सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

कूर्मलक्षणाध्यायः १८१
वैदूर्य मणि के समान कान्ति वाले, स्थूल कण्ठ वाले, त्रिभुजाकृति वाले, ढके हुये
छिद्र वाले या सुन्दर पृष्ठवंश वाले कछुये को राजा द्वारा मंगल के लिये अपने क्रीडावापी
या जलपूर्ण मटके में रखना चाहिये।।३।।
इति 'विमला'हिन्दीटीकायां कूर्मलक्षणाध्यायश्चतुःषष्टितमः ॥६४॥
वैदूर्यत्विड् वैदूर्यसदृशकान्तिः स्थूलकण्ठः पीनगलः। त्रिकोणः शृङ्गाटकाकृतिः।
गूढच्छिद्रो गूढानि अदृश्यानि छिद्राणि रन्ध्राणि यस्य। चारुवंशः शोभनपृष्ठास्थि। स
शस्तः शोभनः। य एवंविधः कूर्मः स नरेन्द्रै राजभिर्मङ्गलार्थं क्रीडावाप्यां क्रीडापुष्करिण्यां
मणौ वा कूपाधोभागे तोयपूर्णे कार्यः। तथा च गर्गः—
शङ्खदर्भप्रतीकाशश्छत्राभो रजतप्रभः।
तथा वैदूर्यवर्णाभो यो भवेदष्टसर्षपः।।
यश्च वा कोकिलाभासो राजीवभाश्च यो भवेत्।
पीतकाञ्चनवर्णस्तु पुण्डरीकसमप्रभः।।
गोधामुखं त्रिकोणं च तथा मण्डलवर्धनम्।
स्त्रीपुत्रमतिदं विन्द्यात् कूर्मं राष्ट्रविवर्धनम्॥ इति।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कूर्मलक्षणं
नाम चतुःषष्टितमोऽध्यायः ॥६४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ छागलक्षणाध्यायः
अथातश्छागलक्षणं व्याख्यायते। तच्चाह—
छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्ते।
धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥१॥
अब बकरे का शुभाशुभ लक्षण कहते हैं। नव, दश या आठ दाँत वाले छाग शुभ
होते हैं; अतः उनको घर में रखने से शुभ होता है तथा सात दाँत वाले छाग अशुभ होते
हैं; अतः उनका बहिष्कार करना चाहिये॥१॥
छागानामजानां शुभाशुभलक्षणमभिधास्ये कथयिष्ये। ये च छागा नवदशाष्टदन्ता
नवदन्ता दशदन्ता अष्टदन्ता वा ते धन्या शोभनाः, वेश्मनि गृहे स्थाप्याः। ये च सप्त-
दन्ताः सप्तरदास्ते सन्त्याज्याः॥१॥
अन्यदप्याह—
दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति।
ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमतिशुभदम् ॥२॥
जिस छाग के दक्षिण पार्श्व में श्वेत वर्ण का मण्डल हो, ऋष्य ( मृगविशेष ) के
समान कृष्ण-लोहित वर्ण हो या काले अथवा लाल वर्ण के होते हुये भी जिसके दक्षिण
पार्श्व में श्वेत वर्ण का मण्डल हो, वह शुभ होता है॥२॥
शुक्लस्य छागस्य दक्षिणपार्श्वे मध्यभागे असितं कृष्णवर्णं मण्डलाकारं शुभफलं
भवति। ऋष्यनिभस्य नीलवर्णस्य, ऋष्यो मृगजातिः, स च नीलवर्णो भवति। तथा कृष्ण-
वर्णस्य लोहितवर्णस्य श्वेतं मण्डलं दक्षिणपार्श्वेऽतिशुभदं भवति॥२॥
अन्यदप्याह—
स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः।
एकमणिः शुभफलकृद्धन्यतमा द्वित्रिमणयो ये ॥३॥
छागों के गले में स्तन की तरह जो लटका रहता है, उसको 'मणि' कहते हैं। एक
मणि वाले शुभ और दो या तीन मणि वाले छाग अत्यन्त शुभ होते हैं॥३॥
कण्ठे गले अजानां छागानाम्, स्तनवत् स्तन इव स्तनो यथा योऽवलम्बते स
मणिर्विज्ञेयो ज्ञातव्यः। एकमणिरेकेन मणिना युक्तो यश्छागः स शुभफलकृच्छुभफलं
करोति। ये द्विमणयस्त्रिमणयो वा ते धन्यतमा प्रशस्ततमा इत्यर्थः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

छागलक्षणाध्यायः १८३
अन्यदप्याह—
मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च।
अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥४॥
बिना सींग वाले, सम्पूर्ण कृष्ण या श्वेत शरीर वाले, आधे काले और आधे श्वेत
वर्ण वाले, आधे पीले और आधे काले रंग वाले—ये सभी छाग शुभ होते हैं॥४॥
मुण्डाः शृङ्गरहिताः सर्वे निःशेषाश्छागाः शुभदाः, तथा सर्वसिताः सर्वशुक्लाश्च शुभदा
एव। सर्वकृष्णदेहाश्च समस्तासितशरीराश्च शुभदा एव, तथा अर्धासिता अर्धकृष्णाः सितार्धा
अर्धश्वेतास्ते सर्व एव धन्याः प्रशस्ताः, तथा अर्धकपिलाः कृष्णाश्च धन्या एव॥४॥
अधुना चतुर्णां कुट्टककुटिलजटिलवामनानां लक्षणं करोति। तत्रादावेव कुट्टकस्याह—
विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः।
स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका यस्य ॥५॥
अपने यूथ के आगे चलने वाला, सबसे पहले पानी में घुसने वाला, श्वेत वर्ण के
शिर वाला या कृत्तिका नक्षत्र की तरह छः बिन्दुओं से युक्त मस्तक वाला छाग शुभ
होता है। ऐसे छाग को 'कुट्टक' कहते हैं॥५॥
योऽजश्छागो यूथस्य वृन्दस्याग्रे विचरति गच्छति प्रथममादौ वा योऽम्भो जलमवगाहते
गृह्णाति पिबति स शुभः शस्तः। अथवा सितमूर्धा श्वेतशिरा यः सोऽपि शुभः। अथवा
मूर्धनि मस्तके यस्य कृतिकास्तिलका भवन्ति। कृत्तिकानां षट्त्वात् षट्तिला इत्यर्थः।
एषामन्यतमलक्षणयुक्तः कुट्टकाख्यः। तथा च गर्गः—
यूथाग्रे यश्च चरति यश्चादौ स्पर्शयेज्जलम्।
मूर्ध्नि षट्तिलका यस्य सोऽजो यूथविवर्धनः॥ इति॥५॥
अथ कुटिलस्याह—
सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः।
कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥६॥
गले और मस्तक पर भिन्न वर्ण के बिन्दु वाले, तिलपिष्ट के समान श्वेत-पीत वर्ण
वाले, ताम्र के समान लाल नेत्र वाले, श्वेत शरीर और काले पाँव वाले या काले शरीर
और श्वेत पाँव वाले छाग शुभ होते हैं। ऐसे छाग को 'कुटिल' कहते हैं॥६॥
यश्च सपृषतकण्ठः पृषतास्तिलकास्ते कण्ठे गले यस्य। सपृषतशिरा वा तिलमूर्धा
वा। तिलपिष्टनिभस्तिलपिष्टसदृशवर्णः। शुक्लपीतव्यामिश्रवर्ण इत्यर्थः। ताम्रदृग्लोहितनेत्रः
