सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

७० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
अथ वा रूपायतनस्य प्राधान्यात् । तद्धि सप्रतिघत्वाच्च पाण्यादिसंस्पर्शे-
स्पृष्टं रूप्यते । सनिदर्शनत्वाच्च—‘इदमिह, अमुत्र’ इति देशनिदर्शनरूपणात्¹ ।
लोकेऽपि च तद्रूपमिति प्रतीतम्, नान्यानि। विशेषणार्थमेकैकं² धर्मायतनमुक्तम्,
न सर्वाणि ।
अपि च—अत्र बहूनां धर्माणां संग्रहो वेदनादीनाम् । अतः सामान्येना-
भिधानं क्रियते धर्मशब्देन । अग्रस्य च निर्वाणधर्मस्यात्र संग्रह , नान्येष्विति ।
विंशतिप्रकारत्वेनौदारिकत्वान्मांसदिव्यार्यप्रज्ञाचक्षुष्ट्रयगोचरत्वाच्चैकं³ रूपायतन-
मित्यपरे ॥ २४ ॥
अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु, तेषां किमेभिरेव
संग्रहो वेदितव्यः, आहोस्वित् व्यतिरेकः ? एभिरेव संग्रहो न व्यतिरेकः ।
तत्र तावत्—
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ २५ ॥
“प्राधान्यात्” इति । त्रिभि कारणै. रूपायतनस्य प्राधान्यम्—पाण्यादि-
संस्पर्शबाधनालक्षणाद् रूपणात्, इदमिहामुत्रेति देशनिदर्शनरूपणात्, इदमेव
रूपमिति लोकप्रतीतत्वाच्च । विशेषणार्थमेकैकं धर्मायतनमुक्तमिति । कथं विशेष-
णार्थम् ? यथा गम्येत प्रत्येकमेषा द्वादशानामायतनत्वम्, विषयिविषयत्वेन
व्यवस्थानाद्, न समस्तानामिति । चक्षुरादिभिंश्च विशेषितैर्यन्न चक्षुरादि-
संज्ञकं धर्मेश्च तद्धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते ।
वेदनादीनामिति । आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृताना ग्रहणम् ।
विंशतिप्रकारत्वेनेति । “रूपं द्विधा विंशतिधा” ( अभि० को० १ १० )
इति वचनात् । चक्षुष्ट्रयगोचरत्वाच्च । मासचक्षुरस्मदादीनाम्, दिव्यं चक्षुर्देवा-
नाम्, आर्य प्रज्ञाचक्षुरार्याणाम् । अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनम् । अतो
रूपमव चक्षुष्ट्रयगोचरम्, न चक्षुरादय । तस्मात् तदेव रूपायतनमुक्तम्,
नान्यानि ॥ २४ ॥
१ निरूपणात्—का० । २ विशेषणार्थमेव चैक—का० ।
३. ०चक्षुस्त्रय०—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ७१
येषा वाक्-स्वभावं बुद्धवचनम्, तेषां तानि रूपस्कन्धसंगृहीतानि । येषा
नामस्वभावम्, तेषा संस्कारस्कन्धेन संगृहीतानि¹ ॥ २५ ॥
किं पुनर्धर्मस्कन्धस्य प्रमाणम् ?
शास्त्रप्रमाण इत्येके,
एके तावत् आहु —धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य प्रमाणमिति ।
तच्च षट्सहस्राणि । अपरे²—
स्कन्धादीनां कथैकशः ।
येषा वाक्स्वभावं बुद्धवचनमिति । येषा सौत्रान्तिकाना वाग्विज्ञप्तिस्वभावं
तेषां तानि रूपस्कन्धसंगृहीतानि । शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात् । येषा
नामस्वभावमिति । येषा निकायान्तरीयाणा चित्तविप्रयुक्तं नामास्ति तेषा
संस्कारस्कन्धेन संगृहीतानि । संस्कारस्कन्धसंगृहीतत्वान्नाम्न ।
आभिधार्मिकाणा तूभयस्वभाव बुद्धवचनमिष्टम् । तथा हि ज्ञानप्रस्थान
उक्तम्—“कतमद् बुद्धवचनम् ? तथागतस्य या वाग् वचनं व्याहारो³ गीर्निरु-
क्तिर्वाक्पथो वाग्घोषो वाक्कर्म वाग्विज्ञप्ति । बुद्धवचनं कुशलं वक्तव्यम् ?
अव्याकृतं वक्तव्यम् ? स्यात् कुशलम्, स्यादब्याकृतम् । कतरत् कुशलम् ?
कुशलचित्तस्य तथागतस्य वाच भाषमाणस्य या वाग् यावद्वाग्विज्ञप्ति । कतरद-
ब्याकृतम् ? अव्याकृतचित्तस्य तथागतस्य इति पूर्ववत् ।” पुनस्तत्रैवानन्तर-
मुक्तम्—“बुद्धवचनं नाम क एष धर्म ? नामकाय-पदकाय-व्यञ्जनकायाना
या आनुपूर्वरचना, अनुपूर्वस्थापना, अनुपूर्वसमायोग” इति । तेषामभिधार्मिकाणा
रूपस्कन्धेन संस्कारस्कन्धेन च तान्यशीतिर्धर्मस्कन्धसहस्राणि संगृहीतानि ।
“सातिरेकाणि मेऽशीतिर्धर्मस्कन्धसहस्राणि भगवतोऽन्तिकात् सम्मुखमुद्गृही-
तानि” ( ) इति सूत्रवचनम् । “चतुरशीतिधर्मस्कन्धसहस्राणि”
( ) इति निकायान्तरे सूत्रपाठ ॥ २५ ॥
“शास्त्रप्रमाण इत्येके” इति । शास्त्रस्य प्रमाणं शास्त्रप्रमाणम्, शास्त्रप्रमाण
प्रमाणमस्य सोऽय धर्मस्कन्ध शास्त्रप्रमाण इत्येके तावदाहु । तच्च षट्सहस्रा-
णिति । तच्च शास्त्र धर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति । तानि
त्वशीतिधर्मस्कन्धसहस्राण्यन्तर्हितानि, एकं त्वेतदवशिष्यत इति कथयन्ति ।
“स्कन्धादीना कथैकशः” । अपर आहुरिति वाक्याध्याहार । स्कन्धादीनामे-
कैका कथा धर्मस्कन्ध । ते च धर्मस्कन्धा अशोतिसहस्रसंख्या व्याख्यायन्ते ।
१. का० पुस्तके नास्ति । २. ०पुनराहु.—का० । ३ व्यवहारो—मुद्रितः पाठः ।

७२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायत-
नकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानाऽरणादीना कथा प्रत्येकं धर्म-
स्कन्ध इति ।
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ २६ ॥
एवं तु वर्णयन्ति—अशीतिश्चरितसहस्राणि सत्त्वानाम् रागद्वेषमोहमानादि-
चरितभेदेन, तेषां प्रतिपक्षेण भगवताऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि ॥२६॥
यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येतेष्वेव पञ्चस्कन्धेषु प्रतिपादितानि,
तथान्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु सम्प्रधार्य स्वलक्षणम् ॥ २७ ॥
येऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्ताः, तेऽप्येष्वेव यथोक्तेषु
स्कन्धादिषु प्रतिपाद्याः स्वं स्व स्वभावमेषा¹ यथाव्यवस्थापितमस्मिञ्छास्त्रे²
विमृश्य³ । तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां
शीलस्कन्धो रूपस्कन्धेन सगृहीतः, शेषाः संस्कारस्कन्धेन । दशानां कृत्स्ना-
प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते । प्रणिधिज्ञानाऽरणादीनामिति । आदि-
ग्रहणेन संग्रहवस्तुकर्मपथाशुभानापानस्मृत्यादीनि गृह्यन्ते ।
“चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः” इति । तुशब्दः पूर्वोक्तपक्षनिरा-
करणार्थः, अवधारणार्थो वा । रागद्वेषमोहमानादिचरितभेदेनेति । आदिशब्देन
दृष्टिविचिकित्सादीना ग्रहणम् । केचित् सत्त्वा रागचरिता., केचिद् द्वेषचरिता',
केचिन्मोहचरिताः, केचिन्मानचरिता., केचिद् दृष्टिचरिता., केचिद् विचिकित्सा-
चरिताः, केचिद् रागद्वेषचरिता , केचिद् रागद्वेषमोहचरिता., केचिद् रागाशया
द्वेषप्रयोगा., केचिद् द्वेषाशया रागप्रयोगा., केचित् कृत्रिमरागा निगूढद्वेषा.
केचित् कृत्रिमद्वेषा निगूढरागा इति । तेषां प्रतिपक्षेण भगवता तान्युक्तानीति ॥२६॥
येऽप्यन्ये स्कन्धायतनधातव इति । विस्तर.—येऽपि स्कन्धायतनधात-
वस्तेऽप्येतेष्वेव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्या., स्वं स्वं स्वभावमेषा
यथाव्यवस्थापितमस्मिन् शास्त्रे विमृश्य—स्कन्धा स्कन्धेषु प्रतिपादयितव्याः,
आयतनान्ययतनेषु, धातवो धातुषु ।
शीलस्कन्धो रूपस्कन्धसंगृहीत इति । कायवाग्विरतिरूपस्वभावत्वाच्छील-
१. लक्षणमेषां—का० । २. यथाविहित०—का० ।
३. सम्प्रधार्य—का० ।

यतनानामष्टावलोभस्वभावत्वाद् धर्मायतनेन । सपरिवारणि तु पञ्चस्कन्धस्वभाव-
त्वात् मनोधर्मायतनाभ्याम् । तथाभिभ्वायतनानि । आकाशविज्ञानानन्त्यायतनकृत्स्ने
चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् । पञ्च
स्कन्धस्य । शेषाः संस्कारस्कन्धेनेति । समाध्यादीना चैतसिकत्वात् । विमुक्ति-
रिहाधिमोक्षोऽभिप्रेतः । विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति ।
अष्टावलोभस्वभावत्वाद् धर्मायतनेनेति । कतमान्यष्टौ ? पृथिव्यप्तेजोवायुनील-
पीतलोहितावदातकृत्स्नायतनानि । तानि चालोभस्वभावान्यपदेक्ष्यन्ते—
“अलोभोऽष्टौ” ( अभि० को० ८ ३६ ) इति । अलोभश्च धर्मायतनेऽन्तर्भवति,
तेन तत्संग्रह । सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् ।
किम् ? संगृहीतानि । तस्यालोभस्य परिवारोऽनुपरिवर्ति रूपं रूपस्कन्धः,
वेदनासंज्ञे वेदनासंज्ञास्कन्धौ, चेतनादय सम्प्रयुक्ता जात्यादयश्च विप्रयुक्ताः
संस्कारस्कन्ध , विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पञ्चस्कन्धस्वभावानि
तानि भवन्ति । नवमदशमे त्वाकाशानन्त्यायतनविज्ञानानन्त्यायतनकृत्स्ने
पश्चाद् वक्ष्यते ।
तथाभिभ्वायतनानीति । तान्यलोभस्वभावत्वाद् धर्मायतनेन, सपरिवाराणि
तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनेन पूर्ववद् व्याख्यातव्यानि ।
आकाशविज्ञानानन्त्यायतनकृत्स्नं चत्वारि चाकाशानन्त्यायतनादीनि, आकाश-
विज्ञानाकिञ्चन्य-नैवसंज्ञानासंज्ञायतनानि, चतुःस्कन्धस्वभावत्वान्मनोधर्माभ्यां
संगृहीतानि । न हि तत्र रूपस्कन्धोऽस्ति ।
पञ्च विमुक्त्यायनानीति । विस्तर.—सूत्र उक्तम्—'पञ्चेमानि विमुक्त्या-
यतनानि । कतमानि पञ्च ? १. इह भिक्षो शास्ता धर्मं देशयति अन्यतरान्य-
तरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी । यथा यथास्य शास्ता अन्यतरान्यतरो
वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति तथा तथा तेषु धर्मेष्वर्थप्रति-
संवेदी भवति, धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश्चो-
त्पद्यते प्रामोद्यम्, प्रमुदितस्य प्रीतिर्जायते, प्रीतिमनस काय. प्रस्रभ्यते, प्रस्रब्ध-
कायः सुखं वेदयते, सुखितस्य चित्तं समाधीयते, समाहितचित्तो यथाभूतं
प्रजानाति यथाभूतं पश्यति, यथाभूतं प्रजानन् यथाभूतं पश्यन्निर्विद्यते,
निर्विण्णो विरज्यते, विरक्तो विमुच्यते—इदं प्रथमं विमुक्त्यायतनम् । यत्र
स्थितस्य भिक्षोर्वा भिक्षुण्या वा अनुपस्थिता स्मृतिरुपतिष्ठते, असमाहितं
चित्तं समाधीयते, अपरिक्षीणाश्चास्रवा परिक्षीयन्ते, अननुप्राप्तं चानुत्तरं
योगक्षेमं निर्वाणमनुप्राप्नोति ।

७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
विमुक्त्यायतन‍ानि प्रज्ञास्वभावत्वाद् धर्मायतनेन। सपरिवाराणि शब्दमनोधर्मायतनैः। १
२ "पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो
गुरुस्थानीय सब्रह्मचारी। अपि तु यथाश्रुतान् धर्मन् यथोपदिष्टान् यथा-
पर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति। यथा यथा तान् यथाश्रुतान्
यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति, तथा तथा
तेषु धर्मेषु अर्थप्रतिसंवेदो भवति पूर्ववत्—इदं द्वितीयं विमुक्त्यायतनम्।
यत्र स्थितस्य इति पूर्ववत्।
३ "पुनरपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो
गुरुस्थानीय सब्रह्मचारी, नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्य
वाप्तान् विस्तरेण स्वाध्यायं करोति। अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान्
यथापर्यवाप्तान् विस्तरेण परेभ्यः सम्प्रकाशयति। यथा यथा यथाश्रुतान्
धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः सम्प्रकाशयति, तथा
तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवतीति पूर्ववत्—इदं तृतीयं विमुक्त्या-
यतनम्। यत्र स्थितस्य इति पूर्ववत्।
४ "पुनरपरं न हैव भिक्षो शास्ता पूर्ववत् नापि स्वाध्यायम्, नापि
परेभ्य सम्प्रकाशयति। अपि तु यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति तुल-
यति उपपरीक्षते। यथा यथा यथाश्रुतान् यावद्यथापर्यवाप्तांश्चिन्तयति याव-
दुपपरीक्षते, तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी पूर्ववत्—इदं चतुर्थं विमु-
क्त्यायतनम्। यत्र स्थितस्य इति पूर्ववन्।
५ "पुनरपरं न हैव भिक्षो शास्तेति पूर्ववत्, नापि स्वाध्यायं करोति
नापि परेभ्य सम्प्रकाशयति, नापि चिन्तयति। अपि त्वनेनान्यतमं भद्रकं
समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं
सुप्रतिविद्धम्, तद्यथा विनीलकं वा विपूयकं वा व्याध्मातकं वा विपदुमकं वा
विलोहितकं वा विक्खादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा।
यथा यथा खल्वनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववद् यावत्सुप्रति-
विद्धम् तथा तथा तेषु धर्मेष्वर्थप्रतिसंवेदी भवति पूर्ववत्—इदं पञ्चमं
विमुक्त्यायतनम्। यत्र स्थितस्य इति पूर्ववत्।"
विमुक्तेरायद्वारं प्रज्ञाविशेषः। प्रज्ञा च धर्मायतनेन संगृहीता। सपरिवाराणि
शब्दमनोधर्मायतनैः। देशनास्वाध्यायपरसम्प्रकाशनेषु शब्दग्रहणाच्छब्दायतन-
मस्ति, मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे—इति त्रिभि संग्रहः।

१. तु शब्दो मनो०—का०।

निर्देशः ] ' प्रथमं कोशस्थानम् ७५
द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनै, गन्धरसायतनयोरेवाभावात्¹ । नैव-
संज्ञानासंज्ञायनोपगा मनोधर्मायतनाभ्याम् ।
एवं बहुधातुकेऽपि द्वाषष्टिर्धातवो देशिता ।
द्वयोरायतनयोरिति । सूत्र उक्तम्—"रूपिण, सन्ति सत्त्वा असंज्ञिनो-
ऽप्रतिसंज्ञिन,, तद्यथा—देवा असंज्ञिसत्त्वा । इदं प्रथममायतनम् । अरू-
पिण सन्ति सत्त्वा, सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतन-
मुपसंपद्य विहरन्ति, तद्यथा—देवा नैवसंज्ञानासंज्ञायतनोपगा । इदं द्वितीय
मायतनम्" ( ) इति । अनयोर्द्वयोरायतनयोरसंज्ञिसत्त्वा
दशभिरायतनैः संगृहीताः, गन्धरसायतनयोरेव तत्राभावात् । भवति हि
च्युत्युपपत्तिकालयोस्तेषां मनआयतनमिति । नैवसंज्ञानासंज्ञायतनोपगा मनो
धर्मायतनाभ्याम् । संगृहीता इत्यधिकृतम्, तेषामरूपित्वात् ।
बहुधातुकेऽपि द्वाषष्टिर्धातव इति । सूत्र उक्तम्—"आयुष्मानानन्दो भग-
वन्तमेतदवोचत्—'कियता भदन्त पण्डितो धातुकुशलो भवति ?' भगवानाह-
"पण्डित आनन्द अष्टादश धातून्जानाति पश्यति यथाभूतम्—चक्षुर्धातुम्, रूप-
धातुम्, चक्षुर्विज्ञानधातुम् एवं यावन्मनोधातुं धर्मधातुं मनोविज्ञानधातुमिति ।
इतीमानानन्द अष्टादश धातून्जानाति पश्यति यथाभूतम् ।
"षडपि धातून् जानाति पश्यति यथाभूतम्—पृथिवीधातुमब्धातुं तेजोधातुं
वायुधातुमाकाशधातुं विज्ञानधातुमिति ।
"अपरानपि षड् धातून् जानाति पश्यति यथाभूतम्—कामधातुं व्यापादधातुं
विहिंसाधातुं नैष्क्रम्यधातुमव्यापादधातुमविहिंसाधातुमिति ।
"अपरानपि षड् धातून् जानाति पश्यति यथाभूतम्—सुखधातुं दुःखधातुं
सौमनस्यधातुं दौर्मनस्यधातुमुपेक्षाधातुमविद्याधातुमिति ।
"चतुरोऽपि धातून् जानाति पश्यति यथाभूतम्—वेदनाधातु संज्ञाधातुं
संस्कारधातुं विज्ञानधातुमिति ।
"त्रीनपि धातून् जानाति पश्यति यथाभूतम्—कामधातुं रूपधातुमारूप्य-
धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—रूपधातुमारूप्यधातुं
निरोधधातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—अतीतं धातुमनागतं
धातुं प्रत्युत्पन्नं धातुम् ।
१. गन्धरसायतनाभावात्—का० ।

तेषां यथायोगं संग्रहो वेदितव्यः ॥ २७ ॥
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—हीनं धातुं मध्यमं
धातुं प्रणीतं धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—कुशलं धातुमकुशलं
धातुमव्याकृतं धातुमिति ।
"अपरानपि त्रीन् धातून् जानाति पश्यति यथाभूतम्—शैक्षं धातुमशैक्षं
धातुं नैवशैक्षनाशैक्षं धातुमिति ।
"द्वावपि धातू जानाति पश्यति यथाभूतम्—सास्रवं धातुमनास्रवं धातु-
मिति ।
"अपरावपि द्वौ धातू जानाति पश्यति यथाभूतम्—संस्कृतं धातुमसंस्कृतं
धातुमिति । इमौ द्वौ धातू जानाति पश्यति यथाभूतम् । इयता चानन्द
पण्डितो धातुकुशलो भवति" ( ) इति ।
इतीमान्यत्र हि निर्भेदीनि वाक्यानि प्रत्येकं मध्येऽपि पठितव्यानि ।
विस्तरभयात्तु मया न लिखितानीति बोद्धव्यम् ।
यथायोगं संग्रहो वेदितव्य इति । अष्टादश तावद्धातवः । त एव त इत्ये-
भिस्ते संगृहीता एव अष्टादशसु धातुषु । ये तु पृथिवीधातवादय. षट् , तेषा-
माद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रह । आकाशधातो रूपधातौ, आलोकतम-
स्वभावत्वात् । विज्ञानधातो. सप्तसु चित्तधातुषु संग्रह. । कामधात्वादीना
तु षण्णाम् । कामधातु. कामराग इहाभिप्रेतः । स च चैतसिक. । व्यापाद-
धात्वादयोऽपि चैतसिका एवेति तेषा धर्मधातौ संग्रह । सुखधात्वादीनामपि
षण्णा तस्मिन्नेव संग्रह । वेदनाधात्वादीना चतुर्णां त्रयाणा धर्मधातौ । विज्ञान-
धातो सप्तसु विज्ञानधातुषु । कामधात्वादीना त्रयाणा कामधातोष्टादशसु
धातुषु । रूपधातोश्चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ।
आरूप्यधातोर्मनोधर्ममनोविज्ञानधातुषु । रूपधात्वादीना तु त्रयाणां द्वयोरुक्त.
संग्रह । निरोधधातोर्धर्मधातौ । अतीतधात्वादीनां त्रयाणा प्रत्येक मष्टादशसु
धातुषु संग्रह. । हीनादयस्त्रयो धातव कामधात्वादय एव—इत्येषामुक्त. संग्रह. ।
कुशलादीना त्रयाणा कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्त-
धातुषु । अव्याकृतधातोष्टादशसु धातुषु, शैक्षाशैक्षधात्वादीना त्रयाणा द्वयो-
र्मनोधर्ममनोविज्ञानधातुषु, तृतीयस्याष्टादशसु धातुपु । सास्रवानास्रवधात्वो-
राद्यस्याष्टादशसु धातुषु । द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु । संस्कृता-
संस्कृतधात्वोराद्यस्याष्टादशसु धातुपु, द्वितीयस्य धर्मधातौ संग्रह. । त एते
द्वासष्टिर्धातव. ॥ २७ ॥

निर्देशः ] प्रथमं कोशस्थानम् ४७
य इमे तत्र षड् धातवः उक्ताः—पृथिवीधातुः, अब्धातुः, तेजोधातुः,
वायुधातुः, आकाशधातुः, विज्ञानधातुरिति, एतेषां द्वयोर्लक्षणमनुक्तम् । तत्
किं सर्वमेवाकाशधातुर्वेदितव्यः, सर्वं च विज्ञानं विज्ञानधातुः ? नेत्याह । किं
तर्हि ? द्वारवातायनमुखनासिकादिषु—
छिद्रमाकाशधात्वाख्यम्,
छिद्रमित्युच्यमानं किं वेदितव्यम् ?
आलोकतमी किल ।
नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते । तस्मात् किलाकाशधातुरलोक-
तमःस्वभावो रात्रिनिन्दवस्वभावो वेदितव्यः । स एव चाघसामन्तकं रूपमि-
त्युच्यते । अघं किल चित्तस्थं रूपम् ; अत्यर्थं घाताद् तस्य तत् सामन्तक-
य इमे तत्रेति बहुधातुके । एतेषां द्वयोर्लक्षणमनुक्तमिति । पृथिवीधात्वा-
दीनामुक्तं लक्षणम् । अमी “धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणा.” ( अभि०
को० १.१२ ) इति । ननु च विज्ञानधातोरप्युक्तं लक्षणम्—“विज्ञानं प्रति-
विज्ञप्ति.” ( अभि० को० १ १२ ) इति वचनात् ? सत्यम्, उक्तं सर्वेशा विज्ञा-
नाना लक्षणम्, विज्ञानधातुस्तु किमिह कश्चिदेव विज्ञानमित्यभिप्रेतम्, उताहो
सर्वमिति न विवेचितम् । असंस्कृतं चाकाशमुक्तलक्षणम्, न त्वाकाशधातु.,
अवश्यं ह्ययमन्य आकाशात् । तथा हि—“षड्धातुरयं भिक्षो पुरुष.”
( ) इति सूत्रान्तरमुक्तम् । इत्यनया बुद्ध्याभिहितम्—द्वयो-
र्लक्षणमनुक्तमिति । अत एवमाह—तत्किमाकाशमेवाकाशधातुर्वेदितव्यः, सर्वं च
विज्ञानं विज्ञानधातुरिति । मुखनासिकादिष्विति । आदिशब्देन श्रोत्रादीना ग्रहणम्।
“आलोकतभसी किल” इति । किलशब्द परमतद्योतनार्थं । स्वमतं तु
सप्रतिघद्रव्याभावमात्रमाकाशमित्यभिप्रायो लक्ष्यते । रात्रिनिन्दवस्वभाव इति ।
रात्रिवर्तिनस्तमस , भास्करातपलक्षणस्य चालोकस्याभिप्रेतत्वात् । बाहुलिको
द्वायं निर्देश । अघं किल चित्तस्थ रूपमिति । चित्तस्थं सङ्घातस्थम् । अत्यर्थं
हन्ति हन्यते वेत्यघम् । नैरक्तेन विधिना अत्यर्थशब्दस्य अकारादेशः कृत,
हन्तेश्च घादेशः । तस्य तत् सामन्तकमिति । तस्याघस्य कुड्यादिकस्य सामन्त-
कम्=समीपस्थम् । तदपेक्ष्य व्यवस्थापितमित्यर्थः । अत्रापि व्याख्याने किलशब्दो
वैभाषिकव्याख्यानप्रदर्शनार्थं. । स्वमतं तु यत्, तत् पश्चादुच्यते । तदाह—
१. एषां—का० ।

७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
मिति। अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्, सामन्तकं चान्यस्य
रूपस्येत्यपरे।
विज्ञानधातुर्विज्ञानं सास्रवं,
कस्मादनास्रवं नोच्यते ? यस्मादिमे षड् धातव इष्टाः
जन्मनिश्श्रयाः ॥ २८ ॥
एते हि जन्मनः प्रतिसन्धिचित्ताद् यावत् च्युतिचित्तसाधारणभूताः ।
अनास्रवास्तु धर्मा नैवमिति । तदेवं सत्येषां चत्वारो धातव स्प्रष्टव्यधातावन्त-
र्भूताः, पञ्चमो रूपधातौ, षष्ठः सप्तसु विज्ञानधातुष्विति ॥ २८ ॥
ये पुनरिमे अष्टादश धातव उक्तास्तेषा कति सनिदर्शनाः, कत्यनिदर्शनाः ?
सनिदर्शन एकोऽत्र रूपम्;
स हि शक्यते निदर्शयितुम्- इदमिह, अमुत्रेति । उक्त भवति-अनिदर्शनाः
शेषा इति ॥
अघं च तत् । अन्यस्य रूपस्य तत्राप्रतिघातात् । न प्रतिहन्यतेऽन्यद् रूपमस्मिन्निति
कृत्वा । सामन्तकं चान्यस्य रूपस्येति चित्तस्थस्य । अस्मिन् पक्षे कर्मधारय
समासः-अघं च तत् सामन्तकं च तदित्यघसामन्तकम् ।
“विज्ञानं सास्रवम्” इति । जन्मनो हेतोर्विज्ञानस्याभिप्रेतत्वात् । कुत
इति चेत् ? अत आह-यस्मादिमे षड् धातव इष्टाः “जन्मनिश्श्रयाः” । “षड्-
धातुरयं भिक्षो पुरुष " । ) इति, “षट् खलु धातून् प्रतीत्य
मातु कुक्षौ गर्भस्यावक्रान्तिः" ! , इति वचनात् । एते हि
जन्मन इति । विस्तर - एते हि जन्मनो जनकपोषकसंर्वर्धकत्वादाधारभूताः ।
जनको ह्यत्र विज्ञानधातु, प्रतिसन्धिबीजत्वात् । पोषकाणि भूतानि,
तत्सन्निश्रयभावात् । संवर्धकमकाशधातुः, अवकाशदानात् । अत एवैषां धातु-
त्ववचनम् । प्रतिसन्धिं दधत इति धातव । अनास्रवास्तु धर्मा नैवमिति । न
जन्मनिश्श्रयाः, जन्मनिरोधकत्वात् ॥ २८ ॥
“सनिदर्शन एकोऽत्र रूपम्” इति । किमिदं निदर्शनं नाम ? येन विशेषेण
योगाद् तद्वस्तु तथा निदर्शयितुं शक्यते स विशेषो निदर्शनमित्युच्यते । वचनेन
परस्य चक्षुर्विज्ञानमुत्पन्नं वा निदर्शनम्, तेन सह वर्तते सनिदर्शनं एको रूप-
धातुरत्राष्टादशसु धातुषु । रूपधातुरेवैक सनिदर्शन इत्यवधारणादुक्तं भवति ।

[निर्देशः ] प्रथम कोशस्थानम् ७९
कति सप्रतिघाः, कत्यप्रतिघाः ?
सप्रतिघा दश ।
रूपिणः,
य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः । प्रतिघो
नाम प्रतिघातः । स च त्रिविधः—आवरण-विषय-आलम्बनप्रतिघातः ।
१. तत्रावरणप्रतिघातः = स्वदेशे परस्योत्पत्तिप्रतिबन्धः । यथा हस्तो हस्ते-
नाहतः¹ उपले वा । उपलोऽपि तयो ।
अनिदर्शनाः शेषा इति । अनेन चास्य सनिदर्शनत्वेन प्राधान्यमुक्तमिति । न
पुनरुक्तदोषप्रसङ्ग इति तत्सिद्धे ।
एते च सनिदर्शनत्वादय प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते । तथा
हि सूत्र उक्तम्—“चक्षुर्भिक्षो आध्यात्मिकमायतनम्, चत्वारि महाभूतान्यु-
पादाय रूपप्रसादो रूप्यनिदर्शनं सप्रतिघम् । यावत्कायो भिक्षो आध्यात्मिक-
मायतनं पूर्ववत् । मनो भिक्षो आध्यात्मिकमायतनमरूप्यनिदर्शनमप्रतिघम् ।
रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरूपि सनिदर्शनं
सप्रतिघम् । शब्दा हि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरूप्य-
निदर्शनं सप्रतिघम् । यावत्स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि
चत्वारि च महाभूतान्युपादायरूप्यनिदर्शनं सप्रतिघम् । धर्मा भिक्षो बाह्यमाय-
तनमेकादशभिरायतनैरसंगृहीतमरूप्यनिदर्शनमप्रतिघम्” ( ) दिति ।
एते च प्रभेदा धातूनामेवा प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते, रूपविज्ञान-
विभागत्वात् ।
“सप्रतिघा दश रूपिणः” इति । रूपिग्रहणमरूपिनिरासार्थम् । रूपणं
रूपम्, तदेषामस्तीति रूपिण । दशेति चक्षुर्धात्वादय पञ्च, तद्विषयधातवश्च
पञ्चेति । धर्मधातोर्निरास कथं कृत , स चापि हि रूपीति शक्यते वक्तुम्,
तत्राविज्ञप्तिरूपसद्भावात् ? रूपिण एवेत्यवधारणात् तन्निरासः कृतो भवति ।
ये हि धातव,, रूपिस्वभावा एव ते ग्रहीतव्या । धर्मधातुस्तु रूप्यरूपिस्वभाव
इति । स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति । विस्तर —यत्रैकं सप्रतिघं वस्तु तत्र
द्वितीयस्योत्पत्तिर्न भवति । यथा हस्तो हस्तेनाहतः प्रतिहन्यत उपले वा ।
हस्तो हस्तस्थान उपलस्थाने वा नोत्पद्यते । उपलोऽपि तयो । हस्तोपलयो
स्थान उपलोऽपि नोत्पद्यते ।
१. हस्ते—का० । हस्तेऽभ्याहतः—जा० ।

२. विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु । यथोक्तं
प्रज्ञप्तौ—“अस्ति चक्षुर्जले प्रतिहन्यते न स्थले, यथा मत्स्यानाम्; अस्ति स्थले
न जले, प्रायेण मनुष्याणाम्; अस्त्युभयत्र, शिशुमार-मण्डूक-पिशाच-कैवर्त्ता-
दीनाम्; अस्ति नोभयत्र, एतानाकारान् स्थापयित्वा । अस्ति चक्षुर्यद्रात्रौ प्रति-
हन्यते न दिवा, तद्यथा तित्तीलोलूकादीनाम्, दिवा न रात्रौ, प्रायेण मनुष्याणाम्;
रात्रौ दिवा च, श्व-शृगाल-तुरग-द्वीपि-मार्जारौदीनाम्; नोभयत्र, एतानाकारान्
स्थापयित्वा” ( ) इत्ययं विषयप्रतिघातः ।
३. आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु ।
कः पुनर्विषयालम्बनयोर्विशेषः ? १ यस्मिन् यस्य कारित्रं स तस्य विषयः ।
यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । कुतः पुनः स्वस्मिन् विषये प्रवर्त्तमानमालम्बने
वा प्रतिहन्यत इत्युच्यते ? तस्मात् परेणाप्रवृत्तेः ।
निपातो वाऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः ।
तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यम्, अन्योन्यावरणात् ।

जले प्रतिहन्यत इति । जले स्वविषये प्रवर्त्तत इत्यर्थः । प्रायेण मनुष्याणा-
मिति । प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थम् । अस्ति नोभयत्रेति । गर्भे नियतमृत्यूनाम् ।
एतानाकारानिति । एतान् प्रकारानित्यर्थ । तित्तीला बद्दुलय । मार्जरादीना-
मिति । आदिग्रहणेन चौरमनुष्यादीना व्याघ्रादीना च ग्रहणम् ।
यस्मिन् यस्य कारित्रं स तस्य विषय इति । कारित्रम्=पुरुषकार. । चक्षु-
श्रोत्रादीना रूपशब्दादिष्वालोचनश्रवणादि कारित्रम् । तच्च स्वचित्तचैत्तान्
प्रत्याश्रयभावशक्तिविशेषलक्षणं वेदितव्यम् । यच्चित्तचैत्तैर्गृह्यते दण्डावस्तम्भन-
योगेन तदालम्बनं रूपादि । तदेवं सति चित्तचेत्तानामेवालम्बनम् । विषयः
पुनश्चक्षुरादीनामपि, न केवलं चित्तचैत्तानाम् । तस्मात् परेणाप्रवृत्तेरिति । यो
हि लोके यत परेण न प्रवर्त्तते स तत्र प्रतिहन्यते—काष्ठे, कुड्ये वा । तथा
चक्षुरादि विषयात् परेण न कारित्रं करोति । विषय एव तु करोति । तस्मात्
तत्र प्रतिहन्यत इत्युच्यते ।
निपातो वात्र प्रतिघात इति । विस्तर—अत्र विषये निपतनं निपातः
या स्वविषये प्रवृत्तिः । कारित्रमित्यर्थः ।
तदिहावरणप्रतिघातेनेति । विस्तर—‘सप्रतिघा दश’ इत्यत्रावरणप्रति-
घातेन ते दश धातव सप्रतिघा अभिप्रेता. । तत्र विषयालम्बनप्रतिघाताभ्या
१. का०—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ८१
ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुः-
कोटिकः । प्रथमा कोटिः—सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः सम्प्रयुक्तः ।
द्वितीया—पञ्च विषयाः । तृतीया—पञ्चेन्द्रियाणि । चतुर्थी—धर्मधातुप्रदेशः
सम्प्रयुक्तकवर्ज्यः ।
ये धर्मा विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि त इति
पश्चात्पादकः ।
ये तावदालम्बनप्रतिघातेनापि ते स्युर्विषयप्रतिघातेनैव, नालम्बनप्रतिघातेन;
पञ्चेन्द्रियाणि ।
“यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यतेऽन्यैः१ कर्तुम् ।
तत् सप्रतिघं ज्ञेयम्, विपर्ययादप्रतिघमिष्टम्” ॥
इति भदन्तकुमारलातः ।
उक्ताः सप्रतिघाः, अप्रतिघाश्च ॥
एषामष्टादशधातूनां कति कुशलाः ? कत्यकुशलाः ? कत्यव्याकृताः ?
अव्याकृता अष्टौ,
चित्तचैत्तानामपि सप्रतिघत्वप्रसङ्गात् चतुःकोटिकः प्रश्नः। चतुष्कोण-, चतु-प्रकार
इत्यर्थः ।
पश्चात्पादक इति । यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनाव्योतिष्ठते
स पश्चात्पादक । यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः । विषयप्रतिघातेनापि
त इति । चित्तचेत्ता । ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः ।
पञ्चेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघानि, अनालम्बनत्वात् ।
यत्रोत्पित्सोर्मनस इति । विस्तरः—यत्राश्रय आलम्बने वा उत्पत्तुकामस्य
मनस. प्रतिघातोऽनुत्पत्तिः शक्यतेऽन्यैः कर्तुमन्तरावरणेन, तदेव सप्रतिघम्;
तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात् । स्वदेशे परस्योत्पत्तिप्रति-
बन्धलक्षणेन प्रतिघातेन सप्रतिघत्वादित्यपरे । किं पुनस्तत् ? पञ्चेन्द्रियपञ्च-
विषयधातुस्वभावम् । विपर्ययादप्रतिघमिष्टम् । यत्रोत्पित्सोर्मनस प्रतिघातो न
शक्यते परै कर्तुम् । यथा मनोधातोर्धर्मधातोश्च मनोविज्ञानोत्पत्तावन्तरावरणं
न शक्यते परै. कर्तुम् । अत सप्तचित्तधातुधर्मधातुस्वभावमप्रतिघमिति सिद्धम् ।
“अव्याकृता अष्टौ” इति । अव्याकृता एवाष्टावित्यवधारणम् ।
१. शक्यते परैः—का० ।
अभि० को० ६

Here is the transcription of the Sanskrit text from the image, line by line:

८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कतमे अष्टौ ? य एते सप्रतिघा दशोक्ताः,
त एवारूपशब्दकाः ॥ २९ ॥
पश्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च—एतेऽष्टौ कुशलाकुशलभावेना-
व्याकरणादव्याकृताः ;
विपाकं प्रत्यव्याकरणादित्यपरे । एवमनास्रवेऽपि प्रसङ्गः ॥ २९ ॥
त्रिधान्ये,
अन्ये दश धातवः कुशलाकुशलाव्याकृताः ।
तत्र सप्त धातवोऽलोभादिसम्प्रयुक्ताः कुशलाः, लोभादिसम्प्रयुक्ता अकुशलाः,
अन्ये अव्याकृताः ।
धर्मधातुरलोभादिस्वभावसम्प्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः,
लोभादिस्वभावसम्प्रयुक्तसमुत्थोऽकुशलः, अन्योऽव्याकृतः ।
कुशलाकुशलभावेनाव्याकरणादव्याकृताः । ये कुशलाकुशलव्यतिरिक्तास्त
एवाव्याकृता इहाभिप्रेता । न तु कुशला , अकुशलाव्याकृताव्थाकरणात् ।
नाप्यकुशला , कुशलाव्याकृताभ्याकरणात् । कुशलाकुशलाना कुशलाकुशल-
भावेन व्याकृतत्वात् । संकेत रूढ्यपेक्षा हि शब्दप्रवृत्ति ॥ २९ ॥
“त्रिधान्ये” इति । धातव इत्यधिकृतम् । त्रेधैवान्ये, नैकधा, न द्विधेत्य-
वधारणम् । अलोभादिसम्प्रयुक्ताः कुशला इति । विस्तर —अलोभाद्वेषामोहरुह्व-
पत्रपात्सम्प्रयुक्ता सप्त चित्तधातव कुशला । लोभद्वेषमोहाह्रयनपत्राप्यासम्प्रयुक्ता
अकुशलाः । कुत्सिताञ्छलिता गता अपक्रान्त इति कुशला । प्रज्ञा वा कुश
इव तीक्ष्णेति कुश , तं लान्ति आददत इति कुशला । तद्विपरीता अकुशला' ।
अन्ये त्वलोभादिलोभाद्यसम्प्रयुक्ता अव्याकृताः ।
धर्मधातुरिति । विस्तर —अलोभादिस्वभावो योऽयमुक्त । अलोभादि-
सम्प्रयुक्तो वेदनादि । अलोभादिसमुत्थो विप्रयुक्त प्राप्तिजात्यादि, अविज्ञप्तिश्च।
प्रतिसंख्यानिरोधश्चापर इति चतुर्विध कुशलो धर्मधातु । लोभादिस्वभावसम्प्रयुक्त-
समुत्थोऽकुशलः । अन्योऽव्याकृतः । यो नालोभादिस्वभावसम्प्रयुक्तसमुत्थ', नापि
लोभादिस्वभावसम्प्रयुक्तसमुत्थ , आकाशमप्रतिसंख्यानिरोध , तेषा च यथा-
सम्भवं प्राप्तिजात्यादय —एषोऽव्याकृतो धर्मधातु ।

[Header]
प्रथमं कोशस्थानम् ८३

पशब्दधातू कुशलाकुशलचित्तसमुत्थौ कुशलाकुशलौ कायवाग्विज्ञप्ति-
तदन्याव्याकृतौ ।
उक्तः कुशलादिभावः ॥
षामष्टादशधातूनां कति कामधात्वाप्ताः ? कति रूपधात्वाप्ताः ?
कामधात्वाप्ताः सर्वे
आप्ता अवियुक्ताः । कामधातुप्रतिसंयुक्ता इत्यर्थः ।
रूपे चतुर्दश ।
रूपधातौ चतुर्दश धातवः ।
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ॥ ३० ॥
हि गन्धरसौ न स्तः; तयोः 'कवलीकाराहारत्वात्, तद्वीतरागाणां च
ततो घ्राणजिह्वाविज्ञाने अपि न स्तः; आलम्बनाभावात् ।
एवं तर्हि स्प्रष्टव्यधातोरपि तत्राभावप्रसङ्गः ? कवलीकाराहारत्वात् ।
गन्धरसयोरप्येष प्रसङ्गः ? नास्ति विनाऽभ्यवहारेण गन्धरसयोः परिभोगः ।
स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन ।

दन्यावव्याकृताविति । ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातु-
रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञ-
हीती चाव्याकृतौ ।
कामधात्वाप्ताः सर्वे" इति । कामधात्वाप्ताः सर्व एवेत्यवधार्यते, अष्टादश-
मात्रसंग्रहात् । न तु प्रत्येकम्; साकल्यत ।
त आह—"रूपे चतुर्दश" इति । तयोः कवलीकाराहारत्वादिति । तयो-
रयोः । गन्धोऽपि हि कवलीकाराहारः सूक्ष्मः । तत्राभावप्रसङ्ग
तत्र रूपधातौ स्प्रष्टव्यधातोरभावप्रसङ्गः, कवलीकाराहारत्वात् ।
आहारः कामे त्र्यायतनात्मक" (अभि० को० ३.२९)
द्धान्तात् । गन्धरसयोरप्येष प्रसङ्ग इति । यौ नाहारस्वभावौ तौ तत्र
मित्यर्थः । अस्ति तु स्प्रष्टव्यस्येति । किम् ? परिभोगः । इन्द्रियाश्रया-
आधारभावेन, प्रावरणभावेन च ।
• कवलीकारा०-का० ।

८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ, न तु स्प्रष्टव्यम् ।
अन्ये पुनराहुः—ध्यानसमापत्तिसंनिश्रयेणेह रूपाणि सन्दृश्यन्ते, शब्दाश्च
श्रूयन्ते । प्रस्रब्धिसहगतेन स्प्रष्टव्यविशेषेण च कायोऽनुगृह्यते । अत एषामेव
त्रयाणां ध्यानोपपत्तौ सम्भवः, न गन्धरसयोरिति ।
एव तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गः; निष्प्रयोजनत्वात् ? अस्ति प्रयो-
जनम्, ताभ्यां हि विनाऽऽश्रयशोभैव न स्यादिति व्यवहारश्च ? यद्येतत् प्रयो-
जनम्, अधिष्ठानमेवास्तु शोभार्थं वचनार्थं च, मा भूदिन्द्रियम् ।
नानिन्द्रियमधिष्ठानं सम्भवति, पुरुषेन्द्रियाधिष्ठानवत् ?
अन्ये पुनराहुरिति भदन्तश्रीलातः¹ । प्रस्रब्धिसहगतेनेति । प्रस्रब्धिसहोत्पन्नेन
कायकर्मण्यतासहगतेनेत्यर्थः ।
अत्राचार्यो भदन्तश्रीलातमतमनादृत्य वैभाषिकमतं सावकाशं दृष्ट्वा विनि-
श्चयमारभते—एवं तहीँति । विस्तर.—वैभाषिकैरेतत् प्रतिज्ञातम्—'न
स्तो रूपधातौ गन्धरसौ; निःप्रयोजनत्वात्, स्त्रीपुरुषेन्द्रियविषयवत्' इति ।
तं पक्षमाचार्यो दूषयति—दुष्टोऽयं पक्षः, धर्मिविशेषविपर्ययापक्षालत्वात् ।
रूपधातौ गन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहकोऽभिप्रेत । तस्याविद्यमान-
स्वग्राहकत्वं प्राप्नोति, यथा हि स्त्रीपुरुषेन्द्रियविषयो निःप्रयोजनत्वेनाविद्यमान-
स्वग्राहको भवति तथा गन्धरसाख्योऽपि विषयः प्राप्नोति । स्फुटमप्यनुमान-
मस्ति येनैष धर्मिविशेषविपर्ययो व्यज्यते—'न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये,
निःप्रयोजनविषयत्वात्, स्त्रीपुरुषेन्द्रियविषयवदिति ।
वैभाषिकदेशीयः कश्चित् प्रतिविधत्ते—अस्ति प्रयोजनमिति । विस्तर.—
ताभ्या घ्राणजिह्वेन्द्रियाभ्यां विना शरीरशोभैव न स्यात् । वाग्विज्ञप्तिश्च । अनेन
दृष्टबाधेन प्रसङ्गं निवर्तयति । अनुमानं ह्यत्र दृष्टं बाधते । किं तदिति ?
उच्यते—'स्तो रूपधातौ घ्राणजिह्वेन्द्रिये सप्रयोजनत्वाच्चक्षुरिन्द्रियवद्' इति ।
आचार्य आह—यद्येतत्प्रयोजनमिति । विस्तर.—अधिष्ठानेनैवाश्रयशोभावचनं च
भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोरसिद्धता दर्शयति ।
वैभाषिकदेशीय आह—नानिन्द्रियमधिष्ठानमिति । विस्तर.—न रूपधातौ
सम्भवत्यनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम्, इन्द्रियाधिष्ठानत्वात्, पुरुषेन्द्रिया-
धिष्ठानवदिति । एतेन सप्रयोजनत्वस्य सिद्धता स्थापयति । आचार्य आह—
१. मदन्तभीलाभः—पाठ० ।

निर्देशः ] प्रथमं कोशस्थानम् ८५
युक्तस्तदसम्भवः; निष्प्रयोजनत्वात् । घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम् ।
अतोऽस्य विनाऽपीन्द्रियेण युक्तः सम्भवः ।
निष्प्रयोजनापीन्द्रियाभिनिर्वृत्तिर्भवति, यथा गर्भे नियतमृत्यूनाम् ।
स्यान्नाम निःप्रयोजना, न तु निर्हेतुका । कश्च हेतुरिन्द्रियोत्पत्तेः ? इन्द्रिय-
सतृष्णस्य कर्मविशेषः । यश्च विषयाद् वितृष्णः, स नियतेमिन्द्रियादपीति न
तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये सम्भवितुमर्हतः ।
पुरुषेन्द्रियमपि वा किं न निर्वर्त्तते ? अशोभाकरत्वात् ।
युक्तस्तदसम्भव इति । विस्तरः—युक्तस्तत्र पुरुषेन्द्रियाधिष्ठानस्यासम्भवः,
निःप्रयोजनत्वात् । घ्राणजिह्वेन्द्रियाधिष्ठानं त्वाश्रयशोभाभिव्याहारप्रयोजन-
त्वात् सप्रयोजनम् । अतोऽस्य विनापीन्द्रियेण युक्तः सम्भवः । साधनं
त्वत्रोच्यते—'सम्भवति रूपधातावनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम्, सप्रयो-
जनत्वात्, चक्षुरिन्द्रियाधिष्ठानवद्' इति । अनेन तामेव सप्रयोजनत्वस्यासिद्धतां
व्यवस्थापयति ।
एवमत्र सप्रयोजनत्ववादिनी वैभाषिकदेशीये कस्मिंश्चिन्निषिद्धे यदेतदा-
दावुक्तम्—'एवं तर्हि घ्राणजिह्वेन्द्रिययोरप्यभावप्रसङ्गः, निःप्रयोजनत्वात्'
इति, तद्दूषणाभासतां दर्शयन्तो वैभाषिका आहुः—निष्प्रयोजनापीति । विस्तर,-
यथा गर्भे नियतमृत्यूनाम् निष्प्रयोजनाभिनिर्वृत्तिः । न हि तेषा रूपदर्शनादि-
र्भवति । एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर्निष्प्रयोजनापि भविष्यतीति ।
तेन 'न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये, निःप्रयोजनत्वात् पुरुषेन्द्रियवद्' इति
निःप्रयोजनत्वमनेकान्तिकं प्रदर्श्यते ।
आचार्य आह—स्यान्नाम निःप्रयोजनेति । विस्तरः—भवेन्निःप्रयोजनेन्द्रिया-
भिनिर्वृत्तिः, न तु निर्हेतुका; संस्कृतानां सहेतुकत्वात् । यश्च विषयाद्वितृष्णः स
नियतमिन्द्रियादपीत्यनेन हेत्वभावः प्रदर्श्यते । ततश्चैवं साधनमुच्यते—'न स्तो
रूपधातौ घ्राणजिह्वेन्द्रिये, निर्हेतुकत्वात्, निर्हेतुकाङ्कुरवत्, पुरुषेन्द्रियवद्वा' । पुरुषे-
न्द्रियमपि वा किं न निर्वर्तेत इत्याचार्य एव विकल्पं बाहयति । कोऽभिप्रायः ?
यदि नि प्रयोजना हेतुमन्तरेणापि वा घ्राणजिह्वेन्द्रिययोरुत्पत्तिः पुरुषेन्द्रियमपि
वा किं न निर्वर्तते । वैभाषिकाणा ह्ययं पक्ष—'सघ्राणजिह्वेन्द्रियो रूपधातु-
सत्त्वसन्तानः, रूपिप्राणित्वात्, कामावचरसत्त्वसन्तानवद्' इति । आचार्यस्तु
'पुरुषेन्द्रियमपि किं न निर्वर्त्तते' इत्यनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं
दर्शयति—अविद्यमानपुरुषेन्द्रियो रूपधातुसत्त्वसन्तानो धर्मी, तस्य विपर्ययो
विद्यमानपुरुषेन्द्रियत्वमिति । वैभाषिकाः परिहरन्ति—अशोभाकरत्वादिति ।

कोशगतवस्तिगुह्यानां किं न शोभते १ ।
न च प्रयोजनवशादुत्पत्तिः, किं तर्हि ? स्वकारणोत्पद्यत्वाद् २ । इत्यशोभा-
करस्यापि स्यादेव सति हेतावुत्पत्तिः ।
सूत्रं तर्हि विरुध्यते—“अविकला अहीनेन्द्रियाः” इति ? यानि
तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति कोऽत्र विरोधः । इतरथा हि
पुरुषेन्द्रियस्यापि स्यात् प्रसङ्गः ।
एव तु वर्णयन्ति—स्त एव तत्र घ्राणजिह्वेन्द्रिये, न तु गन्धरसौ ।
आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारः, न विषयमुखेन ।
कथमिति न रूपधातौ पुरुषेन्द्रियमस्ति ? अशोभाकरत्वात्, काणकुण्ठववत् ।
तदनुमानबाधनाच्च विपर्यत्यस्माकमेषा प्रतिज्ञा, ‘यदि दृष्टं न बाधते’ इति
नैयायिकसिद्धान्तादित्यभिप्राय । आचार्य आह—कोशगतवस्तिगुह्याना किं न
शोभते । वस्तौ गुह्यं वस्तिगुह्यम् । वस्तिर्येन तत्पुरुषेन्द्रियं वेष्टितम् । गुह्यम्=
[L1

निर्देशः ] प्रथमं कोशस्थानम् ८७
पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति ।
तस्मात् सिद्धमेतद्—रूपधात्वाप्ताश्चतुर्दश धातव इति ॥ ३० ॥
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
रूपवीतरागाणां तत्रोपपत्तिः, अतोऽत्र दश रूपस्वभावा धातवस्तदाश्रया-
लम्बनाश्च पञ्च विज्ञानधातवो न सम्भवन्ति ॥
कति सास्रवाः ? २ • कत्यनास्रवाः २ य एते मनोधर्ममनोविज्ञानधातव उक्ताः
सास्रवानास्रवा एते त्रयः;
ये मार्गसत्यासस्कृतसंगृहीतास्तेऽनास्रवाः, अन्ये सास्रवाः ।
शेषास्तु सास्रवाः ॥ ३१ ॥
पञ्चदश धातव शेषास्त्वेकान्तसास्रवाः ॥ ३१ ॥
रूपधातौ, सहेतुकाङ्कुरादिवदिति । अनेन च—'न स्तो रूपधातौ घ्राणजिह्वे-
न्द्रिये निर्हेतुकत्वाद्' इति यत्साधनमुक्तं तदसिद्धमिति प्रतिपादयन्ति । पुरुषेन्द्रिये
तु मैथुनस्पर्शमुखेन । किम् ? तृष्णासमुदाचार इति प्रकृतम् । मैथुनस्पर्शवीत-
रागाश्च रूपावचरा सत्त्वा । तस्मात् तत्र न तृष्णापूर्वकं कर्म भवति । तस्माद-
हेतुकत्वात् तत्र पुरुषेन्द्रियं नास्ति, निर्हेतुकाङ्कुरादिवदिति सिद्धं रूपधातौ
चतुर्दशैव धातव इति ॥ ३० ॥
“आरूप्याप्ताः” इति । विस्तर —“मनोधर्ममनोविज्ञानधातवः” एवारूप्याप्ता
इत्यवधारणादन्ये धातवो न सन्तीत्युक्तं भवति । यस्माद् रूपवीतरागाणां तत्रोप-
पत्तिरतो दश रूपस्वभावा धातवः । चक्षुरादय पञ्च रूपादयश्चापि पञ्च न सन्ति ।
तदाश्रयालम्बनाश्च पञ्च विज्ञानधातवो न सन्तीति । ते चक्षुरादयो रूपादयश्च
यथाक्रममाश्रया आलम्बनानि च येषा त इमे तदाश्रयालम्बना । आश्रयाणा
चक्षुरादीनामाालम्बनानां च रूपादीनामभावात् तेऽपि चक्षुर्विज्ञानादिधातव-
स्तत्र न सन्ति ।
“सास्रवानास्रवा एते त्रयः” इति । एत एव त्रय सास्रवानास्रवा इत्यव-
धारणम् ।
“शेषास्तु सास्रवाः” इति । किमर्थमिदमुच्यते, नन्वेत एव त्रय. सास्रवा-
नास्रवा इत्यवधारणाच्छेषा सास्रवा इति सिद्धम् ? न सिद्धम्, कथम् ? शेषाः
सास्रवा एव नास्रवा एव वा स्युरित्याशङ्का, तन्निवृत्त्यर्थमिदमुच्यते—शेषा.
सास्रवा एवेति ॥ ३१ ॥

८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कति सवितर्काः सविचाराः ? कत्यवितर्का विचारमात्राः ? कत्यवितर्का
अविचाराः ?
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
नित्यमेते वितर्कविचाराभ्यां संयुक्ताः । अवधारणार्थो हि-शब्दः ।
अन्त्यास्त्रयस्त्रिप्रकाराः,
मनोधातुः, धर्मधातुः, मनोविज्ञानधातुश्चान्त्यः । एते त्रयस्त्रिप्रकाराः ।
तत्र मनोधातु , मनोविज्ञानधातु., सम्प्रयुक्तश्च धर्मधातुरन्यत्र वितर्कविचाराभ्यां
कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः ।, ध्यानान्तरेऽवितर्का विचार-
मात्राः । द्वितीयाद् ध्यानात् प्रभृत्याभवाभावादवितर्का अविचारा ।
सर्वश्चासम्प्रयुक्तो धर्मधातुर्ध्यानान्तरे च विचार. । वितर्कस्तु नित्यम-
वितर्को विचारमात्रः, द्वितीयवितर्काभावात्, विचारसम्प्रयोगाच्च ।
कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु, नान्तर्भवति, स कथं
“सवितर्कविचारा हि पञ्च विज्ञानधातवः” इति । सवितर्कसविचारा एवेति
हिशब्दोऽवधारणे ।
“अन्त्यास्त्रयस्त्रिप्रकाराः” इति । अन्त्या एव त्रिप्रकारा इत्यवधारणम् ।
अन्यत्र वितर्कविचाराभ्यामिति । वितर्कविचारौ सम्प्रयुक्तकधर्मधातुस्वभावौ,
तयोरत्र ग्रहणप्रसङ्ग इति परिवर्ज्येते । वितर्को हि द्वितीयप्रकारान्तरेऽन्तर्भावि-
ष्यति । विचारोऽपि ध्यानान्तरजस्तृतीये प्रकारेऽन्तर्भवति । तदन्यस्तु त्रिष्वपि
प्रकारेषु नान्तर्भवतीति वक्ष्यति । त एते मनोधात्वादय. सम्प्रयुक्तकधर्मधातु-
पर्यन्ता. कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः,
वितर्कविचारसम्प्रयोगात् । अत एव ध्यानान्तरेऽवितर्काः वितर्काभावात् ।
विचारमात्राः, विचारसम्प्रयोगात् । अत एव द्वितीयात् प्रभृति यावद्भवाग्रं तयोर-
भावादवितर्का अविचाराः। सर्वश्चासम्प्रयुक्तो धर्मधातुरिति यथासम्भवं त्रैधातुक-
रूपचित्तविप्रयुक्ता असंस्कृताश्च । ध्यानान्तरे च विचारोऽवितर्को वितर्काभावात् ।
अविचारो द्वितीयविचाराभावात् ।
विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति । कामधातुप्रथमध्यानभूमिको
विचार. प्रथमे तावत् प्रकारे नान्तर्भवति-सवितर्कं सविचार इति । स हि
सवितर्क. सम्भवति, न तु सविचार., विचारासम्प्रयोगात् । द्वितीयेऽपि नान्त-

निर्देशः ] प्रथमं कोशस्थानम् ८९
वक्तव्यः ? अविचारो वितर्कमात्र ; द्वितीयविचाराभावात् , वितर्कसम्प्रयोगाच्च ।
अत एवोच्यते—"स्युः सवितर्कसविचाराया भूमौ धर्माश्चतुःप्रकाराः—सवितर्काः
सविचारा विचारवितर्कवर्ज्याः सम्प्रयुक्ताः, अवितर्को विचारमात्रो वितर्कः;
अवितर्का अविचारा असम्प्रयुक्ताः, अविचारो वितर्कमात्रो विचारः" इति ।
शेषा उभयवर्जिताः ॥ ३२ ॥
दश रूपिणो धातवः शेषा नित्यमवितर्का अविचाराः; असम्प्रयोगित्वात् । ३२ ॥
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः, कथमविकल्पका इत्युच्यन्ते ?
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
त्रिविधः किल विकल्पः—स्वभाव-अभिनिरूपण-अनुस्मरणविकल्पः ।
तदेषां स्वभावविकल्पोऽस्ति, नेतरौ । तस्मादविकल्पका इत्युच्यन्ते । यथा—
भवति—अवितर्को विचारमात्र इति, वितर्कसंप्रयोगाद् द्वितीयविचारा-
भावाच्च । तृतीयोऽपि नान्तर्भवति—अवितर्कोऽविचार इति । स हि यद्यप्य-
विचारो द्वितीयविचाराभावात्, न त्ववितर्को वितर्कसंप्रयोगात् । स कथं
वक्तव्यः ? इत्यत आह—अविचारो वितर्कमात्र इति । द्वितीयविचाराभावादविचारः ।
वितर्कसंप्रयोगाद् वितर्कमात्रः । अत एवेति । यस्मात् सवितर्कसविचाराणां
भूमौ विचार एव चतुर्थप्रकारो भवति । अविचारो वितर्कमात्र इति ।
शेषा उभयवर्जिताः इति । शेषा दशरूपिणो धातव उक्ताः । तेऽवितर्का
विचारमात्रा वा अवितर्का अविचाराः स्युरित्याशङ्कायामवधार्यं तदुभयवर्जिता
एव, शेषा अवितर्का अविचारा एवेत्यर्थः ॥ ३२ ॥
कथम् अविकल्पका इत्युच्यन्त इति । "चक्षुर्विज्ञानसंसर्गी नीलं विजानाति
नो तु नीलम्" इति वचनात् । त्रिविधः किल विकल्प इति । किलशब्दः परमतद्यो-
तनार्थः । स्वाभिप्रायस्तु—चेतनाप्रज्ञाविशेष एव वितर्क इति, न स्वभाव-
विकल्पोऽन्यो धर्मोऽस्तीति। तथा ह्यनेन पञ्चस्कन्धके उक्तम्—"वितर्कः कतमः ?
पर्येषको मनोजल्पश्चेतनाप्रज्ञाविशेषो या चित्तस्यौदारिकता । विचारः कतमः ?
प्रत्यवेक्षको मनोजल्प, तथैव या चित्तस्य सूक्ष्मता अनभ्यूहावस्थाया चेतना,
अभ्यूहावस्थाया प्रज्ञेति व्यवस्थाप्यते" । तदेषा स्वभावविकल्पोऽस्तीति । तदिति
वाक्योपन्यासे निपात, तस्मादर्थे वा । स्वभावेनेव विकल्प औदारिकलक्षण-
त्वात् । स्वभावविकल्पो वितर्कः । स एषां पञ्चाना विज्ञानकायाना सम्प्रयोगतो-
ऽस्ति । तस्मात् सविकल्पा उक्ताः । नेतरा॒वभिनिरूपणानुस्मरणविकल्पावेषां