन्नतवाश्रयेणोक्तम् ।
यदपि च “तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै², म्लेच्छो ह वा एष
यदपशब्दः” इति, तत्संप्रदायागतवैदिकशब्दविनाशप्रतिषेधार्थमेव । वैदिकाच्चा-
पेतत्वाल्लौकिकस्यापशब्दत्वं संभवति ।
१. क. वेदे । २. क. “नापभाषितवा” इति ।

२४ ] प्रथमाध्याये तृतीयपादः ५१३
सुज्ञानं च। न लौकिकादप्येतोऽपशब्दो नाम कश्चिदस्ति । गव्यादीनामपि
शब्दानां श्रोत्रग्राह्यत्वेन शब्दशब्दवाच्यत्व-शब्दबुद्धिग्राह्यत्वशब्दत्वानुगम-
दर्शनात् । अथाप्यवश्यं लौकिकादप्येतोऽपशब्द आश्रयणीयः । अथाऽपि
“न म्लेच्छभाषां शिक्षेत” इत्येवमादिस्मृत्यनुसरणेन हिमवद्विन्ध्यान्तराल-
कृष्णमृगसंचारणाद्युपलक्षितधर्माधिकृतार्यावर्तनिवासिव्यतिरिक्तबर्बरादिभाषागतस्य
म्लेच्छितत्वसमानाधिकरणापशब्दत्वज्ञानात्तेन भाषणं प्रतिषिध्यते । युक्तं च
तस्याशेषतदीयाचरणवत्परिहरणीयत्वम्, न त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु
म्लेच्छतिधात्वर्थानुगमः कश्चित् । येन तदनाचारितत्वेनापवृत्तवदपशब्दत्वं
निरूप्यते ।
यदपि च "आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं
निर्वपेत्” इति तदप्यनूत्वादवैदिकशब्दविनाशम्लेच्छभाषाप्रयोगाश्रयमेव
वेदितव्यम्, न तु व्याकरणानुगतव्यतिरिक्तशब्दप्रयोगविषयम् । तथा हि—
कथं नामेदृशात्कार्यात्सर्व एवाऽऽहिताग्नयः ।
प्रवर्तेरन्कथं१ चान्यैर्न निन्द्येरन्नशिष्टवत् ॥ ७१८
प्रायेण हि शिष्टानां धर्माचारप्रणितचेतसां कश्चिदेव प्रमादादल्पोऽनाचारो
भवति । गव्यादिशब्दप्रयोगेषु पुनर्न केषांचिदप्यनाचारबुद्धिः । न च कलञ्जा-
दिभक्षणवद्विचिकित्सा,२ गर्हा वा दृश्यते न चाऽऽहिताग्निसहस्रेऽप्येकस्त्वदभि-
मतसाधुशब्दैरेव व्यवहरमाणो दृश्यते ।
कल्पसूत्रकारादीनामपशब्दप्रयोगवर्णनम्
कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः ।
शिष्टा दृष्टाः प्रयुञ्जाना अपशब्दाननेकंशः ॥ ७१९
'समानमितरच्छद्येनेन' इत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगेषु मशकेन
तत्र तत्र प्रयुक्तम्, 'समानमितरं ज्योतिष्टोमेन' 'समानमितरं गवा ऐकाहिकेन'
इति सूत्रकारेणाप्यभिहितम् । “अहीने बहिष्पवमानैः सदसि स्तुवीरन्” इति
कर्त्रभिप्रायक्रियाफलवर्जितेऽप्यृत्विक्कर्तृके स्तवने 'यजन्ति याजका' इतिवत्परस्मैपदे
प्रयोक्तव्ये व्याकरणमनपेक्ष्याऽऽत्मनेपदं प्रयुक्तम् । तथाऽऽश्वलायनेन “प्रत्यसित्वा
प्रायश्चित्तं जुहुयुः” इति समासेऽपि ल्यप्न प्रयुक्तः । आज्येनाक्षिणी आज्य
इत्यसमासेऽपि प्रयुक्तः ।
१. क. प्रवर्त्येरन् । २. क. मक्षणवच्चिकित्सा ।
३३

५१४ मीमांसादर्शनम् [ सू०
तथा शिक्षायां नारदेन “प्रत्युषे ब्रह्म चिन्तयेत्" इति गाव्यादिशब्दतुल्य
एव प्रयुक्तः ।
तथा मनुनाऽपि “ज्ञातारः सन्ति मेत्युक्त्वा" इत्यत्र सन्ति म इत्युक्तेति
वक्तव्ये व्याकरणमनपेक्ष्यैव संहिता कृता ।
तथा मीमांसायामपि 'गव्यस्य च तदादिषु' इति गोविकारावयवविषयसाधु-
प्रयोगयोग्यः शब्दोऽन्यत्रैव गवामयने प्रयुक्तः । तथा 'द्यावोस्तथेति चेत्' इति
द्यावापृथिव्योरिति वक्तव्ये लक्षणहीनमेव बहु प्रयुक्तम् ।
तथा गृह्यकारेण मूर्धन्यभिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये
जिघ्रादेशः प्रयुक्तः । कार्त्स्न्येऽपि व्याकरणस्य१ निरुक्ते हीनलक्षणाः प्रयोगा बहवो
यद्वद् ब्राह्मणो ब्रवणादिति । संवत्सरं शाशयाना२ इत्येतन्मन्त्रगतमण्डूकविषय-
ब्राह्मणशब्दनिर्वचने क्रियमाणे वचनशीलत्वनिमित्तां दर्शयता । ब्रुवो वचिरिति
वच्यादेशमकृत्वैव ब्रवणादिति प्रयुक्तम् ।
इतिहासपुराणयोः अपशब्दप्रदर्शनम्
अन्तो नास्त्यपशब्दानामितिहासपुराणयोः ।
तथोभाभ्यादिरूपाणां३ हस्तिशिक्षाधिकारिणाम् ॥ ७२०
युगपदुभाभ्यां दन्ताभ्यां यः प्रहारः स उभाभ्य इति सर्वैः पालकार्यराजपुत्रा-
दिभिर्व्याकरणानपेक्षमेव प्रयुक्तम् ।
वेदेऽपि अपशब्दप्रयोगदर्शनम्
वेदेष्वपि प्रयोगास्ते भूयांसोऽध्येतृसंमताः ।
सामान्यं छान्दसं वाऽपि येषां नास्त्येव लक्षणम् ॥ ७२१
न हि ते सुप्तिङुपग्रहादिव्यत्ययेन ‘नापि कतिपयाधिकारदृष्टेन बहुलं छन्दसि'
इत्यनेन सिध्यन्ति । तद्यथा ‘मध्यं आपस्य तिष्ठति नीचीन वारं वरुणः कबन्धम्'
इति । न ह्यपामित्यस्य नित्यस्त्रीलिङ्गबहुवचनविषयव्यञ्जनान्तप्रातिपदिकपर-
षष्ठ्यन्ताख्यानादापस्येत्येतद्रूपं लक्षणानुगतं दृश्यते । नापि द्वारशब्दस्य
स्थाने लाटभाषातोऽन्यत्र वारशब्दः संभवति । तेनानारभ्य एवायम्, विषय-
व्याप्त्यसंभवात् ।
शब्दानुगमरूपोऽर्थो यत्र व्याकरणं कृतम् ।
येऽपि व्याकरणस्यैव परे पारे प्रतिष्ठिताः ॥ ७२२
१ क. व्याकरणस्यापि । २ क. संवत्सरंशयाना । ३ क. तथोमाभ्यो द्विरूपाणां ।