स शस्तः शुभः। अथवा यः कृष्णचरणोऽसितपादः सितवर्णो वा यः सोऽपि शुभः। अथवा
यः कृष्णवर्णः श्वेतचरणः सितपादः सोऽपि शुभः। एषामन्यतमलक्षणयुक्तः कुटिलाख्यः।
तथा च गर्गः—

१८४ बृहत्संहिता
श्वेतो यः कृष्णचरणः कृष्णः श्वेतशफोऽपि वा।
पीतस्ताम्रेक्षणो मूर्ध्नि गले वा पृषतान्वितः।। इति।।६।।
अथ जटिललक्षणमाह—
यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन।
यो वा चरति सशब्दं मन्दं च स शोभनश्छागः ॥७॥
जिसका काला अण्डकोश हो, श्वेत वर्ण हो, मध्य भाग में काला पट्टा हो, जो चुगने
के समय शब्द करता हो या धीरे-धीरे चुगता हो—ऐसा सब छाग शुभ होता है। ऐसे
छाग को ‘जटिल’ कहते हैं।।७।।
यश्छागः कृष्णाण्डोऽसितवृषणः। श्वेतः शुक्लवर्णः। मध्ये मध्यभागे कृष्णेन पट्टेन
पर्याणाकृतिना युक्तो भवति स शुभः। यो वाऽजः सशब्दं शब्दसहितं मन्दमलसं च चरति
गच्छति स छागः शोभनश्च शस्तः। एषां लक्षणानामन्यतमलक्षणयुक्तो जटिलाख्यः। तथा
च गर्गः—
मन्दं सशब्दं चरति श्वेतः कृष्णाण्डसंयुतः।
मध्ये कृष्णेन पट्टेन युक्तो यः सोऽपि वृद्धिदः।। इति।।७।।
अथ वामनलक्षणमाह—
ऋष्यशिरोरुहपादो यो वा प्राक् पाण्डुरोऽपरे नीलः।
स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः ॥८॥
जिसके ऋष्य (काला मृग) के समान शिर के बाल और पाँव हों या अगले भाग
में पाण्डुर वर्ण और पिछले भाग में नीला वर्ण हो, वह छाग शुभ होता है। इस छाग को
‘वामन’ कहते हैं। इसी प्रकार से गर्ग मुनि ने भी वामनसंज्ञक छाग का लक्षण स्वप्रणीत
श्लोक में बतलाया है।।८।।
ऋष्यशिरोरुहो नीलवर्णमूर्धा। ऋष्यः प्राणी स च लोके ऋक्ष इत्युच्यते। स च नील-
वर्णो भवति। तथा च व्यासमुनिः—
अश्वानृष्यसवर्णंस्तु हंसवर्णैर्हयोत्तमैः।
व्यामिश्रयद्रणे कर्णः पाण्डवाञ्छादयन् शरैः।।
तथा च—
ते हया बह्वशोभन्त विमिश्रा वातरंहसः।
सितासिता महावर्णा यथा व्योम्नि बलाहकाः।।
तस्मान्नीलशिरा नीलपादश्च सोऽपि शुभकृत्। यो वा प्राक् पूर्वभागे पाण्डुर ईषच्छुक्लः।
अपरे पश्चिमभागे नीलः सोऽपि शुभकृत् छागः। एषामन्यतमलक्षणयुक्तो वामनाख्यः।
तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

छागललक्षणाध्यायः १८५
ऋष्यमूर्धा नीलपादः प्राग्भागे यश्च पाण्डुरः।
पश्चिमे नीलवर्णः स्यात् सोऽपि भर्तुर्विवृद्धिदः।।
अत्रास्मिन्नर्थे गर्गोक्तोऽयं श्लोको ज्ञापको यं साक्षात् पठति।।८।।
तं चाह—
कुट्टकः कुटिलश्चैव जटिलो वामनस्तथा।
ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥९॥
कुट्टक, कुटिल, जटिल और वामन—ये चारो प्रकार के छाग लक्ष्मी के पुत्र हैं
और लक्ष्मीरहित देश में ये सभी निवास नहीं करते हैं।।९।।
पूर्वलक्षणोक्तः कुट्टकः कुटिलो वामनश्च तथा तेनैव प्रकारेणैते चत्वारश्छागाः श्रियः
पुत्रा लक्ष्मीसुताः। अलक्ष्मीके लक्ष्मीरहिते स्थाने न वसन्ति न स्थितिं कुर्वन्ति। सलक्ष्मीके
स्थाने निवसन्तीत्यर्थः।।९।।
एवं शुभानां छागानां लक्षणमुक्त्वाऽधुनाऽप्रशस्तानां लक्षणमाह—
अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कुनखा विवर्णाः।
निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये चासिततालुजिह्वाः ॥१०॥
गदहे के समान शब्द करने वाले, गर्म या टेढ़ी पूँछ वाले, खराब नख वाले, खराब
वर्ण वाले, फटे कान वाले, हाथी के समान मस्तक वाले तथा काली तालु और जीभ
वाले छाग अशुभ होते हैं।।१०।।
अथानन्तरमप्रशस्ताश्छागा भवन्ति। कीदृशाः? खरतुल्यनादा गर्दभसदृशरवाः। प्रदीप्त-
पुच्छाः प्रदीप्तं पुच्छं लाङ्गूलं वक्रमत्युच्चं वा येषाम्। कुनखाः कुत्सितनखाः। विवर्णा विगत-
वर्णा अशुभवर्णाः। निकृत्तकर्णाः छिन्नश्रोत्राः। छिन्नानुरूपाभ्यां कर्णाभ्यां द्विपमस्तका गजसदृश-
मूर्धानः। ये चासिततालुजिह्वाः। कृष्णतालवः कृष्णरसना ये भवन्ति तेऽप्य-प्रशस्ताः।।१०।।
अथ शुभलक्षणान्याह—
वर्णैः प्रशस्तैर्मणिभिः प्रयुक्ता मुण्डाश्च ये ताम्रविलोचनाश्च।
ते पूजिता वेश्मनि मानवानां सौख्यानि कुर्वन्ति यशः श्रियञ्च ॥११॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां छागलक्षणं
नाम पञ्चषष्टितमोऽध्यायः ॥६५॥
उत्तम वर्ण वाले, मणियों से युत गले वाले, विना सींग वाले और लाल आँख
वाले छाग जिनके घर में रहते हैं, उनके सुख, यश और लक्ष्मी को बढ़ाते हैं।।११।।
इति 'विमला'हिन्दीटीकायां छागलक्षणाध्यायः पञ्चषष्टितमः ॥६५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१८६ बृहत्संहिता
छागाः प्रशस्तैर्वर्णैः ‘दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति’ एवंविधै-
र्वर्णैर्युक्ताः। मणिभिश्चैकेन द्वाभ्यां त्रिभिर्वा युक्ताः। ये च मुण्डा विषाणरहिताः। ये च ताम्र-
विलोचना लोहितनयनास्ते छागा मानवानां मनुष्याणां वेश्मनि गृहे पूजिताः शुभाः सौख्यानि
निर्दुःखतां यशः कीर्तिं श्रियं लक्ष्मीं च कुर्वन्ति विदधति।।११।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ छागलक्षणं
नाम पञ्चषष्टितमोऽध्यायः ॥६५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथाश्वललक्षणाध्यायः
अथाश्वलक्षणं व्याख्यायते। तत्र प्रदेशज्ञानं विना न किञ्चिद् ज्ञायते, तस्मात् प्रदेशा-
ध्यायः प्रथमत एव लिख्यते—
अविज्ञाय प्रदेशांस्तु भिषक् कर्मसु मुह्यति।
प्रदेशोद्देशविज्ञानमतो यत्नेन वाजिनाम्।।
वक्ष्यते तेष्वधीना हि सिद्धिः कर्मसु सर्वदा।
जिह्वा कण्ठे निबद्धा हि गलनालं च तत् स्मृतम्।।
सूनाधस्तात्तु जिह्वायास्तालु तस्यास्तथोपरि।
पीठ्यो हनुनिबद्धा हि दंष्ट्रे तासामथाग्रजे।।
ततो द्विजा व्यञ्जिनस्तेषामुपरि चोत्तराः।
अधस्ताद् द्विजदंष्ट्राणां मध्ये तु चिबुकं स्मृतम्।।
दशनाच्छादनावोष्ठौ तयोः पार्श्वे च सृक्किणी।
प्रपाणमुत्तरोष्ठस्य स्यादूर्ध्वं प्रोथमेव च।।
नासापुटौ प्रोथपार्श्वे घोणा प्रोथाक्षिमध्यतः।
नासावंशोद्भवौ गल्लौ क्षीरिके च तथोपरि।।
घोणाहन्वन्तरे गण्डौ तयोर्मध्येऽश्रुपातनम्।
नेत्रे तथोपरि स्यातां तयोः प्रच्छादनं ततः।।
अभ्यन्तरं सितं कृष्णं दृष्टिमण्डलमेव च।
कनीनिके चान्तकोणे तथापाङ्गौ च बाह्यतः।।
वर्त्मोपरि च पक्ष्माणि अक्षिकूटे तथोपरि।
भ्रुवौ तथोपरिष्टात्तु ललाटं भ्रुश्र्ववान्तरम्।।
श्रुवं ललाटोपरि च शिरः कर्णोत्तरं भवेत्।
तदाश्रितो मस्तकश्च कर्णौ तस्यैव पार्श्वयोः।।
कर्णमूले शष्कुली स्यात् कर्णशङ्खान्तरे कटः।
कटापाङ्गान्तरे शङ्खो घटी बाह्ये च शङ्खयोः।।
चिबुकस्योपरि हनू गण्डावुपरि चैतयोः।
हन्वोश्च गलनाड्योश्च निगालो मध्य उच्यते।।
निगालाधो गलः कण्ठो वक्षः क्रोडोऽथ हृत्ततः।
विदुर्मन्दविदुश्चैव कर्णस्याधः षडङ्गुले।।
विद्वोरुभयतोऽधस्ताद् मध्ये कण्ठनिबन्धनम्।
शिरोवाहान्तरे ग्रीवा जत्रुग्रीवान्तरे वहः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१८८ बृहत्संहिता
स्कन्धस्य चोपरि ग्रीवा तस्याश्चोपरि केसरम्।
वाहतो जत्रुतश्चोक्ताः काकसं ककुदं ततः।।
आसनं चैव पृष्ठं च पृष्ठवंशस्ततः परम्।
ककुदावस्थितावंसौ बाहू चांसनिबन्धनौ।।
क्रोडाधस्तात्तथा बाहू बाह्वोर्बाह्ये षडङ्गुले।
बाह्वोरभ्यन्तरे कक्ष्या पार्श्वतस्तौ च वक्षसः।।
किणौ चाभ्यन्तरे विन्द्यादधस्ताज्जानुनी मते।
जान्वोः कापालिके चाधो मन्दिरं जानुपृष्ठतः।।
जङ्घे च जानुनोऽधस्तात् पृष्ठतश्च कले मते।
जङ्घाकलान्तरे ईषे परिहस्तस्तथाग्रतः।।
पृष्ठतः परिहस्तस्य कूर्चौ तन्मध्यगौ किणौ।
कूर्चाधस्तात् कुट्टिके च खुरसन्धिस्ततः खुरः।।
पृष्ठतः पार्ष्णिशीर्षे च पार्ष्णी नखशिखातलम्।
तलमध्ये तु मण्डूक्यौ क्षीरिके च तलान्तरे।।
हृत्परो नाभिवंशश्च नाभेस्तु जठरं परम्।
हृन्नाभिमूत्रकोशानां रोमराज्यन्तरे मता।।
तदधो मेहनं कोशस्ततो मुष्कफलं ततः।
अधस्तात् कटिसन्धेः स्यादूरुसन्धिस्तथोपरि।।
सक्थिनी फलबन्धश्च ऊरुपाण्डुरिहोच्यते।
ऊरोरूर्ध्वं पाण्डपिण्डौ वक्त्रसन्धी ततः स्थुरम्।।
स्थूराधो मन्दिरं प्रोक्तौ शङ्कू तन्मध्यमौ किणौ।
स्थूराधस्तात् पूर्वमुक्तं पृष्ठतश्च विभावयेत्।।
गात्रद्वयं शिरोग्रीवं पूर्वकायः स उच्यते।
जघनं त्रिकपुच्छं च गात्रे द्वे चापि पश्चिमे।।
प्रदेशा मध्यमा ये च सोऽन्तकायः प्रकीर्तितः।
शरीराख्याश्च षट् प्रोक्ता मुखं गात्राणि वालधिः।।
नखरोमाणि वालाश्च केशाश्चावयवाः स्मृताः।
विन्यस्ता वक्त्रपुच्छान्तं मध्ये हीनाधिकं तथा।।
अत्र नोक्तं तु यत्किञ्चिद्विन्द्यात्तदपि युक्तितः।
इति प्रदेशा व्याख्याता वाजिनां देहसंश्रयाः।।
तान् विज्ञाय भिषक् कर्म प्रयुञ्जन्नापराध्यति।। इति।
तत्रादावेवाश्वलक्षणमाह—
दीर्घग्रीवाक्षिकूटत्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः
सूक्ष्मत्वक्केेशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः।

अश्वलक्षणाध्यायः १८९
जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो
वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥१॥
दीर्घ ग्रीवा और नेत्रकोश वाला, विस्तीर्ण कटि और हृदय वाला, ताम्र वर्ण के
तालु, ओंठ और जीभ वाला, सूक्ष्म चर्म, शिर के बाल और पूँछ वाला, सुन्दर शफ
( खुर ), गति और मुख वाला, छोटे कान, ओंठ और पूँछ वाला, गोल जंघा, जानु और
ऊरु वाला, बराबर और सफेद दाँत वाला तथा दर्शनीय आकार और शरीर की शोभा
वाला सर्वांग शुद्ध घोड़ा सदा राजा के शत्रुओं के नाश के लिये होता है॥१॥
दीर्घग्रीवाक्षिकूटः, दीर्घा ग्रीवा शिरोधरा यस्य, तथा दीर्घाक्षिकूटः, अक्षिकूटं दृगाश्रयः।
त्रिकहृदयपृथुः त्रिकं कटिभारः, हृदयं हृत्स्थानम्, एते पृथुनी विस्तीर्णे यस्य। ताम्रता-
ल्वोष्ठजिह्वः ताम्रवर्णावोष्ठावधरौ यस्य ताल्वास्यपृष्ठं जिह्वा रसना च यस्य। सूक्ष्मत्वक्के-
शवालः त्वक् चर्म, केशा मूर्धजाः, बालः पुच्छवालः, एते सूक्ष्मा यस्य। सुशफगतिमखः
शफाः खुराः, गतिर्गमनम्, मुखं वक्त्रमेतानि सुप्रमाणेण गतिलक्षणेन युक्तानि यस्य सुशोभन-
त्वात्। ह्रस्वकर्णोष्ठपुच्छः कर्णौ श्रोत्रे, ओष्ठ उत्तरोष्ठः, पुच्छं पुच्छमूलं यत्रास्थिवाला
लग्ना भवन्ति। एतानि ह्रस्वान्यदीर्घाणि यस्य। जङ्घाजानूरुवृत्तो जङ्घे सुप्रसिद्धे, जानुनी
ऊरू च एतानि वृत्तानि परिवर्तुलानि यस्य। समसितदशनः समास्तुल्याः सिताः श्वेतवर्णा
दशना दन्ता यस्य। चारुसंस्थानरूपः चारु दर्शनीयं संस्थानमाकारो रूपं शरीरशोभा यस्य।
एवंविधो वाजी अश्वः सर्वाङ्गशुद्धः सर्वावयवलक्षणैर्निर्दोषैर्युक्तो नरपते राज्ञो नित्यं सर्वकालं
शत्रुनाशाय रिपुवधाय भवतीत्यर्थः। तथा च भगवान् पराशरः—
जघन्यमध्यज्येष्ठानामश्वानामायतिर्भवेत् ।
अङ्गुलानां शतं ज्ञेयं विंशत्या दशभिस्त्रिभिः ॥
परिणाहाङ्गुुलानि स्यात् सप्ततिः सप्तसप्ततिः ।
एकाशीतिः समासेन त्रिविधः स्याद् यथाक्रमम् ॥
तथा षष्टिश्चतुःषष्टिरष्टषष्टिः समुच्छ्रयः ।
द्विपञ्चसप्तकयुता विंशतिः स्यान्मुखायतः ॥
श्मश्रुहीनं मुखं कान्तं प्रगल्भं तुङ्गनासिकम्।
ह्रस्वप्रोथं तनुश्रोत्रं रक्तगम्भीरतालुकम्॥
षडब्द्माद्वादशकं मृदुनासापुटं दृढम्।
दीर्घोद्धतमुखं ग्रीवं ह्रस्वकुक्षिखुरं तथा॥
विवशं चण्डवेगं च हंसमेघसमस्वनम्।
हरितं शुकवर्णं वा श्वेतं कृष्णसमण्डलम्॥
अश्वमीदृशमारोहेद्धस्तेन श्रवणेन वा।
आश्विने नोदनाभिज्ञा वाहयेयुर्द्विजातयः॥
तथा च वर्णेनैकेन स्निग्धवर्णो भवेद्यदि।
स हन्याद्वर्णजान् दोषान् देहः सर्वत्र शस्यते॥ इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१९० बृहत्संहिता
तथा च वररुचिः—
ज्ञानं त्रैलोक्यविद्भिर्मुनिभिरभिहितं लक्षणं यद्विशालं
दुर्ज्ञेयं तद्बहुत्वादपि विमलधिया किं पुनर्बुद्धिहीनैः।
तस्मादेतत् समासात् स्फुटमधुरपदं श्रूयतामश्वसंस्थं
वर्णावर्तप्रभाङ्गस्वरगतिसहितैः सत्त्वगन्धैरुपेतम्॥
रोमतौरक्केशवालैरसितहरिसितैस्तप्तहेमप्रभैश्च
कृष्णः शोणोपलक्षो हरिरिति कथिता मूलवर्णास्तुरङ्गाः।
ते चान्योन्यानुषङ्गात् पवनवशगता यान्ति भूयो बहुत्वं
निर्देशस्तेषु वाच्यो विमलपटुधिया द्रव्यसत्त्वानुरूपः॥ इति॥१॥
अथाशुभानां रोमावर्तानां लक्षणमाह—
अश्रुपातहनुगण्डहृद्गलप्रोथशङ्ककटिबस्तिजानुनि ।
मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा शुभाः ॥२॥
नेत्र के अधोभाग, हनु, मुख, कपोल, हृदय, गल (हृदय-कण्ठ की सन्धि),
प्रोथ (नासिका का अधोभाग), शङ्ख (कान के समीप), कटि, बस्ति (नाभि और
लिङ्ग का मध्य), जानु, अण्डकोश, नाभि, ककुद (बाहु के पृष्ठभाग में कृकाटिका के
समीप), गुदा, दक्षिण भाग का पेट, पाँव—इन अंगों में जिसके रोम का आवर्त हो,
वह घोड़ा अशुभ होता है॥२॥
अश्रुणः पातो यत्र सोऽश्रुपातः। चक्षुषोरधोभागः। हनुनी प्रसिद्धे। गण्डौ मुखगण्डौ।
हृद् हृदयम्। गलो हृत्कण्ठसन्धिः। प्रोथो नासाधोभागः। शङ्खौ कर्णनिकटे कटिः प्रसिद्धा।
बस्तिर्नाभिलिङ्गयोरन्तरम्। जानुर्जङ्घासन्धिः। एष्ववयवेषु स्थिता आवर्ताः। तथा मुष्कौ वृषणौ।
नाभिः प्रसिद्धा। ककुदं बाहुपृष्ठभागे कृकाटिकानिकटम्। गुदमपानस्थानम्। अन्ये अलुप
इति पठन्ति। अलुपं जत्रुगलसन्धिः। सव्यकुक्षिर्दक्षिणकुक्षिः। चरणाः सर्व एव पादाः।
एषु स्थानेषु ये आवर्ता गतास्ते सर्व एवाशुभाः। अत्र प्राण्यवयवत्वात् सर्वत्र समाहारः।
तथा च वररुचिः—
शङ्खभ्रूगण्डनासाहनुकटिककुदक्रोडकक्षासनस्थै-
र्मन्याहज्जानुकूर्चश्रवणगलगुदप्रोथकुक्ष्यश्रुपातैः ।
स्थूरास्फिक्काकसार्थस्त्रिकवृषणवहस्कन्धनाभ्यूरजातै-
रावर्त्तैरेवमेतैरशुभफलकरैर्वर्जनीयास्तुरङ्गाः ।। इति ।।२।।
अथ शुभावर्तानाह—
ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः ।
ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥३॥
प्रपाण (ऊपर के ओंठ के तल), कण्ठ, कान, पीठ के मध्य भाग, नेत्रों के
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अश्वलक्षणाध्यायः १९१
ऊपर, भौंहों के समीप, ओंठ, सक्थि ( पिछला भाग ), भुज ( अगला भाग ), जानु,
कुक्षि ( वाम भाग ), पार्श्व, ललाट—इन अंगों में जिसके आवर्त हों, वह घोड़ा अत्यन्त
शुभ फल देता है।।३।।
प्रपाण उत्तरोष्ठतलम्। गलः कण्ठं निगालाधः। कर्णौ श्रवणौ। एतेष्ववयवेषु संस्थिताः।
पृष्ठमध्यं पर्याणस्थानम्। नयनोपरि भ्रुवोः समीपे। ओष्ठौ दशनाच्छादनौ। सक्थिनी पश्चाद्भागः।
खुरोपरि भुजौ प्राग्भागे। जानूपरि कुक्षिर्वामभागे। यतः सव्यस्य गर्हितत्वमुक्तम्। पार्श्वौ
प्रसिद्धौ। एतेष्वपि ये गर्ता आवर्तास्ते ललाटसहिताः सुशोभना अतिशुभफलदा इत्यर्थः।
ललाटं भ्रूमध्यभागः। तथा च वररुचिः—
सक्थिप्रपाणध्रुवबाहुकण्ठकेशान्तवक्षःश्रवणोपरन्ध्रे ।
रन्ध्रे निगाले च ललाटदेशे ये रोमजास्ते श्रियमावहन्ति ।।
तथा च विशेषलक्षणानि—
बालार्काग्निप्रवालद्रुतकनकनिभा वह्निजैश्वर्यवृद्धयै
नीलाम्भोजाभ्रवर्णा भवति सलिलजा सर्वदुःखापहर्त्री।
गम्भीरानेकवर्णा दिशति च तुरगे पार्थिवी सर्वकामान्
वायव्या रूक्षवर्णा त्वशुभफलकरी निन्दिता व्योमजा च।।
इति कान्तिलक्षणम्।
अथ स्वरलक्षणम्—
भेरीशङ्खाब्दसिंहद्विपपणववृषस्निग्धगम्भीरनादा
वीणापुँस्कोकिलानां मधुरपटुरवा वाजिनो राजवाहाः।
काकोलूकोष्ट्रभासाः श्वखरवृषरवा रूक्षविच्छिन्नघोषा
अन्ये चेत्थंप्रकारास्त्वशुभफलकरा हानिशोकप्रदाश्च।।
अथ गतिलक्षणम्—
त्वरितगतिविलासैर्विक्षिपन् पादमुच्चै-
र्व्रजति नकुलगामी कम्पयन् कं शिखाग्रम्।
अथ विकटखुराग्रैर्दह्यमानां यथोर्वीं
स्पृशति चरणपातैस्तैत्तिरं तस्य यातम्।।
स्थिरपदविततांशो दूरमुन्नम्य वक्त्रं
व्रजति हि सुविलासैर्बर्हिवद् बर्हिगामी।
सुगतमथ तुरङ्गं योऽधिरुह्यात् तदैव
स भवति सुखगामी शत्रुनाशं च कुर्यात्।।
अजमहिषवराहश्वोष्ट्रमार्जारगामी
कपिवृषभशृगालैस्तुल्यगामी च योऽश्वः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१९२ बृहत्संहिता
स दिशति धननाशं शत्रुवृद्धिं च कुर्याद्
भवति च न सुखाय स्वामिनः शोकदाता।।
अथ सत्त्वगन्धलक्षणमाह—
वर्णावर्तप्रभाङ्गस्वरगतिसहितः सत्त्वगन्धैरुपेतः
शौचाचाराभिजातिः स्मृतिविनयगुणैरन्वितो देवसत्त्वः।
गन्धर्वैर्यातुधानैर्मुनिवरपतिभिस्तुल्यसत्त्वाः प्रशस्ता
ये चान्ये हीनसत्त्वास्त्वशुचिमलरता भीरवस्ते विवर्ज्याः।।
मैरेयाम्भोजसर्पिः क्षितिमधुमदिराचन्दनोशीरलाजा-
कह्लाराशोकजातीवरतरुकुसुमैस्तुल्यगन्धाः प्रशस्ताः।
ये चान्ये क्षारमूत्रक्षतजमलवसाबस्तिनिर्मोकगन्धाः
सन्त्याज्यास्तेऽपि नित्यं त्वशुभफलकरा हानिशोकप्रदाश्च।।
उरो विस्तीर्णं पृथु च जघनं नेत्रयुग्मं सुबद्धं
ग्रीवा वाच्या सुदीर्घा सभुजयुगलकं कण्ठपृष्ठं च ह्रस्वम्।
स्वरो गम्भीरस्तनुरविरलं चेष्टितं चारु नित्यं
शोभा शारीरिकी स्याद्यदि च हि तुरगे दीर्घमायुः स जीवेत्।।
व्यूढोरस्कध्रुवाङ्गस्तनपृथुजघना दीर्घरूक्षाक्षिघोषा
दुर्गन्धाः सर्वगात्रैस्तनुगतिविषमा लम्बकर्णौष्ठपुच्छाः।
दुर्गन्धा दुष्टशीला विनिपतितमना भीरवो नष्टसंज्ञाः
सर्वाचारैश्च हीना यदि खलु तुरगाः सन्ति ह्रस्वायुषस्ते।। इति।।३।।
अथाश्वानां ध्रुवावर्तानाह—
तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः।
रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥४॥
घोड़ों के देह में दश रोमावर्त अवश्य होते हैं, इनको ध्रुवावर्त कहते हैं। जैसे
प्रपाण और मस्तक के केश में एक-एक तथा रन्ध्र (कुक्षि और नाभि के मध्य भाग),
रन्ध्र के ऊपरी भाग, मस्तक, छाती—इन चार स्थानों में दो-दो, इस प्रकार दस ध्रुवा-
वर्त होते हैं॥४॥
तेषां ध्रुवावर्तानां दशानां मध्यात् प्रपाण उत्तरोष्ठाधोभागे एको भवति ध्रुवावर्तः।
अवश्यं भाविनः स्थिरा ध्रुवावर्ताः। ललाटकेशेषु च केशाधो ललाटस्थाने एक एव ध्रुवा-
वर्तो भवति। कुक्षिनाभिमध्यभागे रन्ध्रस्थानम्। तत उपरिभागे उपरन्ध्रस्थानम्। उक्तं च—
कुक्षिनाभ्यन्तरे रन्ध्रमुपरन्ध्रं तथोपरि।
एवं रन्ध्रे एको भवति। उपरन्ध्रे एक एव। द्वयोः पार्श्वयोस्ते चत्वारः। मूर्धनि शिरसि
द्वौ। वक्षसि चोरःप्रदेशे द्वौ स्मृतावुक्तौ। एवमेते दशाश्वानां ध्रुवावर्ताः। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jamทmu. Digitized by S3 Foundation USA

अश्वलक्षणाध्यायः १९३
'दश ध्रुवावर्ताः। प्रपाणे एको ललाटे एक एव मूर्धनि द्वौ द्वौ वक्षसि रन्ध्रोपरन्ध्रयोर्द्वौ
द्वावि'ति।।४।।
अधुनाश्वानां वयोज्ञानमाह—
षड्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः
सन्दंशैर्मध्यमान्त्यैः पतितसमुदितैस्त्र्यब्धिपञ्चाब्दिकाश्वः ।
सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः
काचा मक्षीकशङ्खावटचलनमतो दन्तपातं च विद्धि ॥५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामश्वलक्षणं
नाम षट्षष्टितमोऽध्यायः ॥६६॥
घोड़े के नीचे की दन्तपाली में दाढ़ों के बीच में छः दाँत व्यञ्जक होते हैं। दोनों
पालियों के आगे के छः दाँत सफेद हों तो एक वर्ष का और कृष्ण-लोहित हों तो दो वर्ष
का बछेरा होता है।
दोनों पालियों के मध्यवर्ती दो-दो दाँत सन्दंश, सन्दंश के पार्श्ववर्ती दो-दो दाँत
मध्यम और मध्यम के पार्श्ववर्ती दो-दो दाँत अन्त्य कहलाते हैं।
यदि सन्दंश गिर कर उत्पन्न हुआ हो तो तीन वर्ष का, मध्यम गिरकर उत्पन्न हुआ
हो तो चार वर्ष का और अन्त्य गिरकर उत्पन्न हुआ हो तो पाँच वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर काले बिन्दु हों तो छः वर्ष का, मध्यम के ऊपर काले बिन्दु
हों तो सात वर्ष का और अन्त्य के ऊपर काले बिन्दु हों तो आठ वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर पीला बिन्दु हो तो नव वर्ष का, मध्यम के ऊपर पीला बिन्दु
हो तो दश वर्ष का और अन्त्य के ऊपर पीला बिन्दु हो तो बारह वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर श्वेत बिन्दु हों तो बारह वर्ष का, मध्यम के ऊपर श्वेत बिन्दु
हों तो तेरह वर्ष का और अन्त्य के ऊपर श्वेत बिन्दु हों तो चौदह वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर काच की तरह सफेद बिन्दु हों तो पन्द्रह वर्ष का, मध्यम के
ऊपर काच की तरह सफेद बिन्दु हों तो सोलह वर्ष का और अन्त्य के ऊपर काच की
तरह सफेद बिन्दु हों तो सत्रह वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर शहद के रंग के बिन्दु हों तो अट्ठारह वर्ष का, मध्यम के
ऊपर शहद के रंग के बिन्दु हों तो उन्नीस वर्ष का और अन्त्य के ऊपर शहद के रंग के
बिन्दु हों तो बीस वर्ष का घोड़ा होता है।
यदि सन्दंश के ऊपर शङ्ख के रंग के बिन्दु हों तो इक्कीस वर्ष का, मध्यम के
ऊपर शङ्ख के रंग के बिन्दु हों तो बाईस वर्ष का और अन्त्य के ऊपर शङ्ख के रंग के
बिन्दु हों तो तेईस वर्ष का घोड़ा होता है।
बृ० सं० हि०-१९/२ Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

यदि सन्दंश के ऊपर छिद्र हों तो चौबीस वर्ष का, मध्यम के ऊपर छिद्र हों तो
पच्चीस वर्ष का और अन्त्य के ऊपर छिद्र हों तो छब्बीस वर्ष का घोड़ा होता है।
यदि सन्दंश हिलता हो तो सत्ताईस वर्ष का, मध्यम हिलता हो तो अट्ठाइस वर्ष का
और अन्त्य हिलता हो उन्तीस वर्ष का घोड़ा होता है।
यदि सन्दंश गिर गया हो तो तीस वर्ष का, मध्यम गिर गया हो तो इकतीस वर्ष का
और अन्त्य गिर गया हो तो बत्तीस वर्ष का घोड़ा होता है।।५।।
इति ‘विमला’हिन्दीटीकायामश्वलक्षणाध्यायः षट्षष्टितमः ॥६६॥
अश्वानामधो दन्तपाल्यां दंष्ट्राद्वयमध्ये षड्दन्ता व्यञ्जिनो भवन्ति, षड्भिर्दन्तैरग्रवर्तिभि-
र्द्वयोरपि दन्तपाल्योः सिताभैः श्वेतच्छविभिर्हयश्शिशुर्बालोऽश्वो भवति। एकवर्ष इत्यर्थः।
तैरेव षड्भिर्दन्तैः कषायैः कृष्णलोहितवर्णैर्द्विवर्षोऽश्वो भवति। द्वयोरपि दन्तपाल्योः सम-
मध्यवर्तिनौ द्वौ द्वौ दन्तौ सन्दंशावुच्येते। तत्पार्श्ववर्तिनमेकैकं मध्यमम्। द्वयोरपि पार्श्वद्वय-
वर्तिनमेकैकमन्त्यसंज्ञम्। एवं सन्दंशैः पतितसमुदितैः पतित्वा पुनरप्युत्थितैस्त्र्याब्दिकोऽश्वः।
त्रीणि वर्षाणि प्रमाणमस्य त्र्याब्दिकः। एवं मध्यमैर्दन्तैः पतितसमुदितैरब्धिसंख्यानि वर्षाणि
प्रमाणमस्य। अन्त्यैः समुदितैः पञ्चाब्दिकः। सन्दंशानुक्रमेण सन्दंशपरिपाट्या कालिकाद्या
व्यञ्जनिनस्त्रिकपरिगणिताः कार्याः। त्रिभिस्त्रिभिर्वर्षैर्गणनीयाः। एतदुक्तं भवति—यदा सन्दंश-
दन्तयोः कालिका कृष्णो बिन्दुर्भवति, तदा षडब्दाः। ताम्रसदृशाकृतिरासां विज्ञेया। एवं
मध्यमैः सकालिकैः सप्ताब्दाः। अन्त्यैरष्टाब्दाः। एवं प्रतिचिह्नन्सन्दंशानुक्रमेण त्रिवर्षगुणितं
कार्यम्। तेन सन्दंशानुक्रमेण पीतायामेकादशाब्दाः। पीताः पीतवर्णाः। एवं शुक्लायां चतुर्द-
शाब्दाः। शुक्लाः शुक्लवर्णाः। काचायां सप्तदशाब्दाः। काचाः काचवर्णाः। मक्षीकायां
विंशत्यब्दाः। मक्षीका तदाकृतिः। शङ्खायां त्रयोविंशत्यब्दाः। शङ्खा शङ्खाकृतिरेव। अवटं
छिद्रम्। तेन षड्िंशत्यब्दाः। चलनं कम्पनं तेनैकोनत्रिंशदब्दाः। अतोऽनन्तरं दन्तपातः
पतनं तेन द्वात्रिंशदब्दाः। एवं क्रमेण विद्धि जानीहि। तथा च वररुचिः—
सन्दंशं मध्यमन्त्यं दशनयुगमधः सोत्तरं वर्षजाते
स्फीतं द्व्यब्दे कषायं पतितसमुदितं त्रिश्चतुष्पञ्चकेषु।
त्रींस्त्रीनेकैकमब्दानसितहरिसिताकाचमाक्षीकशङ्खा-
च्छिद्रं चालं च्युतिश्च प्रभवति तुरगे लक्षणं वक्रजानाम्।। इति।
पराशरमहर्षिणा अश्वानामायुष्प्रमाणपरिज्ञानमभिहितम्, तद्यथा—
‘अथ रेखा दीर्घा गम्भीरा अविच्छिन्नास्तिस्त्रः प्रोथे यस्य तस्यायुर्वर्षाणि त्रिंशत्। द्वाभ्यां
विंशतिः। दशैकया च। दक्षिणेनाभिवृत्तया द्वादश। वंशाग्रमनुगतया अष्टादश। ह्रस्वजिह्मवक्र-
विच्छिन्नाव्यक्तरूक्षकबन्धकाकपादाकारया जघन्यमायुः’ इति।।५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावश्वलक्षणं नाम षट्षष्टितमोऽध्यायः ॥६६॥

अथ हस्तिलक्षणाध्यायः
अथ हस्तिलक्षणं व्याख्यायते। तत्र गजानां चतस्रो जातयो भवन्ति—भद्रमन्द-
मृगमिश्राख्याः। तत्रादावेव भद्रलक्षणमाह—
मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश्च ।
गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥१॥
गजों की भद्र, मन्द, मृग और मिश्र—ये चार जातियाँ होती हैं। उनमें प्रथमतः पठित
भद्र जाति वाले गज का लक्षण इस प्रकार है—
शहद के समान रंग के दाँत वाले, अवयवों के विभाग से परिपूर्ण, बहुत स्थूल,
बहुत दुर्बल, कार्यक्षम, तुल्य अंगों से युत, धनुषाकार पृष्ठवंश ( पीठ की हड्डी वाले )
तथा सूअर के समान वर्तुलाकार जानु और कमर वाले हाथी ‘भद्र’ संज्ञक होते हैं॥१॥
ये गजा मध्वाभदन्ता मधुसदृशी आभा कान्तिर्येषाम्। सुविभक्तदेहाः शोभनं कृत्वा
विभक्तो देहः शरीरं येषाम्। अवयवप्रविभागसम्पन्ना इत्यर्थः। न चोपदिग्धाः, नातिस्थूलाः।
न कृशा नातिदुर्बलदेहाः। क्षमाश्च कार्ययोग्याः। गात्रैश्च शरीरावयवैः समैस्तुल्यैर्युक्ताः।
चापसमानवंशाः चापं शरासनं तत्समाना वंशास्तत्तुल्यपृष्ठाः। वराहतुल्यैः सूकरप्रतिमैश्च
जघनैः कटिभागैरैभिः परिवर्तुलैस्तैर्भद्रा गजाः॥१॥
अथ मन्दलक्षणमाह—
वक्षोऽथ कक्षावलयः श्लथाश्च लम्बोदरस्त्वग्बृहती गलश्च ।
स्थूला च कुक्षिः सह पेचकेन सैंही च दृग् मन्दमतङ्गजस्य ॥२॥
जिसके छाती और कक्षावलय ( शरीर के मध्य का वलय ) ढीले हों, पेट लम्बा
हो, स्थूल चमड़ा, कण्ठ, पेट और पूँछ के जड़ाहो तथा सिंह के समान दृष्टि हो, वह
हाथी ‘मन्द’संज्ञक होता है॥२॥
वक्ष उरः। अथशब्दश्चार्थे। कक्षावलयः। कक्षाग्रहणेन कक्षास्थानं शरीरमध्यमुच्यते।
तत्र या वलयः। अथवा कक्षा तथा वलय एताः श्लथाः शिथिलाः। लम्बोदरः प्रलम्बजठरः।
त्वग्बृहती स्थूलं चर्म। गलः कण्ठश्च स्थूल एव। कुक्षिः स्थूला बृहती। सह पेचकेन
पेचकं पुच्छमूलम्, तेन सह साकं स्थूलकुक्षिः। सैंही दृक् सिंहसदृशी दृष्टिः। तस्यैतल्लक्षणं
मन्दमतङ्गजस्य मन्दसंज्ञगजस्य॥२॥
अथ मृगसङ्कीर्णयोर्लक्षणमाह—
मृगास्तु ह्रस्वाधरवालमेढ्रास्तन्वङ्घ्रिकण्ठद्विजहस्तकर्णाः ।
स्थूलेक्षणाश्चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिश्रचिह्नाः ॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१९६ बृहत्संहिता
जिनके नीचेले ओंठ, पूँछ के बाल और लिङ्ग छोटे हों, कण्ठ, दाँत, सूँड और
कान छोटे हों तथा बड़ी आँख हों, वे हाथी 'मृग'संज्ञक होते हैं। पूर्वोक्त तीनों हाथियों के
लक्षण मिश्रित रूप से जिनमें मिलते हैं, वे हाथी 'संकीर्ण' संज्ञक होते हैं॥३॥
ये गजा ह्रस्वाधरवालमेढ्राः, ह्रस्वाधरा अल्पौष्ठाः। केचिद् ह्रस्वोदर इति पठन्ति।
ह्रस्वा वालाः पुच्छस्थाः। ह्रस्वा अदीर्घाः। ह्रस्वमेढ्रा अदीर्घलिङ्गाः। तन्वङ्घ्रिकण्ठद्विज-
हस्तकर्णाः, अङ्घ्रयो पादौ; कण्ठो गलः; द्विजा दन्ताः; हस्तः करः; कर्णौ श्रोत्रे चैतानि
तनूनि स्वल्पमांसानि येषाम्। स्थूलेक्षणा विस्तीर्णनयनाः। अथवा स्थूलतारकाः स्थूले-
क्षणाः। एते गजा मृगाः। एतैर्लक्षणैर्युक्ताः। यथोक्तचिह्नः सङ्कीर्णनागा व्यतिमिश्रचिह्नाः
यथोक्तैर्यथानिर्दिष्टैश्चिह्नैर्लक्षणैर्भद्रमन्दमृगाणां सम्बन्धिभिर्ये व्यामिश्रैर्युक्तास्ते नागा गजाः
सङ्कीर्णाः॥३॥
अधुनैतेषामुन्नतिदैर्घ्यपरिणाहानां प्रमाणमाह—
पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताः परिणाहमानम्।
एकद्विवृद्ध्याथ मन्दभद्रौ सङ्कीर्णनागोऽनियतप्रमाणः॥४॥
मृग जाति वाले हाथी की ऊँचाई पाँच हाथ, पूँछ से लेकर कुम्भ तब लम्बाई सात
हाथ और मध्य की मोटाई आठ हाथ होती है। मृग की ऊँचाई आदि में एक-एक हाथ
बढ़ाने से मन्द की और दो-दो हाथ बढ़ाने से भद्र की ऊँचाई आदि का प्रमाण होता है।
संकीर्ण जाति के हाथियों की ऊँचाई आदि का प्रमाण अनिश्चित होता है॥४॥
मृगाख्यस्य गजस्य पञ्चोन्नतिः पञ्च हस्ता औच्च्यम्। पुच्छमूलात् कुम्भान्तं यावत्
सप्तहस्ता दैर्घ्यम्। अष्टौ च हस्ताः परिणाहमानं परिणाहो मध्यपरिधिः, तस्य मानमष्ट-
हस्तप्रमाणम्। एकद्विवृद्ध्याविति। एकवृद्ध्या मन्दः, द्विवृद्ध्या भद्रः। एतदुक्तं भवति—
मन्दस्य षडुन्नतिः, अष्टौ दैर्घ्यम्। नव परिणाहः; भद्रस्य सप्तोन्नतिः, नव दैर्घ्यम्, दश
परिणाहः। सङ्कीर्णनागः सङ्कीर्णाख्यो गजः। अनियतप्रमाणोऽनिश्चितपरिमाण इत्यर्थः। व्यामिश्र-
प्रमाणो भवति। त्रयाणां भद्रादीनां यल्लक्षणमुक्तं तन्मिश्रितस्य भवति। तथा च पराशरः—
परिणाहो दशसमो नवायामः स उच्छ्रयः।
सप्त ज्येष्ठप्रमाणस्य नागस्य समुदाहृतः॥
ज्येष्ठात् सप्तमभागोनो मध्यमो मध्यमाद्गजः।
अन्त्यः षड्भागहीनः स्यादतोऽन्यो न स पूजितः॥
मुखादापेचकं दैर्घ्यं पृथु पार्श्वोदरान्तरम्।
आनाह उच्छ्रयः पादा विज्ञेयो यावदासनम्॥ इति॥४॥
अथ तेषां वर्णमदलक्षणमाह—
भद्रस्य वर्णो हरितो मदश्च मन्दस्य हारिद्रकसन्निकाशः।
कृष्णो मदश्चाभिहितो मृगस्य सङ्कीर्णनागस्य मदो विमिश्रः॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

हस्तिलक्षणाध्यायः १९७
भद्र जाति के हाथी का मद हरा, मन्द जाति का हल्दी के समान पीला, मृग जाति
का काला और सङ्कीर्ण जाति के हाथी का मद मिश्रित वर्ण का होता है।।५।।
भद्राख्यस्य गजस्य वर्णो हरितः शुकवर्णः, मदश्च हरितः। मन्दगजस्य मदो वर्णश्च
हारिद्रकसन्निकाशः, हरिद्रया रक्तं हारिद्रकं तत्सन्निकाशस्तत्सदृशः। पीताभो वर्णो मदश्च।
मृगाख्यस्य गजस्य कृष्णवर्णाभो मदः। चशब्दाद्वर्णोऽभिहित उक्तः। सङ्कीर्णनागस्य सङ्कीर्णा-
ख्यस्य गजस्य मदो वर्णश्च विमिश्रो व्यामिश्रवर्णो भवति।।५।।
अथ गजानां शुभानि लक्षणान्याह—
ताम्रोष्ठतालुवदनाः कलविङ्कनेत्राः
स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः।
चापोन्नतायतनिगूढनिमग्नवंशा-
स्तन्वेकरोमचितकूर्मसमानकुम्भाः ॥६॥
विस्तीर्णकर्णहनुनाभिललाटगुह्याः
कूर्मोन्नतद्विनवविंशतिभिर्नखैश्च ।
रेखात्रयोपचितवृत्तकराः सुवाला
धन्याः सुगन्धिमदपुष्करमारुताश्च ॥७॥
ताम्रवर्ण के ओंठ, तालु और मुख वाला, घरों में रहने वाले पक्षियों के समान नेत्र
वाला, स्निग्ध और उन्नत दाँत के अग्र भाग वाला, विस्तीर्ण और दीर्घ मुख वाला, धनु
के समान उन्नत, दीर्घ, निगूढ और निमग्न पृष्ठवंश वाला, कछुये के समान कुम्भों में
एक-एक सूक्ष्म रोग वाला, विस्तीर्ण कान, हनु, नाभि, ललाट और लिङ्ग वाला, कछुये
के समान अट्ठारह या बीस नख वाला, तीन रेखाओं से युत, वर्तुलाकार सूँड वाला तथा
सुगन्धयुत मदार्द्र सूँड-वायु वाला हाथी शुभ होता है।।६-७।।
ये गजास्ताम्रोष्ठतालुवदनाः ताम्रवर्णानि लोहितान्योष्ठतालुवदनानि येषाम्। ओष्ठ-
मधरोष्ठम्। ताल्वास्यपृष्ठम्। वदनं मुखम्। कलविङ्कनेत्राः कलविङ्का ग्रामचटकास्तन्नेत्र-
तुल्ये नेत्रे येषाम्। स्निग्धोन्नताग्रदशनाः स्निग्धाः सस्नेहा उन्नताग्रा उच्चप्रान्ता दशना दन्ता
येषाम्। पृथुलायतास्याः। पृथुलं विस्तीर्णमायतं दीर्घं चास्यं मुखं येषाम्। चापोन्नतायत-
निगूढनिमग्नवंशाः चापवच्छराशनवत् क्रमेणोन्नत उच्च आयतो दीर्घो निगूढोऽनुल्बणः
सुश्लिष्टः सन्धिर्निमग्नो नात्युन्नतो वंशः पृष्ठास्थि येषाम्। तन्वेकरोमचितकूर्मसमानकुम्भाः
तनुभिरघनैरेकरोमचितैरेकैककूपस्थै रोमभिश्चिताः कूर्मसमानः कूर्मसदृशो मध्योन्नतो कुम्भो
येषां ते गजा धन्याः।
विस्तीर्णकर्णेति । कर्णौ श्रोत्रे। हनुनी प्रसिद्धे। नाभी देहमध्यभागः। ललाटं मुख-
पृष्ठम्। गुह्यं लिङ्गम्। एतानि विस्तीर्णानि येषाम्। तथा कूर्मोन्नतैः कूर्मवद्वृत्तैर्मध्योच्चै-
र्द्विनवविंशतिभिर्नखैः कररुहैः। द्विनवसंख्यैरष्टादशभिर्विंशत्या चोपलक्षिताः। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१९८ बृहत्संहिता
विंशत्यष्टौ दश नखाः स्थिराः कूर्मसमाहिताः ।
गजानां पूजिताः पादा ये च स्युरकचाविलाः ।। इति ।
रेखात्रयोपचितवृत्तकरा रेखात्रयेण दैर्घ्यस्थितो युक्तो वृत्तो वर्त्तुलः करो हस्तो येषाम्।
सुवालाः शोभनतनूरुहाः । सुगन्धिमदपुष्करमारुताश्च सुगन्धिः शोभनगन्धिः, मदो मदाम्बु
तथा पुष्करमारुतः करप्रान्तवातो येषां ते गजा धन्या इति ।।६-७।।
अन्यदप्याह—
दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोधनिनादबृंहिणः ।
बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः ।।८।।
हाथियों के सूँड के अग्र भाग को 'पुष्कर' और पुष्कर के अग्र भाग को 'अंगुली'
कहते हैं। जिनकी दीर्घ अंगुली लाल पुष्कर, जलपूर्ण मेघगर्जन के समान गलगर्जन,
विस्तीर्ण दीर्घ और वर्तुलाकार ग्रीवा हो, ऐसे हाथी राजा के लिये शुभ होते हैं।।८।।
गजानां करप्रान्ता मांसपेश्योऽङ्गुलिशब्दवाच्याः। करप्रान्तं सकलं पुष्करमुच्यते।
तत्र दीर्घा अङ्गुलयो रक्तं च पुष्करं येषाम्, तथा सजलस्य जलसंयुक्तस्याम्भोदस्य यो
निनादः शब्दस्तद्वद् बृंहणं गलगर्जितं येषाम्। बृहती विस्तीर्णा आयता दीर्घा वृत्ता परिवर्तुला
कन्धरा ग्रीवा येषाम्, ते मतङ्गजा हस्तिनो भूमिपते राज्ञो धन्याः शुभा इति ।।८।।
अथाशुभलक्षणान् गजानाह—
निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणान् ।
दृश्यकोशफलपुष्करहीनान् श्यावनीलशबलासिततालून् ।।९।।
स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीं च गजलक्षणयुक्ताम् ।
गर्भिणीं च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते ।।१०।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां हस्तिलक्षणं
नाम सप्तषष्टितमोऽध्यायः ।।६७।।
मदरहित, नख और अवयव हीनाधिक वाला, कुब्ज, मेढ़ों की सींगों के समान
दाँत वाला, जिसके अण्डकोश दिखाई दें, विना पुष्कर वाला, मलिन, नील, चित्र या
कृष्ण तालु वाला, छोटे दाँत या मुखरोम वाला, विना दाँत वाला, षण्ढ, हाथी के लक्षण
वाली गर्भयुत हथिनी—इन सभी हाथियों क्रो राजा द्वारा परदेश में भेज देना चाहिये;
क्योंकि ये सभी दुष्ट फल देने वाले होते हैं।।९-१०।।
इति 'विमला'हिन्दीटीकायां हस्तिलक्षणाध्यायः सप्तषष्टितमः ।।६७।।
ये गजा निर्मदा मदरहिता न कदाचिदपि प्रमत्ता भवन्ति तान्, यांश्चाभ्यधिकहीननखाङ्गान्
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

हस्तिलक्षणाध्यायः १९९
अभ्यधिका हीनाश्च वा नखाः कररुहा अङ्गान्यवयवा येषाम्। नखा अष्टादशभ्य ऊना विंशते-
रधिकाः। अङ्गानामूनाधिकत्वं तथानुसारेण परिकल्पनीयम्। तथा यश्च कुब्जो गजस्तस्य
च लक्षणम्—
संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः।
प्रमाणहीनस्तन्नाभिः स कुब्जो वारणाधमः।।
तथा यश्च वामनकस्तस्य लक्षणम्—
अनाहायामसंयुक्तो योऽतिह्रस्वो भवेद्गजः।
वामनः स समाख्यातो भर्तुर्नार्थयशःप्रदः।।
तथा यश्च मेषविषाणो मेषोऽजस्तस्य विषाणे शृङ्गे तत्तुल्ये विषाणे दन्तौ यस्य।
तथा च—
विषाणं ब्रुवते शृङ्गं विषाणं दन्त उच्यते।
तान् कुब्जवामनकमेषविषाणान्। दृश्ये दृश्यमाने कोशफले वृषणौ येषाम्। पुष्करं
करप्रान्तः पद्माकारं तेन हीनान् रहितान्। श्यावं मलिनं नीलं नीलाकारं शवलं व्यामिश्रं
शुक्लकृष्णवर्णम्। असितं कृष्णं वा तालु येषां तानपि। तथा स्वल्पा वक्त्ररुहा दन्ता
मुखलोमानि वा येषाम्। मत्कुणो यश्च दन्तरहितः। तथा च लक्षणम्—
सर्वलक्षणसम्पूर्णो दन्तैस्तु परिवर्जितः।
मत्कुणः स समाख्यातः संग्रामे प्राणघातकः।।
यश्च षण्ढः तस्य लक्षणम्—
पादयोः सन्निकर्षः स्याद्यस्य नागस्य गच्छतः।
स षण्ढोऽध्वनि युद्धे च लक्षणज्ञैर्न पूजितः।।
तथा च—
अनन्त्याभ्यधिकं यस्य विस्तारेण स्तनान्तरम्।
विकटः स च निर्दिष्टो दुर्गतिर्निन्दितो गजः।।
एवंविधा ये गजास्तान् नृपती राजा परदेशमन्यदेशं प्रापयेन्नयेत्। तथा हस्तिनीं करिणीं
च गजलक्षणयुक्तां स्थूलदन्तां समदामित्यर्थः। गर्भिणीं तद्राष्ट्रस्थितां गर्भसंयुक्तां च नृपतिः
परदेशं प्रापयेत्। यतस्ते गजा अतिविरूपफला अतिविरूपं दृष्टफलं येषां ते तथाभूता
इति।।१०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ हस्तिलक्षणं
नाम सप्तषष्टितमोऽध्यायः ।।६७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ पुरुषलक्षणाध्यायः
अथ पुरुषलक्षणं व्याख्यायते। तत्रादावभिधेयार्थस्य संग्रहमाह—
उन्मानमानगतिसंहतिसारवर्ण-
स्नेहस्वरप्रकृतिसत्त्वमनूकमादौ ।
क्षेत्रं मृजाञ्च विधिवत्कुशलोऽवलोक्य-
सामुद्रविद्वदति यातमनागतं वा ॥१॥
उन्मान ( अङ्गुलात्मक ऊँचाई ), मान ( भारीपन ), गति ( गमन ), संहति
( घनता ), सार, वर्ण, स्नेह ( स्निग्धता ), स्वर ( शब्द ), प्रकृति, सत्त्व, अनूक
( जन्मान्तरागमन ), क्षेत्र ( वक्ष्यमाण दस प्रकार के पाद आदि ), मृजा ( पञ्चमहाभूत-
मयी शरीरच्छाया )—इनको अच्छी तरह जानकर ही सामुद्रिक शास्त्र का ज्ञाता पण्डित
मनुष्यों के शुभाशुभ फल कह सकता है॥१॥
उन्मानं च मानं च गतिश्च संहतिश्च सारश्च वर्णश्च स्नेहश्च स्वरं च प्रकृतिश्च सत्त्वं
च तदुन्मानमानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्त्वम्। न केवलमुन्मानमानाद्यं यावदनूकं
क्षेत्रं मृजां च। आदौ प्रथमं विधिवद्यथावत् कुशलः शिक्षितोऽवलोक्य निरूप्य विचार्य।
कोऽसौ सामुद्रवित् समुद्रे प्रोक्तं पुरुषलक्षणं सामुद्रम्। तद्वेत्ति जानातीति सामुद्रवित्,
वदति कथयतीति। यातमतिक्रान्तमिष्टानिष्टफलम्। न केवलं यावदनागतमेष्यद्वेति। अत्र
केचिन्मन्यन्ते। प्रकृतिपर्यायं सत्त्वमाचार्येण व्याख्यातम्। ‘एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्' इति। तस्मात् सत्त्वशब्दमत्रातिरिच्यते। नातिरिच्यत
इत्युच्यते। सत्त्वं नाम चेतोधर्मः, यस्मिन् सति न कुतश्चिद्भयमुत्पद्यते, न कस्यामप्यवस्थायां
विषादः समुपजायते, तत्समाचक्षते कुशलाः—
एकाकिनि वनवासिनि अराजलक्ष्मणि अनीतिशास्त्रज्ञे।
सत्त्वोच्छ्रिते मृगपतौ राज्येऽतिगिरः परिणमन्ति।।
तथा चाचार्येणानन्तरमेव पञ्चपुरुषलक्षणे सत्त्वमन्यदेव दर्शितम्—‘तद्धातुमहाभूत-
प्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः' इति, ‘सत्त्वमहीनं सूर्यात्' इति। तथा—‘भौमात् सत्त्वं गुरुता
बुधात्' इति यस्मादुक्तं तस्मात् सत्त्वमिति नातिरिच्यते। अपरे अन्यथा पठन्ति—‘प्रकृतयश्च
ततो ह्यनूकम्' इति। प्रकृतयश्च न जायन्ते। यतोऽवलोक्यास्याः क्रियाया उन्मानादिप्रकृतिपर्यन्तं
सामासिकं पदं कर्म। कर्मत्वे च प्रकृतिं प्रकृतीरिति वा भवितव्यम्। सत्त्वमित्येतच्च न
संगृहीतं स्यादिति स्पष्टीक्रियते—उन्मानमिति। ऊर्ध्वमङ्गुलादिकं मानमुन्मानम्। तथा
कात्यायनः—
ऊर्ध्वमानं किलोन्माने मानं तु तुलया धृतम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA