सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 445, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 445

शाकुनेऽन्तरचक्राध्यायः ४१७
भवति। उत्तमा प्रकामा च तुष्टिः। प्राक् पूर्वभागे योऽरस्तत्र स्थिते शान्ते शकुने रक्तस्य
लोहितस्य पट्टस्य वस्त्रस्याम्बरस्य चागमो लाभो भवति। नृपतिना राज्ञा सह संयोगः।।१९।।
अन्यदप्याह—
आग्नेये कौलिकतक्षपारिकर्म्याश्वसूतसंयोगः।
लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिर्वा ।।२०।।
यदि आग्नेय कोण के अर में शकुन हो तो जुलाहा, बढ़ई, कारीगर या गणित के
परिकर्मों को जानने वाले, घोड़ा, सहीस—इनके साथ समागम तथा इन लोगों के बनाये
हुये द्रव्यों का या घोड़े का लाभ होता है।।२०।।
आग्नेयेऽरे कौलिकस्तन्तुवायः। तक्षो वर्धकिः। पारिकर्मा परिकर्म वेत्ति यः स पारिकर्मा।
गणितपरिकर्माणि जानाति यः। केचित् कर्मज्ञा इत्याहुः। अश्वस्तुरगः। सूतोऽश्ववाहकः।
एतैः सह संयोगो भवति। तत्कृतानां कौलिकादिकृतानां द्रव्याणां लब्धिर्लाभः। अश्वलब्धिस्तु-
रगलब्धिश्च वा भवति।।२०।।
अन्यदप्याह—
नेमीभागं बुद्ध्वा नाभीभागञ्च दक्षिणे योऽरः ।
धार्मिकजनसंयोगस्तत्र भवेद् धर्मलाभश्च ॥२१॥
चक्र की नेमि ( प्रान्त ) और नाभि के भाग को जानकर दक्षिण में जो अर हो, उसमें
स्थित शकुन हो तो धार्मिक मनुष्यों के साथ समागम और धर्म का लाभ होता है।।२१।।
नेमी चक्रस्य प्रान्तं तस्या नाभेश्च भागं बुद्ध्वा प्रविभागं ज्ञात्वा दक्षिणेन दक्षिणस्यां
दिशि योऽरस्तत्र स्थिते शकुने धार्मिकजनैः सह संयोगो भवति धर्मलाभश्च।।२१।।
अन्यदप्याह—
उस्राक्रीडककापालिकागमो नैर्ऋते समुद्दिष्टः ।
वृषभस्य चात्र लब्धिर्माषकुलत्थाद्यमशनं च ॥२२॥
यदि नैर्ऋत्य कोण के अर में स्थित शकुन हो तो गाय, खेलने वाला और कापालिक
के साथ समागमं, बैल का लाभ तथा उड़द, कुलथी आदि भोजन का लाभ होता है।।२२।।
उस्रा गौः। क्रीडको यः क्रीडयति। कापालिकः प्रसिद्धस्तपस्वी। एषामागमो नैर्ऋतेऽरे
समुद्दिष्टः कथितः। अत्रास्मिन्नरे वृषभस्य दान्तस्य च लब्धिर्लाभो भवति। अशनं भोज्यं
माषकुलत्थाद्यं भवति। माषकुलत्यौ प्रसिद्धौ सस्यविशेषौ। आद्यग्रहणाद् यवगोधूमकङ्गुनिका
गृह्यन्ते।।२२।।
अन्यदप्याह—
अपरस्यां दिशि योऽरस्तत्रासक्तिः कृषीवलैर्भवति ।
सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥२३॥
बृ० भ० द्वि०-२७