सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 96, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 96

निर्देशः ] प्रथमं कोशस्थानम् ४७
य इमे तत्र षड् धातवः उक्ताः—पृथिवीधातुः, अब्धातुः, तेजोधातुः,
वायुधातुः, आकाशधातुः, विज्ञानधातुरिति, एतेषां द्वयोर्लक्षणमनुक्तम् । तत्
किं सर्वमेवाकाशधातुर्वेदितव्यः, सर्वं च विज्ञानं विज्ञानधातुः ? नेत्याह । किं
तर्हि ? द्वारवातायनमुखनासिकादिषु—
छिद्रमाकाशधात्वाख्यम्,
छिद्रमित्युच्यमानं किं वेदितव्यम् ?
आलोकतमी किल ।
नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते । तस्मात् किलाकाशधातुरलोक-
तमःस्वभावो रात्रिनिन्दवस्वभावो वेदितव्यः । स एव चाघसामन्तकं रूपमि-
त्युच्यते । अघं किल चित्तस्थं रूपम् ; अत्यर्थं घाताद् तस्य तत् सामन्तक-
य इमे तत्रेति बहुधातुके । एतेषां द्वयोर्लक्षणमनुक्तमिति । पृथिवीधात्वा-
दीनामुक्तं लक्षणम् । अमी “धृत्यादिकर्मसंसिद्धाः खरस्नेहोष्णतेरणा.” ( अभि०
को० १.१२ ) इति । ननु च विज्ञानधातोरप्युक्तं लक्षणम्—“विज्ञानं प्रति-
विज्ञप्ति.” ( अभि० को० १ १२ ) इति वचनात् ? सत्यम्, उक्तं सर्वेशा विज्ञा-
नाना लक्षणम्, विज्ञानधातुस्तु किमिह कश्चिदेव विज्ञानमित्यभिप्रेतम्, उताहो
सर्वमिति न विवेचितम् । असंस्कृतं चाकाशमुक्तलक्षणम्, न त्वाकाशधातु.,
अवश्यं ह्ययमन्य आकाशात् । तथा हि—“षड्धातुरयं भिक्षो पुरुष.”
( ) इति सूत्रान्तरमुक्तम् । इत्यनया बुद्ध्याभिहितम्—द्वयो-
र्लक्षणमनुक्तमिति । अत एवमाह—तत्किमाकाशमेवाकाशधातुर्वेदितव्यः, सर्वं च
विज्ञानं विज्ञानधातुरिति । मुखनासिकादिष्विति । आदिशब्देन श्रोत्रादीना ग्रहणम्।
“आलोकतभसी किल” इति । किलशब्द परमतद्योतनार्थं । स्वमतं तु
सप्रतिघद्रव्याभावमात्रमाकाशमित्यभिप्रायो लक्ष्यते । रात्रिनिन्दवस्वभाव इति ।
रात्रिवर्तिनस्तमस , भास्करातपलक्षणस्य चालोकस्याभिप्रेतत्वात् । बाहुलिको
द्वायं निर्देश । अघं किल चित्तस्थ रूपमिति । चित्तस्थं सङ्घातस्थम् । अत्यर्थं
हन्ति हन्यते वेत्यघम् । नैरक्तेन विधिना अत्यर्थशब्दस्य अकारादेशः कृत,
हन्तेश्च घादेशः । तस्य तत् सामन्तकमिति । तस्याघस्य कुड्यादिकस्य सामन्त-
कम्=समीपस्थम् । तदपेक्ष्य व्यवस्थापितमित्यर्थः । अत्रापि व्याख्याने किलशब्दो
वैभाषिकव्याख्यानप्रदर्शनार्थं. । स्वमतं तु यत्, तत् पश्चादुच्यते । तदाह—
१. एषां—का० ।