बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 209, कुल 760 में से
संदर्भ में पढ़ेंकूर्मलक्षणाध्यायः १८१
वैदूर्य मणि के समान कान्ति वाले, स्थूल कण्ठ वाले, त्रिभुजाकृति वाले, ढके हुये
छिद्र वाले या सुन्दर पृष्ठवंश वाले कछुये को राजा द्वारा मंगल के लिये अपने क्रीडावापी
या जलपूर्ण मटके में रखना चाहिये।।३।।
इति 'विमला'हिन्दीटीकायां कूर्मलक्षणाध्यायश्चतुःषष्टितमः ॥६४॥
वैदूर्यत्विड् वैदूर्यसदृशकान्तिः स्थूलकण्ठः पीनगलः। त्रिकोणः शृङ्गाटकाकृतिः।
गूढच्छिद्रो गूढानि अदृश्यानि छिद्राणि रन्ध्राणि यस्य। चारुवंशः शोभनपृष्ठास्थि। स
शस्तः शोभनः। य एवंविधः कूर्मः स नरेन्द्रै राजभिर्मङ्गलार्थं क्रीडावाप्यां क्रीडापुष्करिण्यां
मणौ वा कूपाधोभागे तोयपूर्णे कार्यः। तथा च गर्गः—
शङ्खदर्भप्रतीकाशश्छत्राभो रजतप्रभः।
तथा वैदूर्यवर्णाभो यो भवेदष्टसर्षपः।।
यश्च वा कोकिलाभासो राजीवभाश्च यो भवेत्।
पीतकाञ्चनवर्णस्तु पुण्डरीकसमप्रभः।।
गोधामुखं त्रिकोणं च तथा मण्डलवर्धनम्।
स्त्रीपुत्रमतिदं विन्द्यात् कूर्मं राष्ट्रविवर्धनम्॥ इति।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कूर्मलक्षणं
नाम चतुःषष्टितमोऽध्यायः ॥६४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA