अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
८३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
एवमन्योऽपि क्लेश उत्पद्यत इति वेदितव्यः, यः—
सम्पूर्णकारणः ॥ ३४ ॥
कदाचित्किल विषयबलेनैवोत्पद्यन्ते, न हेतुबलेन । यथा—परिहाणधर्म-
कस्यार्हत इति ॥ ३४ ॥
एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः—कामास्रवः,
भवास्रवः, अविद्यास्रव इति । चत्वार ओघाः—कामोघः, भवोघः, दृष्ट्योघः,
अविद्यौघश्च । चत्वारो योगा एत एव । चत्वार्युपादानानि—कामोपादानम्,
दृष्ट्युपदानम्, शीलव्रतोपादानम्, आत्मवादोपादानमिति । तत्र तावत्
कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना ।
मोहेन,
अविद्यां वर्जयित्वाऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो
वेदितव्य एकचत्वारिंशद् द्रव्याणि । एकत्रिंशदनुशयाः पञ्चप्रकारमविद्यां हित्वा
दश पर्यवस्थानानि ।
अनुशया एव रूपारूप्ये भवास्रवः ॥ ३५ ॥
‘विना मोहेन’ इति वर्तते । रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो
द्वापञ्चाशद् द्रव्याणि—रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा,
आरूप्यावचराः षड्विंशतिः ।
मन्योऽपि क्लेश उत्पद्यत इति । प्रतिघानुशयोऽप्रहीणो भवत्यपरिज्ञातः, प्रतिघ-
पर्यवस्थानीया धर्मा आभासगता भवन्ति, तत्र चायोनिशोमनस्कार इत्येष
नयः ॥ ३४ ॥
चत्वारो योगा एत एवेति कामयोगः, भवयोगः, दृष्टियोगः, अविद्यायोग-
श्चेति ।
“विना मोहेन” इति । अविद्यास्रवस्य पृथगुक्तत्वात् । सह पर्यवस्थानै-
राह्रीक्यादिभिर्भेद्यमानैः एकचत्वारिंशद् द्रव्याणि एकत्रिंशदनुशया इति ।
द्वादश दृष्टयः—दुःखदर्शनप्रहातव्याः पञ्च, समुदयदर्शनप्रहातव्ये द्वे, निरोध-
दर्शनप्रहातव्ये द्वे एव, तिस्रो मार्गदर्शनप्रहातव्याः । चतस्रो विचिकित्साः । पञ्च
रागाः । एवं प्रतिघाः, मानाश्च दश पर्यवस्थानानि—इत्येवमेकचत्वारिंशत् ।
“अनुशया एव” इति । एवकारः पर्यवस्थाननिरासार्थः । षड्विंशतिरनुशया
इति । द्वादश दृष्टयः, चतस्रो विचिकित्साः, पञ्च रागाः, पञ्च माना इति ।
निर्देशः ] पञ्चमं कोशस्थानम् ८३१
ननु च तत्राप्यस्ति पर्यवस्थानद्वयम्—स्त्यानमौद्धत्यं च, प्रकरणेषु चोक्तम्-
“भवास्रवः कतमः ? अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रति-
संयुक्तानि । संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानि” ( ) इति, कस्मा-
दिह तस्याग्रहणम् ? अस्वात्त्र्यादिति काश्मीराः ॥ ३५ ॥
किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवराग उक्तः ?
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
अत एकीकृताः
ते ह्युभयेऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन
साधर्म्येणैकीकृताः । येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रव इत्यविधे-
दानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् । तानि पञ्चदश द्रव्याणि ।
किं कारणमसौ पृथग्व्यवस्थाप्यते ? सर्वेषां तेषाम्¹---
मूलमविद्येत्यास्रवः पृथक् ॥ ३६ ॥
यथा चैते आस्रवा उक्ता वेदितव्या ,
ननु च तत्राप्यस्ति पर्यवस्थानद्वयमिति । तत्र रूपारूप्यधात्वोः । “स्त्यानौद्धत्य-
मदा धातुत्रये” (अभि० ५.५३) इति वचनात् । कस्मादिह तस्याग्रहणमिति ।
तस्य पर्यवस्थानद्वयस्य । अस्वात्त्र्यादिति । कथमस्वातन्र्यम् ? रागादि-
संप्रयोगित्वाद्दीर्ष्यावद् अविद्यामात्रासम्प्रयोगित्वाच्च । एतद्धि द्वयं रागादिभिः
संप्रयुज्यते । न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः स्वतन्त्राः, अविद्यामात्रेण
संप्रयोगादिति ॥ ३५ ॥
ते ह्युभयेऽपीति । रूपारूपावचरा अपीत्यर्थः । अन्तर्मुखप्रवृत्ता इति । न
विषयप्रधाना इत्यर्थः । येनैव च कारणेन भवराग उक्त इति । “अन्तर्मुख-
त्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः” (अभि० ५ २) इति । अनेन च भवास्रव
इति । अविद्यास्रव इति सिद्धमिति । अविद्या पूर्वोक्ताभ्यामास्रवाभ्यां
बहिष्कृता । तस्मात् सा त्रैधातुकी अपि अविद्यास्रव इति सिद्धमेतत् ।
पञ्चदश द्रव्याणीति । त्रिष्वपि धातुष्वविद्यायाः प्रत्येकं पञ्चप्रकारत्वात् । सर्वेषां
तेषामिति । कामास्रवादीनां संसारस्य च । उक्तो ह्यविद्याहेतुः संरागायेत्यादि ।
“याः काश्चन दुर्गतयो ह्यस्मिन् लोके परत्र च ।
१. हि तेषाम्—का० ।
८३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
कामास्रव एव कामौघः कामयोगश्च । एवं भवास्रव एव भवौघो भव-
योगश्च, अन्यत्र दृष्टिभ्यः । ताः किल पटुत्वादोधयोगेषु पृथक् स्थापिताः ।
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ३७ ॥
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यति । न च किल केवला दृष्टय
आस्यानुकूलाः, पटुत्वात् । अत आस्रवेषु न पृथक् स्थापिताः । मिश्रीकृत्य
स्थापिता इति । तदेवं कामौघ एकान्नत्रिंशद् द्रव्याणि । रागप्रतिघमानाः पञ्चदश
विचिकित्साश्चतस्रो दश पर्यवस्थानानीति । भवौघोऽष्टाविंशतिद्रव्याणि । रागमाना
विंशतिः । विचिकित्साऽष्टौ । दृष्ट्योधः षट्त्रिंशद् द्रव्याणि । अविद्यौधः पञ्चदश
द्रव्याणि ।
अविद्यामूलिकाः सर्वा इच्छालोभसमुत्थिताः ॥” ( ) इति च ॥ ३६ ॥
“तथौघयोगा” इति । आस्रवा एवौघा योगाश्च भवन्ति । केवलम् दृष्टयः
पृथग् अवस्थाप्यन्ते । कथम् ? इति विव्रियते—कामास्रव एव कामौघः,
कामयोगश्च । एवं भवास्रव एव भवौघः, भवयोगश्च । अविद्यौघयोगस्तु पूर्व-
वदेवावगन्तव्यः । दृष्टियोग इह चतुर्थ उक्तः । तेनाह—अन्यत्र दृष्टिभ्य इति ।
ताः किलेति । किल-शब्दः परमतद्योतकः । विनेयजनवशात्तु दृष्टियोगः पृथगुक्त
इत्यभिप्रायो युज्यते ।
आस्रवेषु दृष्टयः किमर्थं न पृथक् स्थापिताः ? इत्याह—“नास्रवेष्वसहा-
यानाम्” इत्यादि । असहायानां दृष्टीनामास्यानुकूलता = अवस्थानानुकूलता,
चलत्वात् पटुत्वाच्च न भवति । नासनानुकूलतेत्यर्थः । आसेति रूपे प्राप्ते,
आपिशलेष्ट्या ‘आस्या’ इति रूपं भवात् । तदिदमुक्तं भवति—यस्मादेता
दृष्टयोऽसहायाः, नासनानुकूलाः । ससहायास्त्वासनानुकूला भवन्ति । तस्मात्
ससहाया एवैता आस्रवेषूक्ताः । मिश्रीकृत्योक्ता इत्यर्थः । किमर्थम् ? इत्याह—
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद् वक्ष्यतीत्यद आसनार्थमास्रवेषु भवितव्य-
मित्यभिप्रायः । तदेवं कामौघ एकान्नत्रिंशद् द्रव्याणीति । द्वादशदृष्ट्यपनयनात्
नास्रववद् एकचत्वारिंशद् द्रव्याणि भवन्ति, किं तर्हि ? एकान्नत्रिंशद् द्रव्याणि
भवन्ति । कथम् ? इत्याह—राग-प्रतिघ-माना इति सर्वम् । भवौघोऽष्टाविंशति-
द्रव्याणीति । भवास्रवो द्वापञ्चाशद् द्रव्याण्युक्तानि, ततश्चतुर्विंशतिर्दृष्टीरपनीय
अष्टाविंशतिर्द्रव्याणि । राग-माना विंशतिरिति । द्विधातुका रागा दश भवन्ति,
माना अपि दशेति विंशतिः । दृष्ट्यौघः षट्त्रिंशद् द्रव्याणीति । त्रिषु धातुषु
त्रिद्वादश दृष्टय इति । अविद्यौघः पञ्चदशद्रव्याणि । पूर्ववत् ।
निर्देशः ] पञ्चमं कोशस्थानम् ८३३
ओघवद् योगा वेदितव्याः ॥ ३७ ॥
यथोक्ता एव साऽविद्या द्विधा दृष्टेर्विवेचनात् ।
उपादानानि,
कामयोग एव सहाविद्यया कामोपादानं चतुस्त्रिंशद् द्रव्याणि — रागप्रतिघ-
मानाऽविद्या विंशतिः, विचिकित्साश्चतस्रः, दश पर्यवस्थानानि । भवयोग एव सहा-
विद्यया आत्मवादोपादानमष्टत्रिंशद् द्रव्याणि । रागमानाविद्यास्त्रिंशद्विचिकित्सा
अष्टौ । दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्टयुपादानं त्रिंशद् द्रव्याणि । शीलव्रतो-
पादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् । मार्गप्रतिद्वन्द्वाद्¹, उभयपक्षविप्रलम्भ-
नाच्च । गृहिणोऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया । प्रव्रजिता
अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति ।
किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् ? भवग्रहणादुपादानानि ।
ओघवद् योगा इति । कामयोग एकान्नत्रिंशद् द्रव्याणि । राग-प्रतिघ-मानाः
पञ्चदश, विचिकित्साश्चतस्रो दश पर्यवस्थानानि । भवयोगोऽष्टाविंशतिर्द्र-
व्याणि । राग-मानाः विंशतिः, विचिकित्सा अष्टौ । दृष्टियोगः षट्त्रिंशद्
द्रव्याणि । अविद्यायोगः पञ्चदश द्रव्याणि ॥ ३७ ॥
"यथोक्ता एव साऽविद्या" इति विस्तरः । के यथोक्ताः ? 'योगाः' इत्यधि-
कृतम् । तस्माद् विज्ञायते—कामयोग एव सहाविद्यया कामोपादानमिति ।
अविद्या कामोपादान-आत्मवादोपादानयोर्यथास्वमन्तर्भाव्यते ।
द्विधा दृष्टेः । पृथक्करणाच्चतुष्ट्वम्—कामोपादानम्, दृष्ट्युपादानम्,
शीलव्रतोपादानम्, आत्मवादोपादानमिति । दृष्टियोगाच्छीलव्रतं निष्कृष्येति ।
षट्त्रिंशद्द्रव्यकाद् दृष्टियोगाद् धातुभेदेन षच्छीलव्रतपरामर्शांन्निष्कृष्य ।
दृष्ट्युपादानं त्रिंशद् द्रव्याणि । शीलव्रतोपादानं षड् द्रव्याणि । कामधातौ
द्वे, एवं रूपधातौ आरूप्यधातौ चेति । मार्गप्रतिद्वन्द्वत्वादिति । सांख्य-योगज्ञाना-
दिभिर्मोक्षप्राप्तिदर्शनान्मार्गप्रतिद्वन्द्वभूतं शीलव्रतोपादानम् । उभयपक्षविप्रलम्भ-
नाच्चेति विस्तरः । गृहिप्रव्रजितपक्षविप्रलम्भनाच्चेत्यर्थः । अनशनादिभिरिति ।
आदि-शब्देन जलाग्निप्रपतन-मौनवीरादानादिर्गृह्यते । अनशनादीनि शीलव्रत-
संगृहीतानि, इष्टविषयपरिवर्जनं च । इष्टविषयपरिवर्जनेनेति । रसपरित्याग-
भूमिशय्यामळपङ्कधारण-नग्नचर्या-केशोलुञ्चनादिना शुद्धिप्रत्यागमनात् ।
१. प्रतिद्वन्द्वित्वात्—का० ।
अविद्या तु ग्राहिका नेति मिश्रिता ॥ ३८ ॥
असम्प्रख्यानलक्षणतयाऽपटुत्वादविद्या न ग्राहिका भवति, अतः किल
मिश्रिता। सूत्रे तु भगवतोक्तम्—"कामयोगः कतमः ? विस्तरेण यावद्योऽस्य
भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा
कामगृद्धः कामपरिगृद्धः कामनन्दी कामनियन्तिः कामाध्यवसानम्, तदन्यचित्तं
पर्यादाय तिष्ठति। अयमुच्यते कामयोगः। एवं यावद् भवयोगः" । ( ) ।
छन्दरागश्चोपादानमुक्तं सूत्रान्तरेषु, अतो विज्ञायते कामा द्युपादानमपि कामादिषु
यश्छन्दराग$^१$ इति ॥ ३८ ॥
उक्तमिदमनुशया एवात्रौघयोगोपादानसंशब्दिताः सूत्रेष्विति।
अथ कोऽयमनुशयार्थः ? कश्च यावदुपादानार्थः ?
अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ३९ ॥
तत्राणवः सूक्ष्मप्रचारत्वात् दुर्विज्ञानतया। अनुगताः प्राप्त्यनुषङ्गतः। अनु-
शेरते द्वाभ्यां प्रकाराभ्याम्—आलम्बनतः, संप्रयोगतश्च। अनुबध्नन्ति; अप्रयोगेण
प्रतिनिवारयतोऽपि$^२$ पुनः पुनः सम्मुखीभावात्। एभिः कारणैरनुशया उच्यन्ते ॥
"अविद्या तु ग्राहिका नेति मिश्रिता" इति। न केवलम् अविद्या भवमुपा-
ददाति। कस्माद् ? इत्याह—असम्प्रख्यानलक्षणतया अपटुत्वादिति। मिश्रिता
त्वन्यक्लेशसम्पर्कवशादुपाददतीत्यभिप्रायः। अथ किलेति। किल-शब्दः
परमतद्योतकः। तेन स्वमतमुच्यते। सूत्रे तु भगवतोक्तमिति विस्तरेण। एवं
यावद् दृष्टियोग इति। कथम् ? 'दृष्टियोगः कतमः ? विस्तरेण यावद् योऽस्य
दृष्टिषु दृष्टिरागो दृष्टिच्छन्दो दृष्टिस्नेह" इति पूर्ववत्। छन्दरागश्चोपादानमुक्तं
सूत्रान्तरेषु। कथम् ? "उपादानं कतमत् ? योऽत्र छन्दरागः" इति। एतदा-
चार्यमतम्। तदुक्तं भवति—राग एवात्र योगः, उपादानं वा, नान्ये क्लेशा
इति। तेनोच्यते—कामादिषु यश्छन्दराग इति ॥ ३८ ॥
"अणवः" इति विस्तरेण। अणवः शेरते इत्यनुशयाः। नैरुक्तेन विधिना-
ऽस्य सिद्धिः। सूक्ष्मप्रचारत्वादिति। सूक्ष्मप्रवृत्तित्वादित्यर्थः। कथं पुनः सूक्ष्मा
प्रवृत्तिः ? अरूपिणां दुर्विज्ञानतया। आलम्बनतश्छिद्रान्वेशिशत्रुवत्, दृष्टिविष-
वच्च। संप्रयोगतोऽयोगुलोदकसन्तापवत्, स्पर्शवच्च। उभयतो धात्र्यः
१. छन्दराग—का०। २. प्रतिवारयतोऽपि—का०।
निर्देशः ] पञ्चमं कोशस्थानम् ८३५
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ४० ॥
आसयन्ति संसारे आस्रवन्ति भवाग्राद् यावदवीचि षड्भिरायतनव्रणैरित्या-
स्रवाः । हरन्तीत्योघाः । श्लेषयन्तीति योगाः । उपगृह्णन्तीति उपादानानि ।
एवं तु साधीयः स्याद् — आस्रवन्त्येभिः संततिर्विषयेष्वित्यास्रवाः ।
“तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते । सा तेषामेव
संस्काराणां प्रतिप्रस्रब्ध्याऽरुपकृच्छ्रेणानुस्रोत उह्यते” इति सूत्रवादानुसारात् ।
अधिमात्रवेगत्वादोघाः । तर्हि तद्वानुह्यते तदनुविधानात् । नाधिमात्रसमुदाचारि-
कुमारकमनुशेरते, एवमेतेऽप्यालम्वनान् सम्प्रयुक्तेभ्यो वा स्वां सन्ततिं वर्धयन्तः
प्राप्तिभिरुपचिन्वन्ति । अनुबध्नन्तीति । अनुक्रान्तेऽप्यातुरार्थकज्वरवत् मूषिका-
विषवदित्यन्ये । अप्रयोगेण अनाभोगेन । प्रतिनिवारयतोऽपि निषेधयतोऽपि
पुद्गलस्य पुनः पुनः सम्मुखीभावादनुबध्नन्तीयतोऽनुशया इति ॥ ३९ ॥
आसयन्ति संसार इति आस्रवा इति । नैरूक्तो विधिः । आसनार्थो वा ।
आस्रवन्ति भवाग्राद् यावदवीचिमिति । षड्भिरायतनव्रणैरश्चक्षुरादिभिरायतनव्रण-
भूतैरास्रवन्ति क्षरन्ति । भवाग्राद् यावदवीचि गच्छन्ति । भवाग्राबीतरागस्यापि
आवीचिकक्लेशसमुदाचाराद्, तदुत्पन्नस्य वा तत्रोत्पत्तिसम्भवात् । के
आस्रवन्ति ? अनुशयाः । आस्रवन्त्यास्रवा इत्यच्-प्रत्ययः । हरन्तीत्योघाः ।
इलेपयन्तीति योगाः । उपगृह्णन्तीति उपादानानीत्यर्थप्रदर्शनम् ।
एतदुक्तं वैभाषिकैः — बहने एतद् रूपम् — ओघ इति । वहन्ति = हरन्ति
गत्यन्तरं त्रिपयान्तरं वेत्योघाः । योजयन्ति = श्लेषयन्ति गत्यन्तरे विषयान्तरे
वेति योगाः । उपाददति = उपगृह्णन्ति पुनर्भवे कामादिषु वा विज्ञानसन्ततिमि-
त्युपादानानीति ।
एवं तु साधीयः स्यादिति । एवं तु साधुतरं स्यादित्याचार्यः । कथम् ?
इत्याह — आस्रवन्ति गच्छन्ति एभिरनुशयैर्विज्ञानसन्ततिर्विषयेष्वित्यास्रवाः ।
करणसाधनम् । महताभिसंस्कारेण कुशलैर्धर्मैश्चित्तसन्तानः प्रतिस्रोतो नीयत
विषयेभ्यो निवार्यते । तेषामेव संस्काराणां प्रतिप्रश्रब्ध्येति । तेषामेव प्रयत्नानां
व्युपरमेणेत्यर्थः । अधिमात्रवेगत्वादोघा इति । ओघसाधर्म्यं दर्शयति, ओघ
इवौघ इति कृत्वा । तदनुविधानादिति । रागानुविधानात् । ना/धिमात्रसमुदा-
चारिणो हि योगा इति । ओघयोगानां नानाकरणं दर्शयति । ये हि नाधिमात्र-
८३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
णोऽपि¹ योगाः; विविधदुःखयोजनात्²। अभीक्ष्णानुषङ्गतो³ वा कामाद्युपादानादु-
पादानानीति ॥ ४० ॥
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा
भित्वोक्ताः । तत्र नव संयोजनानि—अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचि-
कित्सेर्ष्यामात्सर्यसंयोजनानि । तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि
यथासम्भवं योज्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः । परामर्शसंयोजनं द्वे
दृष्टी ।
अत एवोच्यते—स्याद् दृष्टिसम्प्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्त्तो
समुदाचारिणस्ते योगाः, ये त्वधिमात्रसमुदाचारिण एव ते ओघा इति । कथं
च ते योगाः ? इत्याह—विविधदुःखयोजनात् । जात्यादिभिर्विविधैर्दुःखैर्योज-
नादित्यर्थः । अभीक्ष्णानुषङ्गतो वा । यस्माद् वा सन्ततावभीक्ष्णं युज्यते, तस्माद्
योगा इति । कामाद्युपादानादिति । यैः कामादय उपादीयन्ते, तानि कामाद्यु-
पादानानिच्छन्दरागात्मकानि ॥ ४० ॥
ते एवानुशयाः पुनर्यावत् पर्यवस्थानभेदेन पञ्चधामित्वोक्ताः इति । त एवा-
नुशया आश्रवादिभेदेन चतुर्धोक्ताः संयोजनबन्धनानुशयोपक्लेश-पर्यवस्थान-
भेदेन पुनः पञ्चधा भित्वोक्ताः सूत्रेऽभिधर्मे च । ननु चानुशयव्यतिरिक्तान्या-
ह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यन्ते, कथमिदमुच्यते—अनुशया एव पर्य-
