सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 99, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 99

२. विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु । यथोक्तं
प्रज्ञप्तौ—“अस्ति चक्षुर्जले प्रतिहन्यते न स्थले, यथा मत्स्यानाम्; अस्ति स्थले
न जले, प्रायेण मनुष्याणाम्; अस्त्युभयत्र, शिशुमार-मण्डूक-पिशाच-कैवर्त्ता-
दीनाम्; अस्ति नोभयत्र, एतानाकारान् स्थापयित्वा । अस्ति चक्षुर्यद्रात्रौ प्रति-
हन्यते न दिवा, तद्यथा तित्तीलोलूकादीनाम्, दिवा न रात्रौ, प्रायेण मनुष्याणाम्;
रात्रौ दिवा च, श्व-शृगाल-तुरग-द्वीपि-मार्जारौदीनाम्; नोभयत्र, एतानाकारान्
स्थापयित्वा” ( ) इत्ययं विषयप्रतिघातः ।
३. आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु ।
कः पुनर्विषयालम्बनयोर्विशेषः ? १ यस्मिन् यस्य कारित्रं स तस्य विषयः ।
यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । कुतः पुनः स्वस्मिन् विषये प्रवर्त्तमानमालम्बने
वा प्रतिहन्यत इत्युच्यते ? तस्मात् परेणाप्रवृत्तेः ।
निपातो वाऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः ।
तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यम्, अन्योन्यावरणात् ।

जले प्रतिहन्यत इति । जले स्वविषये प्रवर्त्तत इत्यर्थः । प्रायेण मनुष्याणा-
मिति । प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थम् । अस्ति नोभयत्रेति । गर्भे नियतमृत्यूनाम् ।
एतानाकारानिति । एतान् प्रकारानित्यर्थ । तित्तीला बद्दुलय । मार्जरादीना-
मिति । आदिग्रहणेन चौरमनुष्यादीना व्याघ्रादीना च ग्रहणम् ।
यस्मिन् यस्य कारित्रं स तस्य विषय इति । कारित्रम्=पुरुषकार. । चक्षु-
श्रोत्रादीना रूपशब्दादिष्वालोचनश्रवणादि कारित्रम् । तच्च स्वचित्तचैत्तान्
प्रत्याश्रयभावशक्तिविशेषलक्षणं वेदितव्यम् । यच्चित्तचैत्तैर्गृह्यते दण्डावस्तम्भन-
योगेन तदालम्बनं रूपादि । तदेवं सति चित्तचेत्तानामेवालम्बनम् । विषयः
पुनश्चक्षुरादीनामपि, न केवलं चित्तचैत्तानाम् । तस्मात् परेणाप्रवृत्तेरिति । यो
हि लोके यत परेण न प्रवर्त्तते स तत्र प्रतिहन्यते—काष्ठे, कुड्ये वा । तथा
चक्षुरादि विषयात् परेण न कारित्रं करोति । विषय एव तु करोति । तस्मात्
तत्र प्रतिहन्यत इत्युच्यते ।
निपातो वात्र प्रतिघात इति । विस्तर—अत्र विषये निपतनं निपातः
या स्वविषये प्रवृत्तिः । कारित्रमित्यर्थः ।
तदिहावरणप्रतिघातेनेति । विस्तर—‘सप्रतिघा दश’ इत्यत्रावरणप्रति-
घातेन ते दश धातव सप्रतिघा अभिप्रेता. । तत्र विषयालम्बनप्रतिघाताभ्या
१. का०—का० ।