बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
४१० बृहत्संहिता
दिक्षु स्थिते शुभे शकुन एतेषु स्थानेषु रूप्यादीनां लब्धिरशुभे हानिः। संयोगो वियोगो
वा केनचित् सह चौरादिस्थानपरिग्रहमिति।।८०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सर्वशाकुने
मिश्रकं नाम षडशीतितमोऽध्यायः ॥८६॥
अथ शाकुनेऽन्तरचक्राध्यायः
अथ शाकुनेऽन्तरचक्रं व्याख्यायते। तत्रादौ प्राग्द्वात्रिंशद्भागप्रविभक्ते दिक्चक्रे शान्तासु
दिक्षु स्थिते शकुने फलान्याह—
ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति।
शकुनः पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् ॥१॥
यदि पूर्व दिशा में स्थित शकुन कोलाहल करे तो राजा के आश्रित पुरुष का आगमन
तथा पूजा-लाभार्थ मणि और रत्नों की प्राप्ति को सूचित करता है। यदि वह शकुन शुभ
हो तो उत्तम फल, मध्यम हो तो मध्यम फल और अशुभ हो तो किञ्चित् शुभ फल
प्रदान करता है॥१॥
ऐन्द्र्यां पूर्वस्यां दिश्याशायां शान्तायां विरुवन् क्रोशन् नृपसंश्रितस्य राजसमाश्रितस्यागमं
वक्ति कथयति। तथा तत एव पूजालाभार्थानां मणिरत्नानां प्रधानरत्नानां द्रव्याणामन्येषां
सुवर्णादीनां सम्प्राप्तिं लाभं च कथयति। याद च स शकुनः शुभः, अथ मध्यमस्तदा मध्यमं
फलं करोति। अथाशुभस्तदा किञ्चिच्छुभम्। एवं सर्वं परिज्ञेयम्॥१॥
अथान्यदाह—
तदनन्तरदिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च।
आयुधधनपूगफलागमस्तृतीये भवेद् भागे ॥२॥
पूर्व दिशा के बाद प्रदक्षिणक्रम से द्वितीय भाग में स्थित शकुन कोलाहल करे तो
सोने की प्राप्ति और अभीष्ट अर्थ की सिद्धि होती है। यदि तृतीय भाग में स्थित शकुन
कोलाहल करे तो शस्त्र, धन और सुपारी की प्राप्ति होती है॥२॥
तस्या एव पूर्वस्या अनन्तरदिशि प्रादक्षिण्येन द्वितीयदिशि स्थिते शकुने कनकागमः
सुवर्णलाभो भवति, वाञ्छितस्याभिलषितस्य च कार्यस्य सिद्धिर्भवति। तृतीये भागे आयुधस्य
च खड्गादेर्धनस्य वित्तस्य पूगफलानां वाऽऽगमो लाभो भवति॥२॥
अन्यदप्याह—
स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च।
कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः ॥३॥
चतुर्थ भाग में स्थित शकुन कोलाहल करे तो पवित्र ब्राह्मण और अग्निहोत्री का
दर्शन होता है। आग्नेय कोण में स्थित शकुन कोलाहल करे तो सुवर्ण और लोह ( शस्त्र )
की प्राप्ति तथा भिक्षुक का दर्शन होता है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४१२ बृहत्संहिता
चतुर्थे भागे स्निग्धस्येष्टस्य द्विजस्य ब्राह्मणस्य तथाऽऽहिताग्नेर्याजकस्य सन्दर्शनं
कनकस्य सुवर्णस्य लोहस्य शस्त्रस्य च प्राप्तिर्लाभो भवतीत्यर्थः। आग्नेये कोणे अनु-
जीविनो भिक्षोः प्रदर्शनम्।।३।।
अथान्यदप्याह—
याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिर्भिमतस्याप्तिः।
परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिरप्युक्ता ।।४।।
दक्षिण दिशा के प्रथम भाग में स्थित शकुन कोलाहल करे तो राजकुमार का
दर्शन, कार्यों की सिद्धि और अभीष्ट अर्थ की प्राप्ति होती है। द्वितीय भाग में स्थित
शकुन कोलाहल करे तो स्त्री और धर्म एवं सरसों और जौ की भी प्राप्ति होती है।।४।।
याम्येन दक्षिणदिग्भागेन तदाद्येनोपलक्षित आद्यः, स च कोणाद् बहिः। आद्ये प्रथम-
भागे नृपपुत्रस्य राजपुत्रस्य दर्शनं सिद्धिश्च भवति कार्याणाम्। अभिमतस्याभीष्टस्यार्थस्य
चाप्तिर्लाभो भवति। परतोऽनन्तरं द्वितीये भागे स्त्रीप्राप्तिर्धर्मप्राप्तिश्च भवति। सर्षपाणां
यवानामपि लब्धिरुक्ता कथिता।।४।।
अन्यदप्याह—
कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य।
यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद्याता ।।५।।
आग्नेय कोण से चतुर्थ भाग में स्थित शकुन कोलाहल करे तो पूर्व में नष्ट द्रव्य का
लाभ होता है। गमन करने वाला गमनकाल में जो कुछ फल होता है, उसको जिस-
किसी भी प्रकार से प्राप्त करता है।।५।।
कोणादारभ्य यश्चतुर्थखण्डस्तस्मिन् पूर्वनष्टस्य प्रागपहृतस्य द्रव्यस्यार्थस्य लब्धिर्लाभो
भवति। याता यात्रायां यद्वा यत्तत् फलं तद्वा येन तेन प्रकारेणाप्नुयात् प्राप्नोतीत्यर्थः।।५।।
अन्यदप्याह—
यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च।
याम्याद् द्वितीयभागे चारणसङ्गः शुभं प्रीतिः ।।६।।
दक्षिण भाग में स्थित शकुन कोलाहल करे तो यात्रा की सिद्धि तथा मयूर, भैंस
और मुर्गे की प्राप्ति होती है। दक्षिण भाग से द्वितीय भाग में स्थित शकुन कोलाहल करे
तो चारण (नट-नर्त्तक) के साथ संयोग तथा शुभ कार्य और धर्मादि की प्राप्ति को
सूचित करता है।।६।।
समश्चासौ दक्षिणो भागः समदक्षिणः। तस्मिन् समदक्षिणे च यात्रासिद्धिर्भवति। शिखी
मयूरः। शिखिमहिषकुक्कुटानां चाप्तिर्लाभो भवति। याम्यात् समदक्षिणाद् द्वितीये भागे
चारणा नटनर्तकप्रभृतयः। तैः सह सङ्गः संयोगो भवति, शुभं धर्मादिप्रीतिश्च भवति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनेऽन्तरचक्राध्यायः ४१३
अन्यदप्याह—
ऊर्ध्वं सिद्धिः कैवर्तसङ्गमो मीनतित्तिराद्याप्तिः ।
प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ॥७॥
तृतीय भाग में स्थित शकुन कोलाहल करे तो कार्यों की सिद्धि, कैवर्त का संयोग
तथा मछली और तीतर की प्राप्ति होती है। चतुर्थ भाग में स्थित शकुन कोलाहल करे
तो संन्यासी का दर्शन तथा पक्वान्न और फल का लाभ होता है॥७॥
ऊर्ध्वं द्वितीयभागात् परतस्तृतीयभागे सिद्धिः कार्याणां भवति। कैवर्तेन सङ्गस्तेन
सह संयोगो मीनतित्तिरादीनां प्राप्तिश्च भवति। मीनो मत्स्यः। तित्तिरः पक्षी। आदिग्रहणाद्
लावकादयः। तत्परे चतुर्थे भागे प्रव्रजितस्य गृहीतव्रतस्य दर्शनं भवति, पक्वान्नस्य फलानां
च लब्धिर्लाभो भवति॥७॥
अन्यदप्याह—
नैर्ऋत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखाप्तिः ।
परतोऽस्य चर्मतच्छिल्पिदर्शनं चर्ममयलब्धिः ॥८॥
नैर्ऋत्य कोण में स्थित शकुन कोलाहल करे तो स्त्री, घोड़ा, भूषण, दूत और लिखी
हुई वस्तु की प्राप्ति होती है। नैर्ऋत्य कोण से द्वितीय भाग में स्थित शकुन कोलाहल
करे तो चर्मशिल्पी का दर्शन और चमड़े से निर्मित भाण्ड आदि का लाभ होता है॥८॥
नैर्ऋत्यां स्त्रीलाभो भवति। तुरगस्याश्वस्यालङ्करणस्य भूषणस्य दूतस्य देशावेदिनो
लेखस्य च प्राप्तिर्भवति। अस्य नैर्ऋतभागस्य परतोऽनन्तरं चर्मदर्शनं भवति। तच्छिल्पी
चर्मशिल्पी तस्यापि दर्शनमवलोकनम्। चर्ममयस्य भाण्डस्य उपहारादेर्लब्धिर्लाभो भवति।
अन्यदप्याह—
वानरभिक्षुश्रमणावलोकनं नैर्ऋतात् तृतीयांशे ।
फलकुसुमदन्तघटितागमश्च कोणाच्चतुर्थांशे ॥९॥
नैर्ऋत्य कोण से तृतीय भाग में स्थित शकुन कोलाहल करे तो वानर, भिक्षुक और
बौद्ध संन्यासी का दर्शन होता है। नैर्ऋत्य कोण से चतुर्थ भाग में स्थित शकुन कोलाहल
करे तो फल, पुष्प तथा दाँत से बनी हुई वस्तु की प्राप्ति होती है॥९॥
नैर्ऋतात् कोणात् तृतीयांशे तृतीयभागे वानरस्य कपेर्भिक्षोर्यतेः श्रवणस्य बौद्धस्य
चावलोकनं दर्शनमित्यर्थः। कोणात्रैर्ऋतकोणाच्चतुर्थांशे चतुर्थभागे फलादीनामास्रादीनां
कुसुमानां पुष्पाणां दन्तघटितानां दन्तादिकृतानां चागमो भवति॥९॥
अन्यदप्याह—
वारुण्यामर्णवजातरत्नवैदूर्यमणिमयप्राप्तिः ।
परतोऽतः शबरव्याधचौरसङ्गः पिशितलब्धिः ॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४१४ बृहत्संहिता
पश्चिम दिशा में स्थित शकुन कोलाहल करे तो समुद्र से उत्पन्न रत्न, वैदूर्य मणि
और रत्नों से बनाये हुये भाण्डों की प्राप्ति होती है। पश्चिम दिशा से द्वितीय भाग में स्थित
शकुन कोलाहल करे तो भील, व्याध और चोरों का संग तथा मांस का लाभ होता
है।।१०।।
वारुण्यां पश्चिमायामर्णवजातानां समुद्रसम्भूतानां रत्नानां वैदूर्यादीनां मणीनां मणिमयानां
रत्नकृतानां च भाण्डानां प्राप्तिर्लाभो भवति। अतो वारुण्याः परतोऽनन्तरं शबरैः शबरज-
नैर्व्याधैर्लुब्धकजनैश्चौरैस्तस्करैश्च सह सङ्गमो योगो भवति। पिशितस्य च मांसस्य लब्धि-
र्लाभो भवति।।१०।।
अन्यदप्याह—
परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः ।
आयुधपुस्तकलब्धिस्तद्वृत्तिसमागमश्चोर्ध्वम् ॥११॥
पश्चिम दिशा से तृतीय भाग में स्थित शकुन कोलाहल करे तो वातरोगियों का दर्शन
तथा चन्दन और अगर की प्राप्ति होती है। पश्चिम दिशा से चतुर्थ भाग में स्थित शकुन
कोलाहल करे तो शास्त्र और पुस्तक की प्राप्ति तथा इन वस्तुओं को बेचने वाले से
मुलाकात होती है।।११।।
परतोऽनन्तरमस्मिन् भागे वातरोगिणामनिलव्याध्यर्दितानां दर्शनम्। चन्दनस्य मलय-
जस्य, अगुरोः सुगन्धद्रव्यस्य प्राप्तिर्लाभो भवति। अत ऊर्ध्वमतः परमन्यस्मिन् भागे आयुधस्य
खड्गादेः पुस्तकस्य च शास्त्रस्य लब्धिः। तद्वृत्तीनामायुधपुस्तके एव वृत्तिर्वर्तनं येषां तैः
सह समागमः संयोगो भवति।।११।।
अन्यदप्याह—
वायव्ये फेनकचामरौर्णिकाप्तिः समेति कायस्थः ।
मृन्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम् ॥१२॥
वायव्य कोण में स्थित शकुन कोलाहल करे तो समुद्रफेन, चामर और ऊनी वस्त्र
की प्राप्ति तथा कायस्थ जाति के मनुष्य से समागम होता है। वायव्य कोण से द्वितीय
भाग में स्थित शकुन कोलाहल करे तो मिट्टी के भाण्ड का लाभ, नग्नाचार्य से संयोग
और डिण्डिभाण्ड ( पटह, मृदङ्ग आदि वाद्यविशेष ) का लाभ होता है।।१२।।
वायव्ये कोणे फेनकस्य चामरस्य बालव्यजनस्यौर्णिकस्य च कम्बलादेः प्राप्तिर्भवति।
कायस्थो देवरः समेति संयोगं याति। अन्यस्मिन् द्वितीयभागे मृन्मयस्य द्वितीयस्य भाण्डस्य
लाभः। वैतालिको नग्नाचार्यः। डिण्डिभाण्डानि वादित्रविशेषाः। पटहमृदङ्गकरटाः समेता
यत्र वाद्यन्ते तानि डिण्डिभाण्डानि तेषां लाभः।।१२।।
अन्यदप्याह—
वायव्याच्च तृतीये मित्रेण समागमो धनप्राप्तिः ।
वस्त्राश्चाप्तितरतः परमिष्टसुहृत्सम्प्रयोगश्च ॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनेऽन्तरचक्राध्यायः ४१५
वायव्य कोण से तृतीय भाग में स्थित शकुन कोलाहल करे तो मित्र से समागम
और धन की प्राप्ति होती है। वायव्य कोण से चतुर्थ भाग में स्थित शकुन कोलाहल करे
तो वस्त्र और घोड़े की प्राप्ति तथा प्रिय मित्रजन का समागम होता है।।१३।।
वायव्यकोणात् परे तृतीयभागे मित्रेण सह सुहृदा सह समागमो भवति। धनस्यार्थस्य
च प्राप्तिः। अतोऽस्मात् तृतीयात् परं वस्त्रस्याम्बरस्याश्वस्य तुरगस्य च प्राप्तिः। इष्टेन
वल्लभेन सुहृदा मित्रेण सह सम्प्रयोगः समागमः ।।१३।।
अन्यदप्याह—
दधितण्डुललाजानां लब्धिरुदग् दर्शनं च विप्रस्य ।
अर्थावाप्तिरनन्तरमुपगच्छति सार्थवाहश्च ।।१४।।
उत्तर दिशा में स्थित शकुन कोलाहल करे तो दही, चावल और खीलों ( लावा )
की प्राप्ति तथा ब्राह्मणों का दर्शन होता है। उत्तर दिशा से द्वितीय भाग में स्थित शकुन
कोलाहल करे तो धन की प्राप्ति और बनिये के साथ समागम होता है।।१४।।
उदगुत्तरस्यां दिशि दधितण्डुललाजानां लब्धिः। दध्नस्तण्डुलानां लाजानां च लाभो
भवति। विप्रस्य ब्राह्मणस्य दर्शनमवलोकनम्। अनन्तरमतः परमन्यस्मिन् भागेऽर्थवाप्ति-
र्थलाभो भवति सार्थवाहश्चोपगच्छति आयाति।।१४।।
अन्यदप्याह—
वेश्यावटुदाससमागमः परे शुक्लपुष्पफललब्धिः ।
अत ऊर्ध्वं चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः ।।१५।।
उत्तर दिशा से तृतीय भाग में स्थित शकुन कोलाहल करे तो वेश्या, ब्राह्मण और
भृत्य का समागम तथा सफेद फूलों का लाभ होता है। उत्तर दिशा से चतुर्थ भाग में
स्थित शकुन कोलाहल करे तो चित्रकार का दर्शन और चित्र वस्त्रों का लाभ होता
है।।१५।।
परेऽन्यस्मिन् भागे वेश्या बन्धकी। वटुर्ब्राह्मणः। दासो भृत्यः। एतैः समागमः संयोगः।
शुक्लपुष्पाणां फलानां च लब्धिर्लाभो भवति। अत ऊर्ध्वमतः परमन्यस्मिन् भागे चित्रक-
रस्य दर्शनं भवति। चित्राणां नानावर्णानां वस्त्राणामम्बराणां च प्राप्तिर्भवति।।१५।।
अन्यदप्याह—
ऐशान्यां देवलकोपसङ्गमो धान्यरत्नपशुलब्धिः ।
प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ।।१६।।
ईशान कोण में स्थित शकुन कोलाहल करे तो देवलक ( पुजारी आदि ) के साथ
समागम तथा धान्य, रत्न और पशुओं का लाभ होता है। पूर्व के प्रथम भाग ( ईशान
कोण से द्वितीय भाग ) में स्थित शकुन कोलाहल करे तो वस्त्र की प्राप्ति और वेश्या के
साथ समागम होता है।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४१६ बृहत्संहिता
ऐशान्यां दिशि देवलकेन भोजकेनोपसङ्गमः संयोगो भवति। धान्यरत्नपशूनां च लब्धिः।
प्राक् प्रथमे पूर्वस्यां दिशि प्रथमे भागे वस्त्राप्तिरम्बरलाभो बन्धक्या वेश्यया सह समागमो
भवति।।१६।।
अन्यदप्याह—
रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः।
हस्त्युपजीविसमाजश्चास्माद् धनहस्तिलब्धिश्च ॥१७॥
ईशान कोण से तृतीय भाग में स्थित शकुन कोलाहल करे तो धोबी के साथ
समागम और जल से उत्पन्न द्रव्य का लाभ होता है। ईशान कोण से चतुर्थ भाग में
स्थित शकुन कोलाहल करे तो हाथी से जीविका करने वाले के साथ समागम तथा
उससे धन और हाथी का लाभ होता है।।१७।।
रजकेन वस्त्ररागकृता समायोगो जलजानां जलोत्पन्नद्रव्याणामागमो लाभश्च भवति।
अतोऽस्मात् परतो हस्त्युपजीविभिर्हस्तिनामनुजीविभिः समाजः संयोगो भवति। अस्माच्च
समाजाद् धनलब्धिर्हस्तिलब्धिश्च भवति।।१७।।
अत्रैव विशेषमाह—
द्वात्रिंशत्प्रविभक्तं दिक् चक्रं वास्तुवत्सनेम्युक्तम्।
अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि ॥१८॥
वास्तु की तरह नेमि के साथ यह बत्तीस से विभक्त दिक् चक्र कहा गया है। अब
अर ( चक्र के मध्यवर्ती भाग ) और नाभि ( मध्य भाग ) के मध्य में स्थित शकुन के
द्वारा नव प्रकार से फल की कल्पना करनी चाहिये।।१८।।
दिक् चक्रं दिङ्मण्डलं वास्तुवद्द्वात्रिंशद्भागप्रविभक्तं सनेम्युक्तं नेम्या सह कथितम्।
नेमियुक्तस्यैतत् फलम्। यथा वास्तुबन्धने द्वात्रिंशद्भागप्रविभक्ते वास्तुप्रतिदिशमष्टौ द्वाराणि
विभक्तान्येवं दिक् चक्रमपि विभक्तम्, तत्रैतत्फलम्। अरनाभिस्थैररणीनाभिस्थैः। अराश्चक्रस्य
मध्यवर्तिनः। नाभिर्मध्यं तैररनाभिस्थैः शकुनैरन्तर्मध्ये नवधा नवप्रकारं फलानि विकल्प्यानि
विकल्पनीयानि।।१८।।
तानि चाह—
नाभिस्थे बन्धुसुहृत्समागमस्तुष्टिरुत्तमा भवति।
प्राग्रक्तपट्टवस्त्रागमस्त्वरे नृपतिसंयोगः ॥१९॥
यदि नाभिस्थान में स्थित शकुन हो तो बन्धु और मित्रों के साथ समागम तथा
उत्तम तुष्टि का लाभ होता है। यदि पूर्व भागस्थित अर में शकुन हो तो लाल वस्त्र का
लाभ और राजा के साथ समागम होता है।।१९।।
नाभिस्थे चक्रनाभिस्थे शकुने बन्धुभिः कुटुम्बैः सुहृद्भिर्मित्रैः सह समागमः संयोगो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनेऽन्तरचक्राध्यायः ४१७
भवति। उत्तमा प्रकामा च तुष्टिः। प्राक् पूर्वभागे योऽरस्तत्र स्थिते शान्ते शकुने रक्तस्य
लोहितस्य पट्टस्य वस्त्रस्याम्बरस्य चागमो लाभो भवति। नृपतिना राज्ञा सह संयोगः।।१९।।
अन्यदप्याह—
आग्नेये कौलिकतक्षपारिकर्म्याश्वसूतसंयोगः।
लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिर्वा ।।२०।।
यदि आग्नेय कोण के अर में शकुन हो तो जुलाहा, बढ़ई, कारीगर या गणित के
परिकर्मों को जानने वाले, घोड़ा, सहीस—इनके साथ समागम तथा इन लोगों के बनाये
हुये द्रव्यों का या घोड़े का लाभ होता है।।२०।।
आग्नेयेऽरे कौलिकस्तन्तुवायः। तक्षो वर्धकिः। पारिकर्मा परिकर्म वेत्ति यः स पारिकर्मा।
गणितपरिकर्माणि जानाति यः। केचित् कर्मज्ञा इत्याहुः। अश्वस्तुरगः। सूतोऽश्ववाहकः।
एतैः सह संयोगो भवति। तत्कृतानां कौलिकादिकृतानां द्रव्याणां लब्धिर्लाभः। अश्वलब्धिस्तु-
रगलब्धिश्च वा भवति।।२०।।
अन्यदप्याह—
नेमीभागं बुद्ध्वा नाभीभागञ्च दक्षिणे योऽरः ।
धार्मिकजनसंयोगस्तत्र भवेद् धर्मलाभश्च ॥२१॥
चक्र की नेमि ( प्रान्त ) और नाभि के भाग को जानकर दक्षिण में जो अर हो, उसमें
स्थित शकुन हो तो धार्मिक मनुष्यों के साथ समागम और धर्म का लाभ होता है।।२१।।
नेमी चक्रस्य प्रान्तं तस्या नाभेश्च भागं बुद्ध्वा प्रविभागं ज्ञात्वा दक्षिणेन दक्षिणस्यां
दिशि योऽरस्तत्र स्थिते शकुने धार्मिकजनैः सह संयोगो भवति धर्मलाभश्च।।२१।।
अन्यदप्याह—
उस्राक्रीडककापालिकागमो नैर्ऋते समुद्दिष्टः ।
वृषभस्य चात्र लब्धिर्माषकुलत्थाद्यमशनं च ॥२२॥
यदि नैर्ऋत्य कोण के अर में स्थित शकुन हो तो गाय, खेलने वाला और कापालिक
के साथ समागमं, बैल का लाभ तथा उड़द, कुलथी आदि भोजन का लाभ होता है।।२२।।
उस्रा गौः। क्रीडको यः क्रीडयति। कापालिकः प्रसिद्धस्तपस्वी। एषामागमो नैर्ऋतेऽरे
समुद्दिष्टः कथितः। अत्रास्मिन्नरे वृषभस्य दान्तस्य च लब्धिर्लाभो भवति। अशनं भोज्यं
माषकुलत्थाद्यं भवति। माषकुलत्यौ प्रसिद्धौ सस्यविशेषौ। आद्यग्रहणाद् यवगोधूमकङ्गुनिका
गृह्यन्ते।।२२।।
अन्यदप्याह—
अपरस्यां दिशि योऽरस्तत्रासक्तिः कृषीवलैर्भवति ।
सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥२३॥
बृ० भ० द्वि०-२७
४१८ बृहत्संहिता
यदि पश्चिम दिशा के अर में स्थित शकुन हो तो किसानों के साथ समागम तथा
समुद्र में उत्पन्न द्रव्य, काच ( मणिविशेष ), फल और मद्य का लाभ होता है।।२३।।
अपरस्यां पश्चिमायामरस्तत्र तस्मिन् कृषीवलैः कार्षिकैरासक्तिः संयोगो भवति। सामुद्र-
द्रव्याणां सुसारस्य काचस्य च लब्धिर्लाभो भवति। सुसारो मणिविशेषः। फलानामास्रादीनां
मद्यस्य पानविशेषस्य च लब्धिर्लाभो भवति।।२३।।
अन्यदप्याह—
भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे।
तिलककुसुमस्य लब्धिः सनागपुंनागकुसुमस्य ॥२४॥
यदि वायव्य कोण के अर में स्थित शकुन हो तो भार ढोने वाले, बढ़ई और भिक्षुक
का दर्शन तथा तिलक, नाग, पुन्नाग—इसके फूलों का लाभ होता है।।२४।।
वायव्यां दिशि योऽरस्तत्संस्थे शकुने भारवहो भारवाहकः। तक्षो वर्धकिः। भिक्षुको
यतिः। एषां सन्दर्शनं भवति। तिलककुसुमस्य, तिलको वृक्षविशेषः, तत्पुष्पाणां लब्धि-
र्भवति। पुन्नागकुसुमस्य पुन्नागपुष्पस्य सनागस्य नागकुसुमेन सहितस्य लब्धिर्भवति।।२४।।
अन्यदप्याह—
कौबेर्यां दिशि योऽरस्तत्रस्थो वित्तलाभमाख्याति।
भागवतेन समागमनमाचष्टे पीतवस्त्रैश्च ॥२५॥
उत्तर दिशा के अर में स्थित शकुन हो तो धन का लाभ तथा वैष्णव, ब्राह्मण और
पीले वस्त्र के साथ समागम होता है।।२५।।
कौबेर्यामुत्तरस्यां दिशि शान्तायां योऽरस्तत्रस्थः शकुनो वित्तलाभं धनलब्धिमाख्याति
कथयति। तथा भागवतेन वैष्णवेन द्विजेन सह समागमं संयोगमाचष्टे कथयति। पीत-
वस्त्रैश्च पीतवर्णैरम्बरैः संयोगम्।।२५।।
अन्यदप्याह—
ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति।
लब्धिश्च परिज्ञेया कृष्णायःशस्त्रघण्टानाम् ॥२६॥
यदि ईशान कोण के अर में स्थित शकुन हो तो व्रत करने वाली स्त्री का दर्शन तथा
काला लोहा, शस्त्र और घण्टों का लाभ होता है।।२६।।
ऐशानेऽरे व्रतयुक्ता व्रतस्था वनिता स्त्री सन्दर्शनं समुपयाति गच्छति। कृष्णायसः
कृष्णलोहस्य शस्त्रस्य घण्टानां च लब्धिः परिज्ञेया।।२६।।
अथात्रैव विशेषमाह—
याम्येऽष्टांशे पश्चाद् द्विष्ट्रिसप्ताष्टमेषु मध्यफला।
सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ॥२७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनेऽन्तरचक्राध्यायः ४१९
अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु।
वायव्यानैर्ऋतयोररयोः क्लेशावहा यात्रा ॥२८॥
प्रदक्षिणक्रम से दक्षिण के आठवें, पश्चिम के दूसरे, छठे, तीसरे, सातवें और
आठवें तथा उत्तर के दूसरे अष्टमांश में शान्त शकुन हो तो मध्यम फल वाली यात्रा
होती है। शेष पच्चीस अष्टमांशों में शुभ फल देने वाली यात्रा होती है। नाभि के मध्य
में वायव्य और नैर्ऋत्य को छोड़कर शेष छः अरों में शकुन हो तो शुभ फल देने वाली
तथा वायव्य और नैर्ऋत्य कोण के अरों में स्थित शकुन हो तो क्लेश देने वाली यात्रा
होती है॥२७-२८॥
याम्येऽष्टांश इति। याम्ये दक्षिणदिग्भागे योऽष्टांशोऽष्टभागस्तस्मिंस्तथा पश्चात्
पश्चिमदिग्भागे नैर्ऋतकोणादारभ्य द्विषट्त्रिसप्ताष्टमेषु, द्वितीयषष्ठतृतीयसप्तमाष्टमेषु।
तथा सौम्येन उत्तरदिग्भागेन च द्वितीयाष्टांशे एतेषु शकुने स्थिते शान्ते मध्यफला यात्रा भवति।
न शुभा नाप्यशुभेत्यर्थः। शेषेष्वन्येषु भागेषु पञ्चविंशत्सङ्ख्यास्वतिशोभना यात्रा भवति।
अभ्यन्तर इति। नाभ्यामभ्यन्तरे नाभिमध्ये षट्सु चाष्टसु चारेषु वायव्यानैर्ऋतवर्जितेषु
स्थिते शकुने शुभफलदा यात्रा भवति। वायव्यानैर्ऋतयोर्द्वयोररयोः क्लेशावहा कष्टप्रदा
यात्रा भवति॥२७-२८॥
एवमिदं यदुक्तं तच्छान्तासु दिक्षु दीप्तासु वक्ष्यामीत्याह—
शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि।
ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चैव शत्रूणाम् ॥२९॥
ये पूर्वकथित समस्त फल शान्त दिशाओं के कहे गये हैं। अब दीप्त दिशाओं के
फल कहता हूँ। यदि दीप्त पूर्व दिशा में स्थित शकुन हो तो राजा का भय और शत्रुओं
के साथ समागम होता है॥२९॥
इदं यदुक्तं फलं शान्तासु दिक्षु। अतोऽस्मात् परं दीप्तास्वभिधास्यामि कथयिष्यामि।
ऐन्द्र्यां पूर्वस्यां दिशि दीप्तायां स्थिते शकुने नरेन्द्राद् राज्ञो भयं भवति। शत्रूणां रिपूणां
समागमः संयोगो भवति॥२९॥
अन्यदप्याह—
तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम्।
अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च ॥३०॥
यदि पूर्व दिशा के द्वितीय भाग में दीप्त शकुन हो तो सोने का नाश और स्वर्णकार
को भय होता है। पूर्व दिशा के तृतीय भाग में दीप्त शकुन हो तो धन का नाश, कलह
और शस्त्र का प्रकोप होता है॥३०॥
तदनन्तरदिशि पूर्वस्या परतो द्वितीयभागे स्थिते शकुने दीप्ते कनकस्य सुवर्णस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४२० बृहत्संहिता
नाशो भवति, सुवर्णकाराणां च सम्बन्धि भयं भवति। तृतीये भागे अर्थक्षयो वित्तनाशः कलहः
शस्त्रप्रकोपश्च।।३०।।
अन्यदप्याह—
अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः ।
कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ।।३१।।
यदि पूर्व दिशा के चतुर्थ भाग (अग्निकोण) में स्थित दीप्त शकुन हो तो अग्नि
और चोरों का भय होता है। अग्निकोण से द्वितीय भाग में स्थित दीप्त शकुन हो तो
धनक्षय और राजपुत्र का नाश होता है।।३१।।
चतुर्थे प्राग्भागादग्निभयं भवति। आग्नेये च कोणे चौरेभ्यस्तस्करेभ्यो भयं भवति।
कोणादपि आग्नेयकोणात् तृतीयभागे धनस्य वित्तस्य क्षयः। नृपसुतविनाशो राजपुत्रस्य
विनाशः क्षयो म्रियत इत्यर्थः।।३१।।
अन्यदप्याह—
प्रमदागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च।
हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ।।३२।।
आग्नेय कोण से तृतीय भाग में स्थित दीप्त शकुन हो तो स्त्री के गर्भ का नाश होता
है। आग्नेय कोण से चतुर्थ भाग में स्थित दीप्त शकुन हो तो स्वर्णकार और चित्रकार
का नाश तथा शस्त्रकोप होता है।।३२।।
कोणादाग्नेयात् तृतीयभागे स्थिते शकुने प्रमदा जाया तस्या गर्भविनाशो भवेत्
स्यात्। चतुर्थे च भागे हैरण्यकः सुवर्णादिविक्रयिआदिकः, कारुकः शिल्पी, तयोः प्रध्वंसो
विनाशो भवति। तथा शस्त्रकोपश्च।।३२।।
अन्यदप्याह—
अथ पञ्चमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् ।
षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम् ।।३३।।
आग्नेय कोण से पञ्चम भाग में स्थित दीप्त शकुन हो तो राजा का भय तथा मरकी
और मृत पुरुषों का दर्शन होता है। आग्नेय कोण से षष्ठ भाग में स्थित दीप्त शकुन हो
तो डोम और गन्धर्वों का भय होता है।।३३।।
अथानन्तरं पञ्चमे भागे नृपभयं राजभयं भवति। मारी तत्र जनानां मरको भवति। मृतस्य
पुरुषस्य दर्शनमवलोकनं वक्तव्यं वाच्यम्। षष्ठे भागे गन्धर्वाणां गायनानां सडोम्बानां
डोम्बसहितानां भयं भवति। तेभ्यो भयं भवतीत्यर्थः।।३३।।
अन्यदप्याह—
धीवरशाकुनिकानां सप्तमभागाद् भयं भवति दीप्ते।
भोजनविघात उक्तो निर्ग्रन्थभयं च तत्परतः ।।३४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनेऽन्तरचक्राध्यायः ४२१
यदि आग्नेय कोण से सप्तम भाग में स्थित दीप्त शकुन हो तो धीवर और पक्षी
मारने वालों का भय होता है। आग्नेय कोण से अष्टम भाग में स्थित दीप्त शकुन हो तो
भोजन का नाश और नग्न संन्यासी का भय होता है।।३४।।
सप्तमभागे दीप्ते शकुने धीवरः प्रसिद्धः। शाकुनिकः पक्षिघाती। तेभ्यः सकाशाद्भयं
भवति। तत्परतोऽष्टमभागे भोजनस्याशनस्य विघातो नाश उक्तः कथितः। निर्ग्रन्थो नग्न-
क्षपणकस्तस्माच्च भयं भवति।।३४।।
अन्यदप्याह—
कलहो नैर्ऋतभागे रक्तस्रावोऽथ शस्त्रकोपश्च।
अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ।।३५।।
नैर्ऋत्य कोण में स्थित दीप्त शकुन हो तो रक्तस्राव और अग्निकोप होता है।
पश्चिम दिशा के प्रथम भाग में स्थित दीप्त शकुन हो तो चमड़े के बने हुये जूते, वस्त्र
आदि का नाश और चर्मकार से भय होता है।।३५।।
नैर्ऋतकोणे कलहो रक्तस्रावोऽसृक्स्रुतिः। शस्त्रकोपः संग्रामश्च भवति। अपराद्ये पश्चिम-
प्रथमभागे चर्मकृतं चर्ममयं वस्त्रोपानहादिकं विनश्यते नाशं याति। चर्मकारभयं चर्मकाराच्च
भीतिर्भवति।।३५।।
अन्यदप्याह—
तदनन्तरे परिव्राट् श्रवणभयं तत्परे त्वनशनभयम्।
वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ।।३६।।
यदि पश्चिम दिशा के द्वितीय भाग में स्थित दीप्त शकुन हो तो तपस्वी और बौद्ध
संन्यासी का भय, तृतीय भाग में स्थित हो तो उपवास का भय, ठीक पश्चिम में स्थित
हो तो वृष्टि का भय तथा पञ्चम भाग में स्थित दीप्त शकुन हो तो कुत्ते और चोरों का
भय होता है।।३६।।
तदनन्तरं द्वितीये भागे परिव्राजकस्य तपस्विनो भयं श्रवणाच्छाक्यभिक्षोश्च भयं भवति।
तत्परे तृतीये भागे त्वनशनभयमुपवासभीतिर्भवति। वारुण्ये पश्चिमायां वृष्टिभयं वर्षणाद्
भीतिर्भवति। परतोऽनन्तरमन्यस्मिन् भागे श्वतस्कराणां सारमेयानां चौराणां च सम्बन्धि
भयं भवति।।३६।।
अन्यदप्याह—
वायुग्रस्तविनाशः परे परे शस्त्रपुस्तवार्तानाम्।
कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ।।३७।।
यदि पश्चिम दिशा के षष्ठ भाग में स्थित दीप्त शकुन हो तो वातरोगियों का नाश,
सप्तम भाग में स्थित हो तो शस्त्र और पुस्तकों से जीविका करने वालों का नाश,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४२२ बृहत्संहिता
वायव्य कोण में स्थित हो तो शास्त्र का नाश तथा वायव्य कोण से द्वितीय भाग में स्थित
दीप्त शकुन हो तो विष, चोर और वायु का भय होता है।।३७।।
तत्परतो भागे वायुग्रस्तविनाशः, वायुनाऽनिलेन ग्रस्तः क्रोडीकृतो वायुग्रस्तो वातादिना
विनाशो मरणं भवति। परे परभागेऽन्यस्मिन् शस्त्रपुस्तवार्तानां भवति। शस्त्रमायुधम्, पुस्तं
लिपिकर्म। शस्त्रपुस्तयोर्वार्ता वर्तनं येषां तेभ्यो भयं भवति। कोणे वायव्ये पुस्तकस्य शास्त्र-
स्य विनाशो भवति। परे द्वितीये भागे विषस्तेनवायुकृतं भयम्, विषं प्रसिद्धम्, स्तेनश्चौरः,
वायुर्मरुतः। एभ्यो भयं भवति।।३७।।
अन्यदप्याह—
परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः।
तस्यासन्नेऽश्ववधो भयमपि च पुरोधसः प्रोक्तम् ।।३८।।
यदि वायव्य कोण से तृतीय भाग में स्थित दीप्त शकुन हो तो धन का नाश और
मित्रों के साथ कलह होता है। वायव्य कोण से चतुर्थ भाग में स्थित दीप्त शकुन हो तो
घोड़े का मरण और पुरोहित को भय होता है।।३८।।
परतोऽनन्तरमन्यस्मिन् भागे वित्तस्य धनस्य विनाशः क्षयो भवति। मित्रैः सुहृद्भिश्च
सह विग्रहः कलहो विज्ञेयो ज्ञातव्यः। तस्यासन्ने निकटवर्तिनि द्वितीये भागे अश्वस्य तुरगस्य
वधो मरणं भवति। पुरोधस आचार्यस्य भयं प्रोक्तं कथितम्।।३८।।
अन्यदप्याह—
गोहरणशस्त्रघातावुदक् परे सार्थघातधननाशौ।
आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ।।३९।।
ठीक उत्तर दिशा में स्थित दीप्त शकुन हो तो गायों की चोरी और शस्त्र का विनाश,
उत्तर दिशा से द्वितीय भाग में व्यापारियों का विनाश और धन का नाश, उत्तर दिशा से
तृतीय भाग में स्थित दीप्त शकुन हो तो व्रात्य ( आठ वर्ष से लेकर सोलह वर्ष के
अन्दर उपनयन करने वाला ), भृत्य और वेश्याओं को भय होता है।।३९।।
उदगुत्तरस्यां दिशि गोहरणं गवामपहरणं शस्त्रस्य च घातो विनाशो भवति। परे द्वितीये
भागे सार्थस्य च घातो वधो धननाशो वित्तहानिश्च भवति। आसन्ने निकटवर्तिनि भागे श्वभयं
सारमेयभयं च भवति। तथा व्रात्यद्विजदासगणिकानां भयं भवति। यस्य ब्राह्मणस्याष्ट-
माद् वर्षादारभ्य षोडशवर्षं यावदुपणयनं कृतं स व्रात्यो द्विजः। दासः कर्मकरः। गणिका
वेश्या। एतासां सम्बन्धि भयं भवति।।३९।।
अन्यदप्याह—
ऐशानस्यासन्ने चित्राम्बरचित्रकृद्वयं प्रोक्तम्।
ऐशाने त्वग्निभयं दूषणमप्युत्तमस्त्रीणाम् ।।४०।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
गौ, अश्व, हस्ति, पुरुष व स्त्री लक्षण (अध्याय ६१-७८)
शाकुनेऽन्तरचक्राध्यायः ४२३
यदि ईशान कोण के समीप ( उत्तर दिशा से चतुर्थ भाग ) में स्थित दीप्त शकुन
हो तो चित्र वस्त्र और चित्र बनाने वाले का भय होता है। ईशान कोण में स्थित दीप्त
शकुन हो तो अग्निभय और उत्तम स्त्रियों में भी दोष होता है।।४०।।
ऐशानस्यासन्ने निकटवर्तिनि भागे चित्राम्बरस्य चित्रवस्त्रस्य चित्रकृतश्चित्रकरस्य सम्बन्धि
भयं प्रोक्तं कथितम्। ऐशाने कोणे त्वग्निभयं हुतवहभीतिरुत्तमस्त्रीणां प्रधानयोषितामपि
दूषणं दुष्टत्वं भवति।।४०।।
अन्यदप्याह—
प्रोक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च।
भयमूर्ध्वं रजकानां विज्ञेयं काच्छिकानां च ॥४१॥
ईशान कोण के समीप में स्थित दीप्त शकुन हो तो दुःख की उत्पत्ति और स्त्री का
नाश होता है। इससे आगे ( ईशान कोण से तृतीय भाग में ) स्थित दीप्त शकुन हो तो
धोबी और गन्धर्वों का भय जानना चाहिये।।४१।।
प्राक् पूर्वस्यां दिशि तस्यैवैशानकोणस्यासन्ने निकटवर्तिनि भागे दुःखस्योत्पत्तिरागमः।
स्त्रिया योषितो विनाशो मरणं भवति। ऊर्ध्वं द्वितीयभागे रजकानां वस्त्ररागकृतानां काच्छिकानां
गन्धयोजकानां च सम्बन्धि भयं ज्ञेयं ज्ञातव्यम्।।४१।।
अन्यदप्याह—
हस्त्यारोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ ।
अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे ॥४२॥
मण्डल की समाप्ति ( दिक् चक्र के अन्तिम भाग ) में स्थित दीप्त शकुन हो तो
हाथी पर चढ़ने वालों से भय और हाथी का मरण होता है। पूर्व दिशा के आभ्यन्तर
( मध्य भाग ) स्थित अर में स्थित दीप्त शकुन हो तो निश्चय ही स्त्री का मरण होता
है।।४२।।
मण्डलसमाप्तौ मण्डलस्य द्वात्रिंशत्प्रविभक्तस्य यत्र समाप्तिस्तस्यां स्थिते दीप्ते
शकुने हस्त्यारोहेभ्यो भयं भवति। द्विरदो हस्ती तस्य च विनाशो मरणम्। अभ्यन्तरे तु
मध्यभागे पूर्वे प्राग्भागे योऽरस्तस्मिन् दीप्ते तत्रस्थे शकुने ध्रुवं निश्चितं पत्नीमरणम्, पत्नी
भार्या तस्या मरणं भवति।।४२।।
अन्येष्वप्याह—
शस्त्रानलप्रकोपावाग्नेये वाजिमरणशिल्पिभयम् ।
याम्ये धर्मविनाशोऽपरेऽग्न्यवस्कन्दचोक्षवधाः ॥४३॥
अपरे तु कर्मिणां भयमथ कोणे चानिले खरोष्ट्रवधः ।
अत्रैव मनुष्याणां विसूचिकाविषभयं भवति ॥४४॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
४२४ बृहत्संहिता
उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः ।
ग्रामीणगोपपीडा च तत्र नाभ्यां तथात्मवधः ॥४५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सर्वशाकुनेऽन्तरचक्रं
नाम सप्ताशीतितमोऽध्यायः ॥८७॥
आग्नेय कोणस्थित अर में दीप्त शकुन हो तो शस्त्र और अग्नि का प्रकोप, घोड़ का
नाश तथा शिल्पियों से भय होता है। दक्षिण-स्थित अर में दीप्त शकुन हो तो धर्म का
नाश तथा नैर्ऋत्य कोण-स्थित अर में दीप्त शकुन हो तो अग्नि, ऊपर गमन या दुष्ट के
द्वारा मरण होता है। पश्चिम भाग-स्थित अर में दीप्त शकुन हो तो कारीगरों को भय,
वायव्य कोण-स्थित अर में दीप्त शकुन हो तो गदहे और ऊँटों का नाश तथा मनुष्यों
को विसूचिका रोग और विष का भय होता है। उत्तर-स्थित अर में दीप्त शकुन हो तो
धन और ब्राह्मणों को पीड़ा, ईशान कोण-स्थित अर में दीप्त शकुन हो तो मन में
सन्ताप, ग्रामीण और गोपजनों से पीड़ा तथा नाभि में स्थित दीप्त शकुन हो तो अपनी
मृत्यु होती है॥४३-४५॥
इति 'विमला' हिन्दीटीकायां सर्वशाकुनेऽन्तरचक्राध्यायः सप्ताशीतितमः ॥८७॥
शस्त्रानलेति । आग्नेये कोणे योऽरस्तत्रस्थे दीप्ते शकुने शस्त्रप्रकोपोऽनलस्याग्नेश्च
प्रकोपो भवति। वाजिमरणमश्वविनाशः। शिल्पिभ्यो लेखपुस्तकचित्रकृद्भ्यो भयं भवति।
याम्ये दक्षिणेऽरे धर्मविनाशः। अपरे नैर्ऋते अग्निहुताशनः। अवस्कन्द उपर्यागमनम्।
चोक्षो दुष्ट इति प्रसिद्धः। एभ्यो वधो मरणं भवति।
अपरे त्विति । अपरे पश्चिमे भागे योऽरस्तत्रस्थे शकुने कर्मिणां सम्बन्धि भयं भवति।
अथानन्तरमनिले वायव्येऽरे खराणां गर्दभानामुष्ट्राणां करभाणां च वधो मरणं भवति।
अत्रैव वायव्ये मनुष्याणां पुंसां विसूचिकाभयमुदरशूलभीतिर्विषभयं च भवति।
उदगुत्तरस्यां योऽरस्तत्रार्थस्य धनस्य विप्राणां ब्राह्मणानां च पीडा भवति। ऐशान्यां
दिशि अरे चित्तस्य मनसः सन्तापो भवति। सन्तापश्चित्तविभेदः। तत्र तस्मिन्नेवैशाने भागे
ग्रामीणगोपपीडा भवति। ग्रामीणा ग्राम्यजनाः। गोपा गोपालकाः। एभ्यः पीडा। तथा नाभ्यां
दीप्तायामात्मवध आत्मनो वधो मरणं भवतीति॥४३-४५॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सर्वशाकुनेऽन्तरचक्रं
नाम सप्ताशीतितमोऽध्यायः ॥८७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
Here is the accurate, line-by-line transcription of the text from the image in original Devanagari and English:
अथ विरुताध्यायः
अथ विरुताध्यायो व्याख्यायते। तत्रादावेव दिवसचराणां संज्ञार्थमाह—
श्यामाशयेनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वया-
श्चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः ।
भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः
फेण्टः कुक्कुटपूर्णकूटचटकाः प्रोक्ता दिवासञ्चराः ॥१॥
पोतकी, बाज, शशघ्न, वञ्जुल, मयूर, श्रीकर्ण, चकवा, चाष, अण्डीरक, खञ्जन, तोता,
कौआ, तीन प्रकार के कबूतर, भारद्वाज, गर्त्ताकुक्कुट—ये सभी पक्षी; गदहा; हारियल,
गिद्ध-ये दोनों पक्षी; वानर, फेण्ट पक्षी, मुर्गा, करायिक, चटका—ये पक्षी और सभी
जन्तु दिनचर होते हैं ॥१॥
श्यामा पोतकी। श्येनो वाजिकः। शशघ्नः पक्षी। वञ्जुलः खदिरचञ्चुः। शिखी मयूरः।
श्रीकर्णः पक्षी। चक्राह्वयश्चक्रवाकः। चाषः। अण्डीरकः। खञ्जरीटः। शुकः—एते सर्व
एव पक्षिणः। ध्वाङ्क्षः काकः। कपोतास्त्रयः। आपाण्डुरश्चित्रकपोतः कुङ्कुमधूम्रश्चेति। भारद्वाजः
पक्षी। कुलालकुक्कुटो गर्ताकुक्कुटः। खरो गर्दभः। हारीतगृध्रौ पक्षिणौ। कपिर्वानरः।
फेण्टः पक्षिविशेषः। कुक्कुटः कृकवाकुः। पूर्णकूटः करायिकः। चटकः कलविङ्कः। एते
सर्वे दिवासञ्चरा दिवसचरा उक्ताः कथिताः॥१॥
अथ ये रात्रिसंज्ञास्तेषां च फलमाह—
लोमाशिका पिङ्गलछिप्पिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ।
सर्वे स्वकालोत्क्रमचारिणः स्युर्देशस्य नाशाय नृपान्तदा वा ॥२॥
लोमड़ी, उलूकचेटी, छिप्पिका पक्षी, बागल, उल्लू, खरहा—ये सभी जन्तु रात्रिचर
होते हैं। ये सभी जन्तु अपने काल का अतिक्रमण कर भ्रमण करें (रात्रिचर दिन में
और दिनचर रात्रि में भ्रमण करें) तो देश का नाश और राजा की मृत्यु को सूचित करने
वाले होते हैं॥२॥
लोमाशिका प्रसिद्धा प्राणिविशेषः। पिङ्गल उलूकचेटी। छिप्पिकाख्यः पक्षिविशेषः।
छिप्पिकेत्याख्या नाम यस्य। वल्गुली चर्मचटिका। उलूकः। शशकः प्राणी। एते रात्रौ
चरन्ति। रात्रिचरा वा यदि दिवाचारास्तदा स्वकालोत्क्रमचारिणः। ते च देशस्य जनपदस्य
नाशाय क्षयाय स्युर्भवेयुः। नृपस्य राज्ञोऽन्तदा वा मृत्युकराः स्युः॥२॥
अथोभयचारिण आह—
हयनरभुजगोष्ट्रद्वीपिसिंहर्क्षगोधा
वृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४२६ बृहत्संहिता
पृषतमृगशृगालश्वाविदाख्यान्यपुष्टा
द्युनिशमपि बिडालः सारसः सूकरश्च ॥३॥
घोड़ा, मनुष्य, साँप, ऊँट, चीता, सिंह, रीछ, गोह, भेड़िया, नेवला, हरिण, कुत्ता,
बकरा, गौ, बाघ, हंस, पृषत ( मृगजाति ), मृग, सियार, बिल में रहने वाले प्राणी,
कोयल, बिल्ली, सारस पक्षी, सूअर—ये सभी दिन, रात्रि दोनों में चरने वाले हैं॥३॥
हयोऽश्वः। नरो मनुष्यः। भुजगः सर्पः। उष्ट्रः करभः। द्वीपी चित्रकः। सिंहो हरिः।
ऋक्षः प्राणी। गोधा प्राणिविशेषः। वृको मृगजातिः। नकुलः प्रसिद्धो बिलेशयः प्राणी।
कुरङ्गो हरिणः। श्वा सारमेयः। अजश्छागः। गौः प्रसिद्धा। व्याघ्रः प्राणिविशेषः। हंसः
पक्षी। पृषतो मृगजातिः। मृगः प्रसिद्धः। शृगालः क्रोष्टुकः। श्वाविद् बिलेशयः प्राणी।
श्वाविदित्याख्या नाम यस्य। अन्यपुष्टः कोकिलः। तथा विडालो मार्जारः। सारसः पक्षी।
सूकरो वराहः। एते सर्वे द्युनिशमहोरात्रमपि चरन्ति। रात्रिचरा द्युचराश्चैत इत्यर्थः॥३॥
अथैतेषां व्यवहारार्थं संज्ञामाह—
भषकूटपूरिकुरबककरायिकाः पूर्णकूटसंज्ञाः स्युः।
नामान्युलूकचेट्याः पिङ्गलिका पेचिका हक्का ॥४॥
कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः।
छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥५॥
स्रोतस्तडागभेद्यैकपुत्रकः कलहकारिका च रला।
भृङ्गारवच्च विरुवति निशि भूमौ द्व्यङ्गुलशरीरा ॥६॥
दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ।
धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥७॥
गर्तकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम।
गृहगोधिकेति संज्ञा विज्ञेया कुड्यमत्स्यस्य ॥८॥
दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरुस्रा।
श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥९॥
भष, कूटपूरी, कुरबक, करायिका—ये पूर्णकूट की; पिङ्गलिका, पेचिका, हक्का—
ये उलूकचेटी की; कपोतकी और श्यामा पोतकी की; वञ्जुल खदिरचञ्चु की; नृपसुता
और छुच्छुन्दरी छुच्छुन्दर की, वलिय और गर्दभ गदहे की तथा स्रोतोभेद्य, तडागभेद्य
और कलहकारिका—ये रला की संज्ञायें हैं। यह रला दो अंगुल की होती है और रात्रि
में भृङ्गार की तरह शब्द करती है। दुर्बलिक भाण्डरीक को कहते हैं। यह भाण्डरीक पूर्व
देश-निवासियों के दक्षिण भाग में और अन्य देश-निवासियों के वाम भाग में आने से
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
विरुताध्यायः ४२७
शुभ होता है। धिक्कार मृग जाति को तथा कुक्कट और कृकवाकु मुर्गे को कहते हैं।
गर्त्ताकुक्कुट और कुलालकुक्कुट गर्त में रहने वाले मुर्गे की और कुड्यमत्स्य एवं गृह-
गोधिका भित्ति में स्थित मीन की संज्ञा है। धन्वन, क्रोड और सूकर—ये सूअर की;
उस्रा गौ की; श्वा, कुक्कुर और सारमेय—ये कुत्ते की एवं सूकरिका चटका जाति की
संज्ञा है॥४-९॥
भषकूटपूरीति । भषः कूटपूरी कुरबकः करायिका एताः सर्वाः पूर्णकूटस्य संज्ञा
नामानि स्युर्भवेयुः। पिङ्ग्लिका पेचिका हक्का एतानि उलूकचेट्या नामानि।
कपोतकी श्यामा पोतकीत्युच्यते। वञ्जुलः खदिरचञ्चुरिति कीर्त्यते कथ्यते। छुच्छुन्दरी
सुगन्धमूषिका नृपसुता राजपुत्री कीर्त्यते। गर्दभः खरो वालेयः प्रोक्त इति कथितः।
स्रोत इति । स्रोतोभेद्यस्तडागभेद्य एकपुत्रकः। कलहकारिका च एतैर्नामभी रला
इति ज्ञेया। सा च निशि रात्रौ भृङ्गारवद्विरुवति वाशति भृङ्गारो दांदानी दमनी। भृङ्गारेण तुल्यं
भृङ्गारवत्। तद्वत् शब्दं करोति। हुङ्कारमुच्चरतीत्यर्थः। केचिद् भृङ्गारः पक्षिविशेष इतीच्छन्ति।
निशि रात्रौ किम्प्रमाणा द्व्यङ्गुलशरीरा द्व्यङ्गुलप्रमाणं शरीरं यस्याः।
दुर्बलिक इति । भाण्डीको दुर्बलिकः प्रोक्तः। असौ दुर्बलिकः प्राच्यानां पूर्वदेशभवानां
दक्षिणः प्रशस्तः। अर्थादेवान्येषां सर्वेषां वामतः। धिक्कारो मृगजातिरुक्ता। कुक्कुटः कृकवा-
कुरिति प्रोक्तः कथितः।
गर्त्ताकुक्कुटस्येति । गर्ता खातं तत्र य उक्तः कुक्कुटस्तस्य कुलालकुक्कुटेति
नाम संज्ञा प्रथितं प्रख्यातम्। कुड्यमत्स्यस्य भित्तिमीनस्य गृहगोधिकेति संज्ञा नाम विज्ञेया
विज्ञातव्या।
दिव्यो धन्वन इति । दिव्यो धन्वन इत्युक्तः कथितः। क्रोडः सूकरः स्याद् भवेत्।
अथशब्दश्चार्थे। गौरुस्रेति ख्याता। श्वा कुक्कुरः सारमेय इति कथितः। जात्या प्रकृत्या
या चटिका सा सूकरिकेत्युक्ता॥४-९॥
अत्रैवोपदैशार्थमाह—
एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि ।
शकुनरुतज्ञानार्थं शास्त्रे सञ्चिन्त्य योज्यानि ॥१०॥
इस प्रकार प्रत्येक देश में शकुन के नामों को जानने वाले पण्डितों को शकुन के
नामों को जानकर शकुन के शब्दों को जानने के लिये अच्छी तरह विचार कर शास्त्र-
कथित फलों से उनका मिलान करना चाहिये॥१०॥
एवमनेन प्रकारेण देशे देशे विद्म्यः शकुननामविद्भ्यो नामानि समुपलभ्य ज्ञात्वा
शकुनानां शुभाशुभसूचकानां रुतज्ञानार्थं तच्छब्दज्ञानाय सञ्चिन्त्य विचार्य शास्त्रे ग्रन्थे
योज्यानि संयोजनीयानि॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४२८ बृहत्संहिता
अथ वञ्जुलश्येनशुकगृध्राणां रुतलक्षणमाह—
वञ्जुलकरुतं तित्तिडिति दीप्तमथ किल्किलीति तत्पूर्णम्।
श्येनशुकगृध्रकङ्काः प्रकृतेरन्यस्वरा दीप्ताः ॥११॥
वञ्जुल का दीप्त शब्द तित्तिड़ और पूर्ण शब्द किल्किली है। बाज, तोता, गिद्ध
और कङ्क के स्वभाव से विपरीत होने पर दीप्त शब्द होता है॥११॥
प्रकृतेः स्वभावतोऽन्यस्वरा विपरीतशब्दा दीप्ता उक्ताः—वञ्जुलकरुतं तित्तिडिति।
यद्वञ्जुलकस्य रुतं तित्तिड्—इति दीप्तमशुभम्। यत् किल्किलीत्येतत्पूर्णं शुभम्। श्येन-
शुकगृध्रकङ्काः प्रसिद्धाः पक्षिणः। एते सर्वे प्रकृतेः स्वभावतोऽन्यस्वरा विपरीतशब्दा दीप्ता
उक्ताः॥११॥
अथ कपोतचेष्टितमाह—
यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा।
अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः ॥१२॥
आपाण्डुरस्य वर्षाच्चित्रकपोतस्य चैव षण्मासात्।
कुङ्कुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ॥१३॥
कबूतर का वाहन, आसन और शय्या पर बैठना तथा घर में प्रवेश करना मनुष्यों
के लिये अशुभकारी है। जाति के भेद से फल के समय भी भिन्न-भिन्न होते हैं; जैसे—
सफेद वर्ण के कबूतर का फल एक वर्ष में, चित्र वर्ण के कबूतर का फल छः मास में
तथा कुङ्कुम और धूम्र वर्णसदृश कबूतर का फल उसी समय में होता है॥१२-१३॥
यानासनेति। यानमश्वादि। आसनं पीठम्। यत्रोपविश्यते। शय्या आस्तरणम्। एतेषु
कपोतस्य निलयनं संश्लेषः सद्मविशनं वा गृहप्रवेशनं वा भवति। एतन्नराणां पुंसामशुभ-
प्रदमनिष्टप्रदं भवति। अन्यः परः कालः समयः फलस्य जातिभेदेन योनिविशेषेण भवति।
तं च कालमाह—आपाण्डुरस्येति। आपाण्डुरस्य श्वेतवर्णस्य कपोतस्य वर्षात्
पाकः फलम्। चित्रकपोतस्य नानावर्णस्य षण्मासात् षड्भिर्मासैः पाकः। कुङ्कुमवर्णस्य
धूम्रवर्णस्य च कपोतस्य सद्यस्तस्मिन्नेवाहनि पाकः फलं भवति॥१२-१३॥
अधुना श्यामारुतमाह—
चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः।
चच्चेति च दीप्तः स्यात् स्वप्रियलाभाय चिक्किचिगिति ॥१४॥
श्यामा पक्षी का चिचित् शब्द पूर्ण, शूलिशूल शब्द शुभ, चच्च शब्द दीप्त और
चिक्किचिग् शब्द मित्रलाभ के लिये होता है॥१४॥
श्यामायाश्चिचिदिति शब्दः पूर्णस्तस्या एव शूलिशूलिति च शब्दो धन्यः शुभः।
चच्चेति च शब्दो दीप्तोऽशुभः। स्याद् भवेत्। चिक्किचिगिति च शब्दः स्वस्यात्मीयस्य प्रियस्य
वल्लभस्य लाभाय प्राप्तये भवति॥१४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
विरुताध्यायः ४२९
अथ हारीतभारद्वाज्यो रुतमाह—
हारीतस्य तु शब्दो गुग्गुः पूर्णोऽपरे प्रदीप्ताः स्युः ।
स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ॥१५॥
हारीत ( हरियल ) पक्षी का गुग्गु शब्द पूर्ण और सभी शब्द दीप्त होते हैं तथा
भारद्वाज पक्षी के सभी प्रकार के शब्द शुभकारी होते हैं।।१५।।
हारीतस्य तु गुग्गुशब्दः पूर्णः। अपरे अन्ये सर्व एव शब्दाः प्रदीप्ताः स्युर्भवेयुः।
भारद्वाज्याः स्वराणां शब्दानां वैचित्र्यं नानात्वं सर्वं निःशेषं शुभं प्रशस्तं प्रोक्तं कथितम्॥१५॥
करायिकरुतमाह—
किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहेति ।
क्षेमाय केवलं करकरेति न त्वर्थसिद्धिकरः ॥१६॥
कोटुक्लीति क्षेम्यः स्वरः कटुक्लीति वृष्टये तस्याः ।
अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः ॥१७॥
करायिका पक्षी का किष्किषि शब्द पूर्ण, कहकह शब्द शुभ और करकर शब्द
केवल कल्याण करने वाला; किन्तु अर्थसिद्धि करने वाला नहीं होता है। उस करायिका
का कोटुक्ल शब्द क्षेम करने वाला, कटुक्ल शब्द वृष्टि करने वाला, कोटिकिलि शब्द
निष्फल और गुं शब्द दीप्त होता है।।१६-१७।।
किष्किषीति । करायिकायाः पूर्णकूट्याः किष्किषिशब्दः पूर्णः। कहकहेति शब्दः
शुभः। करकरेति शब्दः केवलं क्षेमाय लब्धपालनाय। न त्वर्थसिद्धिकरोऽर्थसिद्धिं न करोति।
कोटुक्लीति । तस्याः करायिकायाः कोटुक्लीति शब्दः क्षेम्यः क्षेमे साधुः। कटुक्लीति
च शब्दो वृष्टये वर्षणाय भवति। देवो वर्षति। कोटिकिलीति चाफलो निष्फल इत्यर्थः।
खलुशब्दश्चार्थे। गुं कृतः शब्दस्तस्या एव दीप्तः ।।१६-१७।।
अथ दिव्यकचेष्टितमाह—
शस्तं वामे दर्शनं दिव्यकस्य सिद्धिर्ज्ञेया हस्तमात्रोच्छ्रितस्य ।
तस्मिन्नेव प्रोन्नतस्थे शरीराद् धात्री वश्यं सागरान्ताभ्युपैति ॥१८॥
यदि गमन करने वाले के वाम भाग में धन्वन पक्षी हो तो शुभ, उसी वाम भाग में
पृथ्वी से एक हाथ ऊँचे प्रदेश पर हो तो इष्ट कार्यों की सिद्धि करने वाला एवं काफी
उच्च प्रदेश पर हो तो समुद्रपर्यन्त पृथ्वी को वश में करने वाला होता है।।१८।।
दिव्यकस्य धन्वनस्य वामे वामभागे दर्शनमवलोकनं शस्तं शुभम्। तत्रैव वामभागे
भूमेर्हस्तमात्रोच्छ्रितस्य शयप्रमाणोच्चस्य सिद्धिरभीष्टा कार्याणां च ज्ञेया। तस्मिन्नेव वामभागे
यातुः शरीराद् देहात् प्रोन्नतस्थ उच्चतरो भवति, तदा धात्री भूर्वश्यं विधेयित्वं सागरान्ता
समुद्रपर्यन्तामभ्युपैत्युपगच्छति। उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA