सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 228, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 228

अथ पुरुषलक्षणाध्यायः
अथ पुरुषलक्षणं व्याख्यायते। तत्रादावभिधेयार्थस्य संग्रहमाह—
उन्मानमानगतिसंहतिसारवर्ण-
स्नेहस्वरप्रकृतिसत्त्वमनूकमादौ ।
क्षेत्रं मृजाञ्च विधिवत्कुशलोऽवलोक्य-
सामुद्रविद्वदति यातमनागतं वा ॥१॥
उन्मान ( अङ्गुलात्मक ऊँचाई ), मान ( भारीपन ), गति ( गमन ), संहति
( घनता ), सार, वर्ण, स्नेह ( स्निग्धता ), स्वर ( शब्द ), प्रकृति, सत्त्व, अनूक
( जन्मान्तरागमन ), क्षेत्र ( वक्ष्यमाण दस प्रकार के पाद आदि ), मृजा ( पञ्चमहाभूत-
मयी शरीरच्छाया )—इनको अच्छी तरह जानकर ही सामुद्रिक शास्त्र का ज्ञाता पण्डित
मनुष्यों के शुभाशुभ फल कह सकता है॥१॥
उन्मानं च मानं च गतिश्च संहतिश्च सारश्च वर्णश्च स्नेहश्च स्वरं च प्रकृतिश्च सत्त्वं
च तदुन्मानमानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्त्वम्। न केवलमुन्मानमानाद्यं यावदनूकं
क्षेत्रं मृजां च। आदौ प्रथमं विधिवद्यथावत् कुशलः शिक्षितोऽवलोक्य निरूप्य विचार्य।
कोऽसौ सामुद्रवित् समुद्रे प्रोक्तं पुरुषलक्षणं सामुद्रम्। तद्वेत्ति जानातीति सामुद्रवित्,
वदति कथयतीति। यातमतिक्रान्तमिष्टानिष्टफलम्। न केवलं यावदनागतमेष्यद्वेति। अत्र
केचिन्मन्यन्ते। प्रकृतिपर्यायं सत्त्वमाचार्येण व्याख्यातम्। ‘एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्' इति। तस्मात् सत्त्वशब्दमत्रातिरिच्यते। नातिरिच्यत
इत्युच्यते। सत्त्वं नाम चेतोधर्मः, यस्मिन् सति न कुतश्चिद्भयमुत्पद्यते, न कस्यामप्यवस्थायां
विषादः समुपजायते, तत्समाचक्षते कुशलाः—
एकाकिनि वनवासिनि अराजलक्ष्मणि अनीतिशास्त्रज्ञे।
सत्त्वोच्छ्रिते मृगपतौ राज्येऽतिगिरः परिणमन्ति।।
तथा चाचार्येणानन्तरमेव पञ्चपुरुषलक्षणे सत्त्वमन्यदेव दर्शितम्—‘तद्धातुमहाभूत-
प्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः' इति, ‘सत्त्वमहीनं सूर्यात्' इति। तथा—‘भौमात् सत्त्वं गुरुता
बुधात्' इति यस्मादुक्तं तस्मात् सत्त्वमिति नातिरिच्यते। अपरे अन्यथा पठन्ति—‘प्रकृतयश्च
ततो ह्यनूकम्' इति। प्रकृतयश्च न जायन्ते। यतोऽवलोक्यास्याः क्रियाया उन्मानादिप्रकृतिपर्यन्तं
सामासिकं पदं कर्म। कर्मत्वे च प्रकृतिं प्रकृतीरिति वा भवितव्यम्। सत्त्वमित्येतच्च न
संगृहीतं स्यादिति स्पष्टीक्रियते—उन्मानमिति। ऊर्ध्वमङ्गुलादिकं मानमुन्मानम्। तथा
कात्यायनः—
ऊर्ध्वमानं किलोन्माने मानं तु तुलया धृतम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA