सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 220, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 220

१९२ बृहत्संहिता
स दिशति धननाशं शत्रुवृद्धिं च कुर्याद्
भवति च न सुखाय स्वामिनः शोकदाता।।
अथ सत्त्वगन्धलक्षणमाह—
वर्णावर्तप्रभाङ्गस्वरगतिसहितः सत्त्वगन्धैरुपेतः
शौचाचाराभिजातिः स्मृतिविनयगुणैरन्वितो देवसत्त्वः।
गन्धर्वैर्यातुधानैर्मुनिवरपतिभिस्तुल्यसत्त्वाः प्रशस्ता
ये चान्ये हीनसत्त्वास्त्वशुचिमलरता भीरवस्ते विवर्ज्याः।।
मैरेयाम्भोजसर्पिः क्षितिमधुमदिराचन्दनोशीरलाजा-
कह्लाराशोकजातीवरतरुकुसुमैस्तुल्यगन्धाः प्रशस्ताः।
ये चान्ये क्षारमूत्रक्षतजमलवसाबस्तिनिर्मोकगन्धाः
सन्त्याज्यास्तेऽपि नित्यं त्वशुभफलकरा हानिशोकप्रदाश्च।।
उरो विस्तीर्णं पृथु च जघनं नेत्रयुग्मं सुबद्धं
ग्रीवा वाच्या सुदीर्घा सभुजयुगलकं कण्ठपृष्ठं च ह्रस्वम्।
स्वरो गम्भीरस्तनुरविरलं चेष्टितं चारु नित्यं
शोभा शारीरिकी स्याद्यदि च हि तुरगे दीर्घमायुः स जीवेत्।।
व्यूढोरस्कध्रुवाङ्गस्तनपृथुजघना दीर्घरूक्षाक्षिघोषा
दुर्गन्धाः सर्वगात्रैस्तनुगतिविषमा लम्बकर्णौष्ठपुच्छाः।
दुर्गन्धा दुष्टशीला विनिपतितमना भीरवो नष्टसंज्ञाः
सर्वाचारैश्च हीना यदि खलु तुरगाः सन्ति ह्रस्वायुषस्ते।। इति।।३।।
अथाश्वानां ध्रुवावर्तानाह—
तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः।
रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥४॥
घोड़ों के देह में दश रोमावर्त अवश्य होते हैं, इनको ध्रुवावर्त कहते हैं। जैसे
प्रपाण और मस्तक के केश में एक-एक तथा रन्ध्र (कुक्षि और नाभि के मध्य भाग),
रन्ध्र के ऊपरी भाग, मस्तक, छाती—इन चार स्थानों में दो-दो, इस प्रकार दस ध्रुवा-
वर्त होते हैं॥४॥
तेषां ध्रुवावर्तानां दशानां मध्यात् प्रपाण उत्तरोष्ठाधोभागे एको भवति ध्रुवावर्तः।
अवश्यं भाविनः स्थिरा ध्रुवावर्ताः। ललाटकेशेषु च केशाधो ललाटस्थाने एक एव ध्रुवा-
वर्तो भवति। कुक्षिनाभिमध्यभागे रन्ध्रस्थानम्। तत उपरिभागे उपरन्ध्रस्थानम्। उक्तं च—
कुक्षिनाभ्यन्तरे रन्ध्रमुपरन्ध्रं तथोपरि।
एवं रन्ध्रे एको भवति। उपरन्ध्रे एक एव। द्वयोः पार्श्वयोस्ते चत्वारः। मूर्धनि शिरसि
द्वौ। वक्षसि चोरःप्रदेशे द्वौ स्मृतावुक्तौ। एवमेते दशाश्वानां ध्रुवावर्ताः। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jamทmu. Digitized by S3 Foundation USA