अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 108, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] प्रथमं कोशस्थानम् ८९
वक्तव्यः ? अविचारो वितर्कमात्र ; द्वितीयविचाराभावात् , वितर्कसम्प्रयोगाच्च ।
अत एवोच्यते—"स्युः सवितर्कसविचाराया भूमौ धर्माश्चतुःप्रकाराः—सवितर्काः
सविचारा विचारवितर्कवर्ज्याः सम्प्रयुक्ताः, अवितर्को विचारमात्रो वितर्कः;
अवितर्का अविचारा असम्प्रयुक्ताः, अविचारो वितर्कमात्रो विचारः" इति ।
शेषा उभयवर्जिताः ॥ ३२ ॥
दश रूपिणो धातवः शेषा नित्यमवितर्का अविचाराः; असम्प्रयोगित्वात् । ३२ ॥
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः, कथमविकल्पका इत्युच्यन्ते ?
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
त्रिविधः किल विकल्पः—स्वभाव-अभिनिरूपण-अनुस्मरणविकल्पः ।
तदेषां स्वभावविकल्पोऽस्ति, नेतरौ । तस्मादविकल्पका इत्युच्यन्ते । यथा—
भवति—अवितर्को विचारमात्र इति, वितर्कसंप्रयोगाद् द्वितीयविचारा-
भावाच्च । तृतीयोऽपि नान्तर्भवति—अवितर्कोऽविचार इति । स हि यद्यप्य-
विचारो द्वितीयविचाराभावात्, न त्ववितर्को वितर्कसंप्रयोगात् । स कथं
वक्तव्यः ? इत्यत आह—अविचारो वितर्कमात्र इति । द्वितीयविचाराभावादविचारः ।
वितर्कसंप्रयोगाद् वितर्कमात्रः । अत एवेति । यस्मात् सवितर्कसविचाराणां
भूमौ विचार एव चतुर्थप्रकारो भवति । अविचारो वितर्कमात्र इति ।
शेषा उभयवर्जिताः इति । शेषा दशरूपिणो धातव उक्ताः । तेऽवितर्का
विचारमात्रा वा अवितर्का अविचाराः स्युरित्याशङ्कायामवधार्यं तदुभयवर्जिता
एव, शेषा अवितर्का अविचारा एवेत्यर्थः ॥ ३२ ॥
कथम् अविकल्पका इत्युच्यन्त इति । "चक्षुर्विज्ञानसंसर्गी नीलं विजानाति
नो तु नीलम्" इति वचनात् । त्रिविधः किल विकल्प इति । किलशब्दः परमतद्यो-
तनार्थः । स्वाभिप्रायस्तु—चेतनाप्रज्ञाविशेष एव वितर्क इति, न स्वभाव-
विकल्पोऽन्यो धर्मोऽस्तीति। तथा ह्यनेन पञ्चस्कन्धके उक्तम्—"वितर्कः कतमः ?
पर्येषको मनोजल्पश्चेतनाप्रज्ञाविशेषो या चित्तस्यौदारिकता । विचारः कतमः ?
प्रत्यवेक्षको मनोजल्प, तथैव या चित्तस्य सूक्ष्मता अनभ्यूहावस्थाया चेतना,
अभ्यूहावस्थाया प्रज्ञेति व्यवस्थाप्यते" । तदेषा स्वभावविकल्पोऽस्तीति । तदिति
वाक्योपन्यासे निपात, तस्मादर्थे वा । स्वभावेनेव विकल्प औदारिकलक्षण-
त्वात् । स्वभावविकल्पो वितर्कः । स एषां पञ्चाना विज्ञानकायाना सम्प्रयोगतो-
ऽस्ति । तस्मात् सविकल्पा उक्ताः । नेतरा॒वभिनिरूपणानुस्मरणविकल्पावेषां