बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 216, कुल 760 में से
संदर्भ में पढ़ें१८८ बृहत्संहिता
स्कन्धस्य चोपरि ग्रीवा तस्याश्चोपरि केसरम्।
वाहतो जत्रुतश्चोक्ताः काकसं ककुदं ततः।।
आसनं चैव पृष्ठं च पृष्ठवंशस्ततः परम्।
ककुदावस्थितावंसौ बाहू चांसनिबन्धनौ।।
क्रोडाधस्तात्तथा बाहू बाह्वोर्बाह्ये षडङ्गुले।
बाह्वोरभ्यन्तरे कक्ष्या पार्श्वतस्तौ च वक्षसः।।
किणौ चाभ्यन्तरे विन्द्यादधस्ताज्जानुनी मते।
जान्वोः कापालिके चाधो मन्दिरं जानुपृष्ठतः।।
जङ्घे च जानुनोऽधस्तात् पृष्ठतश्च कले मते।
जङ्घाकलान्तरे ईषे परिहस्तस्तथाग्रतः।।
पृष्ठतः परिहस्तस्य कूर्चौ तन्मध्यगौ किणौ।
कूर्चाधस्तात् कुट्टिके च खुरसन्धिस्ततः खुरः।।
पृष्ठतः पार्ष्णिशीर्षे च पार्ष्णी नखशिखातलम्।
तलमध्ये तु मण्डूक्यौ क्षीरिके च तलान्तरे।।
हृत्परो नाभिवंशश्च नाभेस्तु जठरं परम्।
हृन्नाभिमूत्रकोशानां रोमराज्यन्तरे मता।।
तदधो मेहनं कोशस्ततो मुष्कफलं ततः।
अधस्तात् कटिसन्धेः स्यादूरुसन्धिस्तथोपरि।।
सक्थिनी फलबन्धश्च ऊरुपाण्डुरिहोच्यते।
ऊरोरूर्ध्वं पाण्डपिण्डौ वक्त्रसन्धी ततः स्थुरम्।।
स्थूराधो मन्दिरं प्रोक्तौ शङ्कू तन्मध्यमौ किणौ।
स्थूराधस्तात् पूर्वमुक्तं पृष्ठतश्च विभावयेत्।।
गात्रद्वयं शिरोग्रीवं पूर्वकायः स उच्यते।
जघनं त्रिकपुच्छं च गात्रे द्वे चापि पश्चिमे।।
प्रदेशा मध्यमा ये च सोऽन्तकायः प्रकीर्तितः।
शरीराख्याश्च षट् प्रोक्ता मुखं गात्राणि वालधिः।।
नखरोमाणि वालाश्च केशाश्चावयवाः स्मृताः।
विन्यस्ता वक्त्रपुच्छान्तं मध्ये हीनाधिकं तथा।।
अत्र नोक्तं तु यत्किञ्चिद्विन्द्यात्तदपि युक्तितः।
इति प्रदेशा व्याख्याता वाजिनां देहसंश्रयाः।।
तान् विज्ञाय भिषक् कर्म प्रयुञ्जन्नापराध्यति।। इति।
तत्रादावेवाश्वलक्षणमाह—
दीर्घग्रीवाक्षिकूटत्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः
सूक्ष्मत्वक्केेशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः।