सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 217, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 217

अश्वलक्षणाध्यायः १८९
जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो
वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥१॥
दीर्घ ग्रीवा और नेत्रकोश वाला, विस्तीर्ण कटि और हृदय वाला, ताम्र वर्ण के
तालु, ओंठ और जीभ वाला, सूक्ष्म चर्म, शिर के बाल और पूँछ वाला, सुन्दर शफ
( खुर ), गति और मुख वाला, छोटे कान, ओंठ और पूँछ वाला, गोल जंघा, जानु और
ऊरु वाला, बराबर और सफेद दाँत वाला तथा दर्शनीय आकार और शरीर की शोभा
वाला सर्वांग शुद्ध घोड़ा सदा राजा के शत्रुओं के नाश के लिये होता है॥१॥
दीर्घग्रीवाक्षिकूटः, दीर्घा ग्रीवा शिरोधरा यस्य, तथा दीर्घाक्षिकूटः, अक्षिकूटं दृगाश्रयः।
त्रिकहृदयपृथुः त्रिकं कटिभारः, हृदयं हृत्स्थानम्, एते पृथुनी विस्तीर्णे यस्य। ताम्रता-
ल्वोष्ठजिह्वः ताम्रवर्णावोष्ठावधरौ यस्य ताल्वास्यपृष्ठं जिह्वा रसना च यस्य। सूक्ष्मत्वक्के-
शवालः त्वक् चर्म, केशा मूर्धजाः, बालः पुच्छवालः, एते सूक्ष्मा यस्य। सुशफगतिमखः
शफाः खुराः, गतिर्गमनम्, मुखं वक्त्रमेतानि सुप्रमाणेण गतिलक्षणेन युक्तानि यस्य सुशोभन-
त्वात्। ह्रस्वकर्णोष्ठपुच्छः कर्णौ श्रोत्रे, ओष्ठ उत्तरोष्ठः, पुच्छं पुच्छमूलं यत्रास्थिवाला
लग्ना भवन्ति। एतानि ह्रस्वान्यदीर्घाणि यस्य। जङ्घाजानूरुवृत्तो जङ्घे सुप्रसिद्धे, जानुनी
ऊरू च एतानि वृत्तानि परिवर्तुलानि यस्य। समसितदशनः समास्तुल्याः सिताः श्वेतवर्णा
दशना दन्ता यस्य। चारुसंस्थानरूपः चारु दर्शनीयं संस्थानमाकारो रूपं शरीरशोभा यस्य।
एवंविधो वाजी अश्वः सर्वाङ्गशुद्धः सर्वावयवलक्षणैर्निर्दोषैर्युक्तो नरपते राज्ञो नित्यं सर्वकालं
शत्रुनाशाय रिपुवधाय भवतीत्यर्थः। तथा च भगवान् पराशरः—
जघन्यमध्यज्येष्ठानामश्वानामायतिर्भवेत् ।
अङ्गुलानां शतं ज्ञेयं विंशत्या दशभिस्त्रिभिः ॥
परिणाहाङ्गुुलानि स्यात् सप्ततिः सप्तसप्ततिः ।
एकाशीतिः समासेन त्रिविधः स्याद् यथाक्रमम् ॥
तथा षष्टिश्चतुःषष्टिरष्टषष्टिः समुच्छ्रयः ।
द्विपञ्चसप्तकयुता विंशतिः स्यान्मुखायतः ॥
श्मश्रुहीनं मुखं कान्तं प्रगल्भं तुङ्गनासिकम्।
ह्रस्वप्रोथं तनुश्रोत्रं रक्तगम्भीरतालुकम्॥
षडब्द्माद्वादशकं मृदुनासापुटं दृढम्।
दीर्घोद्धतमुखं ग्रीवं ह्रस्वकुक्षिखुरं तथा॥
विवशं चण्डवेगं च हंसमेघसमस्वनम्।
हरितं शुकवर्णं वा श्वेतं कृष्णसमण्डलम्॥
अश्वमीदृशमारोहेद्धस्तेन श्रवणेन वा।
आश्विने नोदनाभिज्ञा वाहयेयुर्द्विजातयः॥
तथा च वर्णेनैकेन स्निग्धवर्णो भवेद्यदि।
स हन्याद्वर्णजान् दोषान् देहः सर्वत्र शस्यते॥ इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA