मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
सूत्रमापतति ॥२७॥
२७ ] प्रथमाध्याये द्वितीयपादः १६९
तस्मिन् हेतौ शूर्पेऽपि तदभावेन स्तुतिरनर्थिका स्यादित्यर्थः, एतदेव विवृणोति-
शूर्पमपीति । तेन साधकतमत्त्वादिना विनेत्यर्थः ।
तत्र तुशब्दार्थमाह-एतदिति । हेतुपरत्वम्, शब्दपूर्वत्वादिति व्याचष्टे-
शब्देति । अन्नकरणत्वस्य होमे हेतुताया मानान्तरागोचरत्वादिति भावः ।
ततः किमित्यत आह-शब्दश्चेति । शूर्पहोमे=शूर्पेण होमे कर्तव्ये इत्यर्थः ।
शूर्पेणेति तृतीयाश्रुत्या शूर्पस्य होमकरणत्वावगमात् आनुमानिकदर्व्याद्यप्राप्तेः
होमस्य च शूर्पेण निराकाङ्क्षत्वाच्छूर्पहोम एव हेतुत्वमित्यर्थः, तथाप्यन्नकरणत्वस्य
शूर्पहोमसंबंधे हेतुत्वमेवेत्याशङ्क्य शूर्पेण जुहोतीति विधिसिद्धत्वेन हेत्व-
नपेक्षत्वात् स्तुतित्वमेवेति स्तुतिरिति । सूत्रावयवो योज्यः । निगमनतया सूत्र-
शेषं योजयति-तेनेति । यस्माच्छब्दपूर्वकं शूर्पस्य करणत्वम्, यस्माच्च हेत्व-
पदेशस्य स्तुतित्वेनोपपत्तिः तस्माच्छूर्पश्रुतिविरोधाद्धेत्वपदेशानुपपत्त्यभावाच्च
न दर्विपिठरादेः होमसाधनत्वचोदना तदनुमानमित्यर्थः । न च शूर्पश्रुतिः
अव्युत्पत्यानुवादत्वादान्न होमकारणत्वपरेति वाच्यम्, विध्युद्देशपातिन्यास्तस्यास्तद-
पेक्षितहोमकरणसमर्पकत्वे संभवत्यनुवादत्वकल्पनानुपत्तेरिति द्रष्टव्यम् ॥२७॥
त० वा०-शूर्पेणेति तावत्करणविभक्तिश्रुत्यैवावरुद्धो होमो नानुमानिकैर्द्द-
र्विपिठरादिभिः सह बाधविकल्पसमुच्चयान्प्रतिपद्यते । होमश्च तेन निराकाङ्क्षी-
भूतो नान्यत्प्रार्थयते । अनुत्थितायामेव दर्विपिठारादिश्रुतौ शूर्पं प्राप्नुवच्छ्रुत्यनुमानं
प्रतिबध्नाति । तेन ब्रवीति अचोदना च तस्येति । हेत्वपदेशश्च स्तुत्यैवोपपद्य-
मानः सन्नाश्रुतदृष्टान्तकल्पनायै प्रभवति । शूर्पश्रुतिश्च विध्युद्देशपातिन्यनन्य-
प्रयोजना विस्पष्टा च सती परित्यक्तुं न युज्यते । तस्माद्यद्वाऽन्नकरणत्वादित्येष
कर्तव्य इत्यनेनापेक्षितत्वाल्लक्षणयैतत्प्रतिपादयति प्रशस्तत्वादिति ।
अथ वाऽन्नकरणत्वादिति श्रुतिवृत्तमेव । तत्र यथाश्रुतं विध्युद्देशे हेतुताम-
प्रतिपद्यमानं तदनन्तराकाङ्क्षितार्थाविप्लुतहेत्वपेक्षप्राशस्त्यहेतुरवधार्यते, अन्न-
करणत्वात्पशस्त इति । कल्पनाद्वयेऽपि च लोकप्रसिद्धदृष्टान्तलाभान्नाश्रुततद्वा-
क्यानुमानप्रसङ्गो भविष्यति । सिद्धं हि प्रशस्तानां कर्तव्यत्वमन्नकरणानां च
प्रशस्तत्वमिति ।
अचोदना च तस्येति व्याख्यान्तरम् । तव हि यद्यन्नकरणम्, तच्चोद्यते । न
च दर्विपिठरादीनां करणता, साधकतमस्य पाकादेः करणत्वात् । एवं चोत्तर-
सूत्रमापतति ॥२७॥
न्या० सु०-अत्र भाष्यकृताऽन्नकरणताया हेतुत्वस्य प्रमाणान्तरानवसेयत्वेन शब्दैक-
समधिगम्यत्वाच्छब्देन च शूर्पेण होमकत्तव्येऽन्नकरणत्वस्य हेतुत्वाभिधानात्तस्य च
१७० मीमांसादर्शनम् [ सू०
शूर्पेण जुहोतीति विधिसिद्धत्वेन हेत्वनपेक्षतया स्तुतिमात्रार्थत्वावगतेः शूर्पस्यैव शब्द-
विहितत्वात्तदवरुद्धे होमे दर्व्यादिरचोदनेत्येवं सूत्रं व्याख्यातम् । तद्विवृणोति - शूर्पेणेति ।
विरोधसिद्धयर्थं द्वा१क्यप्रदर्शनार्थं१ करणग्रहणं समर्थः पदविधिरिति पदमात्रविधौ साम-
र्थ्यापेक्षास्मरणाच्छूर्पस्य दर्व्यादिसापेक्षत्वे शूर्पप्रातिपदिकस्य विभक्त्यनन्वयप्रसङ्गान्निर-
पेक्षत्वं विभक्तिग्रहणेनोक्तम् । समुच्चयनिवृत्त्यर्थं चैतद् द्वयम् । श्रुतिग्रहणं बलीयस्त्वाद्
बाधविकल्पनिरकरणायोक्तम् । न केवलं विभक्त्यन्वयान्यथानुपपत्त्या शूर्पस्य दर्व्याद्यन-
पेक्षत्वं स्यात् किन्त्वसामर्थ्यादपीत्याह -- होमश्चेति । ननु हेत्वपदेशान्यथानुपपत्त्यान्वयविधा
यिश्रुत्यनुमानावश्यंभावाद् बलाबलविशेषेऽपि मुख्यानुकल्पव्यवस्थया विरोधपरिहारो
भविष्यतीत्यत आह - अनुत्थितायामिति । अत्रैव अचोदना च तस्येति सूत्रावयवं योज-
यति - तेनेति । हेत्वपदेशान्यथानुपपत्तिनिराकरणार्थतया स्तुतिग्रहणं व्याचष्टे - हेत्व-
पदेशश्चेति । आद्यं पूर्वपक्षं निरस्यति - शूर्पश्रुतिश्चेति । किमालम्बनस्तर्हि हेतुनिर्देशः, अत
आह - तस्मादिति । वक्ष्यमाणपक्षापेक्षया यद्वाशब्दः, तेन विध्युद्देशेनानन्तरमाकाङ्क्षित-
मर्थेन विधिसामर्थ्येनोपप्लुतं हेत्वपेक्षं यत्प्राशस्त्यम्, तस्य हेतुरिति विग्रहः । न केवलं
हेतुपरत्वासम्भवात् प्राशस्त्यपरत्वम्, किन्त्वश्रुतान्वयवाक्यकल्पनानापादकत्वादपीत्याह ---
कल्पनेति । एतदेव सूत्रमन्नस्वरूपस्य होमसाधनतया कल्प्येन शब्देन चोद्यमानतयेष्टत्वा-
द्दर्व्यादिरकरणत्वादचोदनेत्यन्त्यप्रतीकेनावतार्याऽन्यथा व्याचष्टे - अचोदना चेति । भाष्य-
मप्यस्यां व्याख्यायामेवं योज्यं शब्दश्चान्नकरणहेतुरित्याह - तच्च शूर्पहोमेति । शूर्पेण
जुहोतीत्येतद्वाक्यविधेयाङ्गीक्रियमाणेऽस्य स्तुत्यर्थत्वात्प्रमाणान्तरानुसारेण गौणत्वाद्युज्यते
दर्व्यादिहोमेऽनुकल्पेन वाक्येन विधेयेऽङ्गीक्रियमाणे, तस्य करणत्वाभावान्न युज्यतइति ।
व्याख्यानान्तरस्य प्रयोजनमाह - एवं चेति ॥ २७ ॥
भा० प्र०-पूर्व पक्षियों के पूर्वोक्त सन्देहों के समाधान में आचार्यों का कहना है कि
शूर्प को अन्न की साधनता का बोधक वाक्य अर्थवाद है। दवीं, स्थाली आदि को अन्न
का साधन न कहकर श्रुति में शूर्प को ही अन्न का साधक कहा गया है । 'शूर्पेण' इस
तृतीयान्त पद के प्रयोग से शूर्प में अन्न की साधनता श्रुति के द्वारा ही कही गई है। दवीं,
थाली, आदि में अन्न की साधनता अनुमान सिद्ध है । अलौकिक अर्थ में वेद ही प्रमाण है,
वेद 'शूर्पेण' इस करण में तृतीया का प्रयोग कर इसमें साधनता सुस्पष्ट है, अतः, थाली
आदि के साथ शूर्प की साधनता के विकल्प का प्रसङ्ग ही नहीं है। क्योंकि, समान बल
रहने पर ही दो द्रव्यों में विकल्प होता है । किन्तु, शूर्प की अन्न साधनता स्वतःप्रमाण
श्रुति द्वारा बोधित होने से दवीं, थाली प्रभृति में अनुमेय अन्न साधनता श्रुति की अपेक्षा
दुर्बल है । अतः, शूर्प के साथ थाली आदि का विकल्प नहीं हो सकता है । श्रुति उपदिष्ट
१. द्वारैक्ये सति विरोधः, विरोधे सति करणयोः समुच्चयासम्भवः ।
२९ ] प्रथमाध्याये द्वितीयपादः १७१
होम की करणाकाङ्क्षा श्रुतिबोधित शूर्प के द्वारा ही चरितार्थ होने से थाली प्रभृति की
होमसाधनता की प्राप्ति का अवसर ही नहीं है ।
‘श्रुतिः’=अर्थवाद, ‘तु’=पूर्वं पक्ष का व्यावर्तक, “शब्दपूर्वकत्वात्” = क्योंकि शूर्प
अन्न का कारण है, वह श्रुति बोधित है, ‘अचोदना’=अविधि या विधि नहीं है । ‘च’=
और,,तस्य’=दर्वी, थाली आदि का । श्रुति के द्वारा शूर्प को ही अन्न साधनता कहा है,
दर्वी स्थाली आदि की अन्न साधनता की विधि या वेदवचन नहीं है । अतः, यह स्तुति
या अर्थवाद वाक्य है ॥ २७ ॥
व्यर्थे स्तुतिरन्याय्येति चेत् ॥ १.२.२८ ॥
शा० भा०—इति पुनर्यदुक्तम्, तत्परिहर्त्तव्यम् ॥ २८ ॥
भा० वि०—ननु शूर्पविषयेऽपि साधकतमत्वक्रियावर्तमानतवाद्यर्थाभावात् कथं
स्तुतिरिति ‘व्यर्थे स्तुतिरिति’ सूत्रार्थस्य पूर्वमुक्तत्वादनुभाषणार्थमेतत्सूत्रमिति
व्याचष्टे—इति पुनरिति । तस्य परिहारयोग्यतामाह—तदिति ॥ २८ ॥
त० वा० — यत्पुनः शूर्पेऽप्यन्नकरणत्वानुपपत्तेः स्तुतिर्न प्राप्नोतीत्युक्तम् । किं
तत्राभिधीयते ॥ २८ ॥
न्या० सु०--एतत्सूत्रार्थस्य पूर्वमुक्तत्वादनुभाष्यार्थार्थतैतत्सूत्रमिति पुनर्यदुक्तमिति
वदता भाष्यकृता व्याख्यातम्, तद्व्याचष्टे—यत्पुनरिति ॥ २८ ॥
भा० प्र०—शूर्प के द्वारा अन्न का सम्पादन नहीं होता, किन्तु, दर्वी, स्थाली आदि
के द्वारा ही अन्न का निष्पादन होता है, इसलिए, शूर्प की प्रशंसा करना सङ्गत नहीं है,
इसलिए इस स्थल में हेतु विधि ही आश्रयणीय है, अर्थात् दर्वी स्थाली आदि के द्वारा भी
होम किया जा सकता है—यही श्रुति का आशय है और ऐसी स्थिति में यह भी
सङ्गत नहीं होगा ।
‘व्यर्थे’=जो प्रयोजन का निर्वाहक नहीं है उसके सम्बन्ध में, “स्तुतिः” = प्रशंसा,
‘अन्यस्या’ = अनुचित, “इति चेत्” यदि यह कहा जाय ॥ २८ ॥
अर्थस्तु विधिशेषत्वाद्यथा लोके ॥ १.२.२९ ॥
शा० भा०—अस्मत्पक्षेऽर्थोऽस्ति । वाक्यशेषो हि स विधेस्तदा भवति ।
संवादश्च स्तुतिवचनत्वेन । यथा वयं शूर्पेणान्नं क्रियमाणं जानीमः, तथा शूर्पेणान्नं
क्रियत इत्येव गम्यते । तदा चावर्तमानं स्तोतुं वर्तमानमित्युपदिशति । त्वत्पक्ष
एष दोषो यस्य ते हेतुविधिः । विधौ हि न परः शब्दार्थः प्रतीयते । न च वर्त-
मानमुपदिशन्वेदः शक्यमर्थं विदध्यात् ।
१७२ मीमांसादर्शनम् [ सू०
अस्मत्पक्षे तु एष परशब्दः परत्र वर्तते । यथा लोके बलवान्देवदत्तो यज्ञ-
दत्तादीन्प्रसहत इति । प्रकृष्टबलेऽपि बलवच्छब्दो वर्तमानो न सिंहं शार्दूलं
वाऽपेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलाः, तानपेक्ष्य भवति । एवं तेन ह्यन्नं
क्रियत इति प्रकृष्टान्नकरणेन संस्तवः शूर्पस्य, निकृष्टान्यन्यान्यन्नकरणान्यपेक्ष्य
भविष्यति ॥ २९ ॥
भा० वि०—सूत्रेण परिहरति--अर्थस्त्विति । तुशब्दश्शङ्काव्यावर्तकः,
अर्थशब्दं व्याचष्टे—अस्मत्पक्ष इति । अर्थोऽन्नकरणत्वादिरूपः कुत इत्याशङ्क्य
विधिशेषत्वादिति व्याचष्टे—वाक्येति । तेन व्रीह्यादिस्सर्वनाम्ना परामृष्टः सत्यपि
विधिशेषत्वे कथमर्थसत्तेत्याशङ्केत्यत आह—सांवदश्चेति । विधिशेषतया स्तुति-
वचनत्वे चानुवादत्वेन भवितव्यम् अनुवादश्च मानान्तरसिद्धस्यैवेत्यर्थः, तथापि
किमित्याशङ्क्य यथालोक इति व्याचष्टे--तेनेति । शूर्पेण क्रियत इति श्रुत्या
सङ्कीर्त्यत इति अवगम्यत इत्यर्थः, एवमुपयोगित्वमात्रं करणविभक्त्यर्थमभिधाय
वर्तमानान्नक्रियात्वाभिधानमुपपादयति--तथा१ चेति । तथा अवर्तमानमप्यन्न-
क्रियायोगित्वं शूर्पं स्तोतुं वर्तमानं व्यपदिशति श्रुतिरित्यर्थः, अर्थस्तु विधिशेष-
त्वादित्यस्य व्यतिरेकं दर्शयन् परपक्षे दोषमाह—त्वत्पक्ष एष इति । मुख्यत्वाद्य-
ग्रह इति । तत्रापि कथं तदग्रहो दोषस्तत्राह--यस्येति । विधिः अज्ञातज्ञापनं
हेतुविधिवादत्वात् तवेत्यर्थः, विधित्वेऽपि कुतो दोषापत्तिरित्यत आह--विधौ
हीति । न परस्य=अन्यस्य शब्दस्यार्थः प्रयोजनं तया प्रतीयत इत्यर्थः, लक्षणायां
हि परशब्दार्थः प्रयोजनं भवति, विधिपक्षे त्वपूर्वाविषयत्वान्न लक्षणा युक्तेत्या-
शयः, भवतु तर्हि मुख्यार्थत्वमत आह--न हीति । वर्तमानान्नक्रियं साधकतमं
चोपदिशन्र वेद इत्यर्थः एकक्रियाविशिष्टस्य शूर्पादेस्तदैव क्रियान्तरायोगात्
साधकतमेन च पाकादिना होतुमशक्यत्वादिति भावः ।
ननु त्वत्पक्षेऽपि मुख्यार्थाभ्युपगमे विरोधः, लक्षणाभ्युपगमे तु स एव दोषः,
इत्याशङ्क्य लाक्षणिक एवार्थः स्वीकर्तव्यः, विधिशेषत्वेनानुवादतया प्रमाणा-
न्तरानुसारितया लक्षणाया अप्यदोषत्वादित्यभिप्रेत्य सूत्रयोजनं मत्वाह—अस्मत्पक्ष
इति । तत्रापि यथालोक इति व्याचष्टे--यथालोक इति । बलवच्छब्दः प्रकृष्टबले
वर्तमानोऽपि इति सम्बन्धः, यद्यपि भूम्नो अतिशायनस्य च मतुबर्थत्वाद्विशेषा-
भिधानाच्च सर्वेभ्यः प्रकृष्टबलत्वं शब्दशक्त्या प्रतीयते, तथापि सिंहादीनाम-
धिकबलानपेक्ष्याधिकबले देवदत्ते स्तुत्यर्थलक्षणया प्रयुक्त इत्यर्थः । दाष्टन्तिंक-
माह—एवमिति । शूर्पस्यापि लाङ्गलाद्यपेक्षया प्रकृष्टस्यैवात्यन्तप्रकृष्टत्वेन स्तुति-
स्तेनेत्यादिना क्रियत इत्यर्थः ॥ २९ ॥
१. तदा चेति मु० पु० पाठः ।
२९ ] प्रथमाध्याये द्वितीयपादः १७३
त० वा०-अस्मत्पक्षेऽर्थोऽस्ति स्तुत्यालम्बनमन्नकरणत्वं नाम, वाक्यशेषो
हि भवन्पारतन्त्र्याद् गौणत्वादपि प्रतिपद्यते । तदा च विधेयान्तरवशादवश्य-
मनुवादेन भवितव्यमनुवादश्च यथाविज्ञातस्य भवति । अतः शब्देनैवाभ्यनुज्ञातं
यादृशं वयमन्नकरणत्वं शूर्पे पश्यामः, तादृशमिदं संकीर्त्यत इति । अनेन वर्त-
मानापदेशो व्याख्यातः । तत्रापि हि कृतं वा करिष्यमाणं वा स्तोतुं क्रियत
इत्युच्यते । कथं स्तुतिः ? सर्वलोकस्य भूतभविष्यदनादरेण वर्तमानोपकारा-
नुरागाद्वर्त्तमानालोचनेनैव च कालान्तरेऽपि तत्र प्रीतिरिति क्रियत एवाऽनेनान्न-
मित्यच्यते ।
अथ वाऽन्नक्रियाशक्तेर्वर्तमानतान्नक्रियायामेवोपचर्य स्तोति । तत्रापि जनानां
शक्त्यतिक्रमेणाभिव्यक्तिप्रियत्वात्क्रियत इत्युक्ते स्तुतिर्भवति । ' न शक्त्यभिधा-
नात् । तव तु विधिवादत्वान्मुख्यस्यान्नकरणत्व-वर्तमानत्वयोर्ग्रहणे दोषः किं
कारणम् ? विधानं ह्यत्यन्तानवगतार्थविषयम् । तत्र यथाश्रुतादन्यथाग्रहणं
निष्प्रमाणकम् । एतदेवाऽऽह-विधौ हि न परशब्दार्थः प्रतीयत । परशब्दार्थो हि
लक्षणासु प्रयोजनम् । तदिह भूतभविष्यत्क्रियावाचिनः, शक्तिवर्तमानतावाचिनो
वा स्वार्थे वर्तमानान्नक्रियावाची शब्दः कल्पनीयः । तन्निमित्तमात्रे शब्दार्थे
साधकतमत्ववाचिनी तृतीया । नचैवंभूतत्वं कुतश्चित्सिद्धमित्यप्रमाणकम् । अथ
मुख्यार्थपरिग्रहः । तत्रोच्यते । न च वर्तमानं साधकतमं वोपदिशन्वेदः शक्यमर्थं
विदध्यात् । न हि वर्तमानान्नक्रियेण शूर्पादिना साधकतमेन वा पाकेन होतुं
शक्यते । तस्मादुभयथाऽपि विप्रतिषिद्धम् ।
अस्मत्पक्षे त्वनुवादत्वात्परशब्दार्थग्रहणम् । तथा लोके बलवान्देवदत्त इति
भूम्यतिशयने वा मतुप्प्रवृत्तिः । न च विशेष उपात्तोऽमुष्मात्प्रकृष्टबल इति ।
तत्र सर्वसत्त्वेभ्यः प्रकर्षे मुख्यः शब्दो न च तथा संभवति सिंहादीनां बलवत्तर-
त्वादिति देवदत्तान्यूनतरबलानपेक्ष्यैवमभिधीयते । तथाऽन्न विप्रकृष्टतरान्नसाधन-
लाङ्गलाद्यपेक्षया शूर्प साधकतममित्युच्यते ।
नन्वेवमापेक्षिकप्रवृत्तेर्मुख्यत्वमेव स्यात्, तथा च देवदत्ते बलवच्छब्दप्रवृत्तिं
नैव गौणीं मन्यते । सत्यमेवम्, यदा तावन्न्यूनमात्रापेक्षयैव प्रयुज्यते, यदा त्ववि-
शेषप्रवृत्तेस्तदधिकबलेष्वपि बलवद्बुद्धिर्जता तदा स एव शब्दः कुतश्चिदपि
न्यूनबले वर्तमानो गौणः संपद्यते । तथा यदि विध्युद्देशोपात्ते शूर्पेऽन्नकरणत्व-
मनूद्यते । ततस्तन्न्यूनमात्रापेक्षया वा मुख्यत्वं न्यूनानुपादानाद्वा सामान्यतः
प्रवृत्तस्य सर्वप्रकृष्टगामित्वबुद्धौ सत्यां गौणता । भवतस्त्वपूर्वविधानादत्यन्तसाधक-
तमत्व-वर्तमानत्वयोः क्रियां प्रत्युपादानान्न्यूनापेक्षागौणत्वयोर्निमित्तं नास्ती-
त्यतिकिलेशः स्यादित्यसमानम् ॥ २९ ॥
१७४ मीमांसादर्शनम् [ सू०
न्या० सु०-अर्थशब्दव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्ष इति ।
विधिशेषत्वादितिसूत्रावयवव्याख्यानार्थं वाक्येति भाष्यं व्याचष्टे-वाक्येति । सत्यपि
विधिशेषत्वे कथमर्थवत्तेत्याशङ्कानिराकरणार्थं सम्वादश्चेति भाष्यं व्याचष्टे-तथा चेति ।
वर्त्तमानाङ्गक्रियत्वाभिधानोपपादनार्थं तदा चेति भाष्यं व्याचष्टे-अनेनेति । करोतेरेति
शक्तिलक्षणार्थत्वमनेन भाष्येण वर्त्तमानमितीतिकरणेन अक्रियं वा स्तोतुं सत् क्रियमित्युपदि-
शन्तीत्यपि सूचनाद्दर्शितं भवतीति व्याख्यातुमाह-अथ वेति । अनेन चैवं भाष्यं व्या-
ख्यातम्, कृतं करिष्यमाणं वा स्तोतुं क्रियतइति वर्त्तमानशक्तिकं वा स्तोतुं क्रियत इत्यु-
पदिशतीति । 'अर्थस्तु विधिशेषत्वादित्यस्य' व्यतिरेकप्रदर्शनार्थं त्वत्पक्ष इति भाष्यं
व्याचष्टे-तव त्विति । वर्त्तमानशब्देन क्रियामप्युपलक्ष्येति दोषापादनार्थं विधौ हीति
भाष्यं प्रश्नपूर्वकं व्याचष्टे-किं कारणमिति । परशब्दार्थः प्रतीयतइत्यनेन वाच्यतया
प्रतीतिरुक्तेति, कथंचिद् भ्रान्तिः स्यात् तच्च जहत्स्वार्थतापत्तेरयुक्तमिति प्रयोजनपदप्रक्षे-
पेणोक्तार्थे योजयति-एतदिति । प्रयोजनपदप्रक्षेपे कारणमाह-परेति । न तु वाच्ये
इति शेषः । कस्य शब्दस्यार्थे कः शब्दोऽत्र कल्प्यत इत्यपेक्षायामाह-तद्विहेति । भूत-
वाचिनोऽकारीति लूडः, भविष्यद्वाचिनो वा करिष्यतइति लुटश्चार्थे वर्त्तमानवाची शब्दः
क्रियते इति लट् प्रत्ययः कल्पनीयः । शक्तिवर्त्तमानतावाचिनो वा शक्यत इति शक्नोति
स्वार्थे क्रियावाचो शब्दः क्रियत इति करोति धातुः कल्पनीय इत्यर्थः ।
न चेति भाष्यं शङ्कापूर्वकं व्याचष्टे - अथेति । सक्रियमित्यत्यत्र द्रष्टव्यम् । अशक्या-
र्थत्वमेव दर्शयति-न हीति । तत्र तु विधिवादित्वादित्यारभ्य द्वितीयपूर्वपक्षदूषणमुक्तम् ।
तदुपसंहरति-तस्मादिति । उभयथेति । लाक्षणिकत्वे, मुख्यत्वे च विधिवादिनः क्रियत
इति विप्रतिषिद्धमित्यर्थः । दृष्टान्तव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्षे
त्विति । सत्यप्यन्यस्मिन्प्रकृष्टबले देवदत्तस्यापि बलसद्भावात्कथं गौणतेत्याशङ्कय भूम्यति-
शायने वेत्युक्तम्-स्मरन्ति हि ।
'संयोगेऽस्तिविवक्षायां नित्ययोगेऽतिशायने ।
भूमिनिन्दाप्रशंसासु भवन्ति मतुवादयः ॥ इति
इह च यज्ञदत्तादीन्प्रसहत इति वाक्यशेषाद् भूम्यतिशायने चेति ज्ञायते, दृष्टान्त-
दाष्ट्रान्तिकयोरपेक्षिकातिशयसद्भावान्मुख्यत्वं शङ्कते -- नन्वेवमिति । नानेन भाष्येण
निकृष्टमात्रापेक्षया प्रयोगे गौणत्वमुक्तम्, किं तु सर्वापेक्षयोगे निकृष्टमात्रापेक्षया प्रयोग-
विषयस्य मुख्यस्यातिशयस्योपचारार्थमुपन्यास इति परिहरति-सत्यमिति । मुख्यत्वं
चात्र सम्भवमात्रेणोच्यते, न प्रकृतोपयोगितया, परशब्दार्थग्रहणमित्युपक्रमात् । वर्त्तमान-
क्रियत्वस्य गौणत्वे देवदत्तः पचति, योऽधुना भुङ्क्त इति दृष्टान्तो दातव्यः । विधिपक्षेऽपि
तद्यपेक्षिकं मुख्यमेव साधकतमं भविष्यतीत्याशङ्कयाह-भवतस्त्विति । वर्त्तमानक्रियत्व-
गौणत्वयोर्दृष्टान्तत्वेनात्रोपादानम् । यथा वर्त्तमानक्रियत्वोपादानवत्सर्वापेक्षसाधकतमत्वस्य
३० ] प्रथमाध्याये द्वितीयपादः १७५
क्रियां प्रत्युपादानात्, तस्य च यथा वर्त्तमानक्रियत्वस्य गौणत्वे निमित्तं नास्ति, तथा
साधकतमस्य न्यूनापेक्षायां निमित्तं नास्तीत्यर्थः ॥ २९ ॥
भा० प्र०—पूर्वपक्षी ने शङ्का की है कि शूर्प में अन्नसाधनता न रहने पर उसकी
स्तुति अनुचित है । इसके समाधान में सिद्धान्ती का कहना है कि शूर्प के द्वारा होम की
कर्त्तव्यता श्रुति में उक्त होने पर "तेन हि अन्नं क्रियते" इस प्रकार उपदिष्ट होता है ।
हल आदि वस्तुओं में अन्न की साधनता नहीं है, सभी द्रव्यों से अन्न की निष्पत्ति नहीं
हो सकती है, अतः इन द्रव्यों की अपेक्षा शूर्प की अन्न के प्रति साधनता होने से विहित
शूर्प की स्तुति की जाती है । शूर्प से अतिरिक्त किसी वस्तु में अन्न की साधनता है या
नहीं—यह विचार निष्प्रयोजन है । राम बलवान है—यह कहने पर श्याम, कृष्ण आदि
की अपेक्षा ही उसकी बलवत्ता प्रतीत होती है, व्याघ्र, सिंह आदि की अपेक्षा उसकी
बलवत्ता सिद्ध नहीं होती है ।
'अर्थः' = सफल, 'तु' = किन्तु, "विधिशेषत्वात्" = विधि का शेष या अङ्ग होने
से, "यथा लोके" = जैसे संसार में लौकिक दृष्टान्त में । लौकिक दृष्टान्त में देवदत्त आदि
को बलवान् कहने पर उसके सजातीय कम बल रखने वाले यज्ञदत्त आदि की अपेक्षा ही
उसकी वलवत्ता की प्रतीति होती है । प्रकृत में भी जो द्रव्य अन्न में साधन नहीं है उनकी
तुलना में शूर्प को अन्न का साधन कहा गया है । अतः शूर्प की स्तुति विधि का शेष
या अङ्ग है, यह कथन असङ्गत है ॥ २९ ॥
यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदव्यवस्था
विधीनां स्यात् ॥ १.२.३० ॥
शा० भा०—यद्यपि च भवेदन्नकरणं हेतुर्दवपिठरप्रकाराणाम्, तथाऽपि शूर्प
एवावतिष्ठेत । शब्दादन्नकरणं हेतुरिति विज्ञायते । शब्दश्च शूर्पस्याऽऽह, न दर्वि-
पिठरादीनाम् । तद्धि निर्दिश्यते, यस्माच्छूर्पेणान्नं क्रियते, तस्माच्छूर्पेण जुहो-
तीति । यथा यस्माद्द्बलवदुपध्मातोऽग्नस्तेन मे गृहं दग्धमिति, नानग्निरपि
बलवदुपध्मातो दहतीति गम्यते । अथ मतम्, येन येनान्नं क्रियते प्रणाड्या शूर्पा-
दन्येनापि, तेन तेनापि होमः क्रियत इति । अव्यवस्था विधीनां स्यान्न केनचित् ।
प्रणाड्याऽन्नं क्रियते । तत्र यावदुक्तं स्याज्जुहोतीति, तावदेवान्नकरणेन जुहोतीति ।
अस्मत्पक्षे पुन. शूर्पं स्तूयते । तेन ह्यन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च
वृत्तान्तज्ञापनाय, किं तर्हि, परोचनायैव । तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव
कार्यमिति ॥ ३० ॥
इति तृतीयं हेतुवन्निगदाधिकरणम्
१७६ मीमांसादर्शनम् [ सू०
भा० वि०—अभ्युपगम्यापि हेतुपरत्वं न दर्व्यादौ प्रसङ्ग इत्याह—यदि च
हेतुरिति । यदि चेत्यादिसूत्रभागं व्याचष्टे—यद्यपि चेति । दर्वीपिठरप्रकाराणां
दर्वीपिठरजातीयानामन्नकरणत्वं हेतुः यद्यपि भवेत्, तथापि स हेतुः शूर्प एव
व्यवतिष्ठेतेत्यन्वयः, दर्वीपिठरप्रकाराणामित्यनेनात्यन्तसाधकतमत्वाभावेऽपि
दर्व्यादिसाधारणं साधकतमत्वरूपं करणत्वं शूर्पस्य दर्शितम् ।
ननु कथं शूर्पगतमेवान्नकरणत्वं हेतुः स्यादित्याशङ्कयानिर्देशादिति सूत्रमात्रं
व्याचष्टे—शब्दादिति । नत्वकरणत्वसत्तामात्रेणेत्यर्थः, हेतोः शब्दनिर्दिष्टत्वे
सत्यपि कथं व्यवस्थेत्यत आह—शब्दवृत्तेरिति । शूर्पगतस्यान्नकरणत्वस्यैव हेतुत्व-
माहेत्यर्थः, कथमिदमवगम्यते ? तत्राह—तद्धीति । शूर्पं हि होमसम्बन्धितया
निर्दिश्यते=प्रतिज्ञायत इत्यर्थः । अन्यस्मिंश्च प्रतिज्ञातेऽन्यगतस्य हेतुत्वायोगात्
शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः तत्र सिद्धं वाक्यार्थमाह—यस्मादिति ।
शूर्पेण जुहोतीति इति तेन वाक्यार्थस्सिद्धो भवतीति शेषः ।
ननु यस्माद्धूमवान् पर्वतः तस्मादग्निमानित्यादौ यथा न पर्वतगतत्वं विशेष-
णमादाय हेतुत्वम्, तद्वदिह किं न स्यादित्याशङ्क्य नेदं सामान्यतो दृष्टं किंतु
विशेषतो दृष्टमत उदाहरति—यथेति । नह्यत्र बलवदुपाध्मातत्वमात्रं गृहदाह-
कत्वे हेतुः शङ्खादेरपि प्रसङ्गात् तेनाग्निगतत्वेन विशेषितं तद्वदत्रापि इति
भावः, “सामान्यादिति चेत्” इति सूत्रावयवं व्याचष्टे—अन्येनापीति ।
अन्येन दर्व्यादिनेत्यर्थः, तेनेति तृतीया सर्वनामार्थस्य शूर्पस्य बाधादन्नकरणत्व-
मात्रं हेतुः स्यादिति शङ्कार्थः । सूत्रशेषेणोत्तरमाह—अव्यवस्थेति । तथा सतीति-
शेषः, अतिप्रसङ्गं विवृणोति—न केनचिदिति । सर्वेणापि यथाकथञ्चित् क्रियत
इत्यर्थः, तत्र च विधिवैयर्थ्यमित्याह—तत्रेति । जुहोतीत्युक्तेऽपि येन केनचिद्धो-
तव्यमिति तावत् प्रतीयते अन्नकरणेनेत्युक्तेऽपि सर्वस्यान्नकरणत्वात् सर्वेण च
होतुमशक्यत्वाद्येन केनचिदित्येव प्रतीयते, ततो विधिरनर्थकः स्यादिति प्रत्यय-
स्यैव बाधः, तस्माद्धेतुत्वाभ्युपगमेऽपि शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः,
एवमभ्युपगम्यापि हेतुत्वं व्यवस्था मुक्त्वाभ्युपगमं त्यजन् स्वपक्षे हेत्वनभिधानाद्धि
शब्दानुपपत्तिमाशङ्क्य परिहति—अस्मत्पक्ष इति । प्रसिद्धान्नकरणत्वाभिधानेन
स्तुत्यर्थो हिशब्द इत्यर्थः ।
ननु कथमस्य स्तुतिपरत्वम् ? वृत्तान्तपरत्वप्रतीतेरत आह—वृत्तान्तेति ।
वृत्तान्तस्य मानान्तरसिद्धतया तज्ज्ञानेऽनुपयोगात् स्तुतिपरत्वमेव वाक्यस्यावग-
म्यते इत्यर्थः, तस्मद्धिवन्निगदानामिवैषामपि स्तुतिपरत्वमेवेत्यधिकरणार्थ-
मुपसंहरति—तस्मादिति । शूर्पस्यापि मुख्यकरणत्वाभावात् विधौ च लक्षणा-
योगात् हेतुत्वानुपपत्तेरिति । इतरधिकरणसमाप्तिं द्योतयति ॥ ३० ॥