सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 564, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 564

५१० मीमांसादर्शनम् [ सू०
वक्ता तु१ भाषणे सर्वो गुणभूतो विधीयते ।
न तस्य नियमापूर्वसंस्कार्यत्वनिरूपणम् ॥ ७०१
न प्रधानपदं चात्र विद्यते स्वर्गकामवत् ।
न च षष्ठ्युक्तसम्बन्धात्स्वामित्वेन प्रधानतः२ ॥ ७०२
यत्तु दिङ्नियमापूर्वं भोजनादिषु कल्पितम् ।
पुरुषार्थक्रियाद्वारं तदर्थं तत्प्रतीयते ॥ ७०३
न चेहोच्चारणमुच्चारयित्रर्थम्, येन भोजनादिसमत्वं प्रतिद्येत । स्वरूपेण
पुनर्भङ्गित्वाद् बुद्धिवदेवासंस्कार्यम् ।
एवं चावेदमूलत्वान्न धर्मनियमार्थता ।
युक्ता शब्दस्मृतेर्वक्तुं न चास्याः शाखता स्वयम् ॥ ७०४
तदुक्तं 'प्रयोगशास्त्रमिति चेन्नासन्नियमात्' इति ।
वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः
नहि व्याकरणादीनां वेदत्वेन स्वतन्त्रता ।
पुरुषाधीनवृत्तेश्च सापेक्षस्याप्रमाणता ॥ ७०५
सर्वत्र हि 'पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययः' तेन कर्त्रभिप्रायप्रका-
शनमात्रोपयुक्तत्वाद्द्व्याकरणेनैव शब्दगतसाध्वसाधुविभागः प्रतीयते ।
न च स्मृत्यन्तरं किंचिद् दृष्टं तत्कार्यगोचरम् ।
दृढं श्रुत्यनुमानं स्याद्येनोपनयनादिवत् ॥ ७०६
व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम्
प्रायेण मनु-गौतम-वसिष्ठादिप्रणीताः समानेष्वर्थेषु धर्मसंहिता वर्तन्ते ।
तेनाविगानात्ताभ्य एव श्रुतयः स्वनुमानाः । न च व्याकरणस्य ताभिः समा-
नार्थत्वम् ।
सूत्र-वार्त्तिक-भाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम्
परस्परेण चाऽऽचार्या विगीतवचनाः स्थिताः ।
सूत्रवार्तिकभाष्येषु किं तत्राध्यवसीयताम् ॥ ७०७
न तावत्सूत्रकारेण किंचिदुक्तं प्रयोजनम् ।
कथं चैतावति ग्रन्थे स्यात्प्रयोजनविस्मृतिः ॥ ७०८
येष्वपि तद्ग्रन्थेषु विस्रष्टान्यादित एवाऽऽरभ्य प्रयोजनानि ज्ञायन्ते । न चैषां
श्रवण-ग्रहण-धारणेपु महान्खेदस्तेष्वपि जिज्ञासूत्साहार्थं पूर्वं प्रयोजनान्येव
१. क. कुभाषणे । २. क. प्रधानता ।