वस्थानानि ? सत्यं भवन्ति तद्व्यतिरिक्तानि, अव्यतिरिक्तान्यपि त्विष्यन्ते ।
तथा हि वक्ष्यति—"क्लेशोऽपि हि पर्यवस्थानम् ; 'कामरागपर्यवस्थानप्रत्ययं
दुःखं प्रतिसंवेदयते' इति सूत्रे वचनात्" (अभि० को० ५.४७) इति ।
एवमन्यान्यपि यथासम्भव योज्यानीति । प्रतिघेर्ष्यामात्सर्यसंयोजनानि
कामावचराणि । मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रिधातुकाणि ।
दृष्टिसंयोजनं तिस्रो दृष्टयः इति । सत्कायान्तग्राहमिथ्यादृष्टयः । परामर्शसंयोजनं
द्वे दृष्टीति । दृष्टि-शीलव्रतपरामर्शौ । अत एवोच्यत इति । यत एव ति .
दृष्टयः—दृष्टिसंयोजनम्, द्वे दृष्टी—परामर्शसंयोजनम् अत एवोच्यते ।
१. नातिमात्र०—का० । २. दुःखसंयोजनात्—का० ।
३. आभीक्ष्ण्या०—का० ।
न दृष्टिसंयोजनेन; न च तत्र दृष्ट्यनुशयो नानुशयिता । आह —स्यात् समुदाय-
ज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शनप्रहातव्येषु दृष्टिशीलव्रतपरामर्श-
सम्प्रयुक्तेषु यावद्¹ धर्मेषु । तेषु ह्यनुनयसंयोजनेन² संयुक्तस्तदालम्बनेन दृष्टिसंयोजने-
नासंयुक्तः; सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टि-
संयोजनस्याभावात् । दृष्ट्यनुशयश्च तेष्वनुशेते । ते एव परामर्शदृष्टी
सम्प्रयोगतः ।
स्याद् दृष्टिसम्प्रयुक्तेष्विति विस्तरेण प्रश्नः । दृष्टिसम्प्रयुक्तेष्विति परामर्श-
दृष्टिसम्प्रयुक्तेषु वेदनादिषु । अनुनयसंयोजनेन संयुक्तो रागेण । न दृष्टिसंयोजनेन
सत्कायदृष्ट्यादिलक्षणेन । नच तत्र दृष्ट्यनुशयो नानुशयितेति । न च तत्र
दृष्टिसम्प्रयुक्तेषु धर्मेषु दृष्ट्यनुशयो नानुशयिता, किं तर्हि ? अनुशायिता । द्विः-
प्रतिषेधः प्रकारान्तरं गमयति । आह स्यादिति विस्तरेण प्रश्नविसर्जनम् ।
समुदायज्ञाने उत्पन्न इति विशेषणं सर्वत्रगदृष्टिसंयोजनप्रहाणसन्दर्शनार्थम् ।
निरोधज्ञानेऽनुत्पन्न इति परामर्शदृष्टिद्वयाप्रहाणेन तत्सम्प्रयोगसत्ताप्रदर्शनार्थम् ।
निरोध-मार्गदर्शनप्रहातव्येषु यावद् धर्मेष्विति । वेदनादिषु । तेषु ह्यनुनयसंयोजनेन
निरोधदर्शनेहेयेन, मार्गदर्शनहेयेन वा संयुक्तः । कीदृशेन ? तदालम्बनेन ।
यस्मादसावेतान् निरोधदर्शनमार्गप्रहातव्यान् दृष्टिपरामर्श-शीलव्रतपरामर्श-
सम्प्रयुक्तान् वेदनादिधर्मान् आलम्ब्य राग उत्पद्यते, तस्मादालम्बनतस्तेन
संयुक्तः । दृष्टिसंयोजनेनासंयुक्तः । कस्माद् ? इत्याह — सर्वत्रगस्य दुःख-समु-
दयदर्शनहेयस्वभावस्य समुदायज्ञानेोत्पत्तेः प्रहीणत्वात् । असर्वत्रगस्य च
तदालम्बनसम्प्रयोगिणो दृष्टिसंयोजनस्याभावादिति । यद्यपि ह्यसर्वत्रगं मिथ्या-
दृष्टिस्वभावं निरोधमार्गदर्शनप्रहातव्यं दृष्टिसंयोजनमस्ति, न तु तत् परामर्श-
दृष्टिसम्प्रयुक्तवेदनादिधर्माालम्बनम्; अनास्रवालम्बनत्वात् । तस्मान्नालम्बनतो
दृष्टिसंयोजनेन संयुक्तः । न चापि तत् तैर्वेदनादिभिः सम्प्रयोगि, तत्पृथक्कला-
पत्वात् । तस्मात् सम्प्रयोगतोऽपि न तेन संयुक्तः । दृष्ट्यनुशयश्च तेष्वनुशेते ।
कीदृशः सः ? इत्याह—ते एव परामर्शदृष्टी सम्प्रयोगत इति । दृष्टिपरामर्शः,
शीलव्रतपरामर्शो वा तेषु वेदनादिषु धर्मेषु सम्प्रयोगतोऽनुशेते; स्वकलापसम्पू-
तत्त्वात् । न च तत्र दृष्टिसंयोजनमनुशेते; तयोर्दृष्टिसंयोजनमित्यसंज्ञितत्वान्न
दृष्ट्यनुशयग्रहणे पञ्चदृष्टिग्रहणं भवति । दृष्टिसंयोजनग्रहणे तु सत्कायान्त-
ग्राहमिथ्यादृष्टीनामेव ग्रहणम्, न परामर्शदृष्ट्योः— इत्यवगन्तव्यम् ।
१. का० पुस्तके नास्ति । २. तेष्वनुनय०—का० ।
अभि० को० ३ : ६
८३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम्, द्वे
पुनर्द्दष्टी परामर्शसंयोजनं पृथक् ?
द्रव्यामर्शनसामान्याद् दृष्टिः संयोजनान्तरम् ॥ ४१ ॥
अष्टादश द्रव्याणि तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । अतः
किल द्रव्यसामान्यादेते संयोजनान्तरं कृते । एते च द्वे परामर्शस्वभावे¹,
न² शेषा इति परामर्शनसामान्यादप्येते पृथग्विहिते; ग्राह्यग्राहकभेदात् ॥ ४१ ॥
अथ कस्मादीर्ष्यामात्सर्ये संयोजने पृथक् संयोजनद्वयमुक्तं नान्यत् पर्य-
वस्थानम् ?
एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः ।
ईर्ष्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम् ॥ ४२ ॥
“दृष्टिः संयोजनान्तरम्” इति । परामर्शदृष्टिः । अष्टादश द्रव्याणि तिस्रो
दृष्टयो भवन्तीति वाक्यशेषः । अष्टादशसंख्येयद्रव्याः सत्कायान्तग्राहमिथ्या-
दृष्टय इति वाक्यार्थः । अष्टादशैव । द्रव्याणीति प्रकृतम् । द्वे परामर्शदृष्टी
भवन्ति । कथम् ? कामधातौ सत्कायान्तग्राहान्तग्राहदृष्टी द्वे, ते च दुःख-
दर्शनप्रहातव्ये एवेष्टे । मिथ्यादृष्टिस्तु चतुःप्रकारा—दुःखदर्शनप्रहातव्या,
यावन् मार्गदर्शनप्रहातव्या । इत्येवं कामधातौ षड् भवन्ति । यथा काम-
धातौ षट्, एवं रूपधातौ, आरूप्यधातौ चेति अष्टादश भवन्ति ।
अष्टादशैव द्वे परामर्शदृष्टी । कथम् ? कामधातौ दृष्टिपरामर्शो दुःखदर्शन-
प्रहातव्यो यावन् मार्गदर्शनप्रहातव्यः—इति चतुःप्रकारः; शीलव्रतपरामर्शो-
ऽपि दुःखदर्शनप्रहातव्यः, मार्गदर्शनप्रहातव्यश्चेति द्विप्रकारः—इत्येवं षड्
भवन्ति । यथा कामधातौ, एवं रूपधातावारूप्यधातौ च इत्येवमष्टादश
द्रव्याणि भवन्ति ।
न शेषा इति द्रष्टव्यः । ग्राह्यग्राहकभेदादिति । दृष्टिसंयोजनं ग्राह्यम्, परा-
मर्शसंयोजनं ग्राहकमिति ॥ ४१ ॥
“यतः” इति । यतः कारणात् । एकान्तकुशलस्वातन्त्र्यलक्षणात् ।
“एषूक्तम्” इति । एषु आह्नीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम् ईर्ष्या-
१-१. ०स्वभावेन—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८३६
नह्यन्यत् पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्याद्—एकान्ताकुशलत्वं
स्वतन्त्रत्वं चेति ।
यस्याष्टौ पर्यवस्थानानि तस्यैवं स्यात् । यस्य पुनर्द्दश तस्य
क्रोधम्रक्षावप्युभयप्रकारौ । तस्मान्न भवत्ययं परिहार इत्यपरे ॥ ४२ ॥
पुनरन्यत्र भगवता संयोजनमुक्तम्—
पञ्चधाऽवरभागीयम्,
तद्यथा सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा, कामच्छन्दः, व्यापाद
मात्सर्यम् उक्तम् । न ह्यन्यत् पर्यवस्थानमेवञ्जातीयकमिति । अनाह्रीक्यान-
पत्रप्यमप्येकान्तकुशलम्, न तु स्वतन्त्रम्; रागादिक्लेशसम्प्रयोगात् । कौकृ-
त्यमपि स्वतन्त्रम् ; अविद्यामात्रसम्प्रयोगात् । न त्वेकान्तकुशलम्, तदधिकुशल-
मपि । स्त्यानौद्धत्यमिद्धान्यपि अस्वतन्त्राणि, रागादिसम्प्रयोगात् । न त्वेकान्त-
कुशलानि । कुशलाऽव्याकृतान्यपि हि तानि भवन्ति । यत्रैतदुभयमिति । यत्रै-
कान्ताकुशलत्वं च स्वातन्त्र्यं चेति एतदुभयं स्यात् । तदेवजातीयकमन्यत्
प्रत्यवस्थानं नास्तीत्यभिसम्बन्धः ।
यस्य पुनर्द्दशेति । यस्य वैभाषिकस्य दश पर्यवस्थानानि, तस्य क्रोधम्रक्षावपि
उभयप्रकाराविति । एकान्तकुशलौ स्वतन्त्रौ चेति । तस्मान्न भवत्ययं परिहार
इति । कस्तर्हि परिहारस्तस्येति ? अत्राचार्यसङ्घभद्र आह—अभीक्ष्णसमुदा-
चारित्वाद् ईर्ष्यामात्सर्ययोः पृथक्संयोजनमिति । अत एव च षट्त्रिंशत्संयो-
जनस्वेऽपि कामधातुपपन्नानामीर्ष्या-मात्सर्य-संयोजनाः कुशला देवमनुष्या
इत्युक्तम् । आधिक्येन हि सुगतावेतत् क्लेशद्वयं बन्धनमिति ।
अथवा—
अल्पेशाख्याल्पभोगकारणत्वात् सर्वसूचनात् ।
द्विपक्षसंक्लेशत्वाच्च मात्सर्यैष्ये पृथक् कृते ॥
यदयं सुगतावप्युपपन्नः प्रगाढं परिभवमुद्वहति, तन्नेर्ष्यामात्सयें कारणम् ।
तथा हि—
“अल्पेशाख्योऽल्पभोगश्च बन्धनावप्युभयान्मतः” इति । द्विविधाश्चोप-
क्लेशाः सन्तापसहगताः । ते आभ्यां सर्वे सूचिता भवन्ति । गृहिपक्षश्चाभ्यां
भोगाधिष्ठानाभ्यामतीव क्लिश्यते । प्रव्रजितपक्षोऽपि धर्माधिष्ठानाभ्याम् ।
देवासुरपक्षौ वा भिन्नोदरहेतोरन्यत्यं क्लिश्यतः । अत एवोक्तं भगवता—
Here is the line-by-line transcription of the Sanskrit text from the image:
४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
इति । कस्मादेतान्यवरभागीयान्युच्यन्ते ? अवरभागहितत्वात् । अवरो हि भागः
कामधातुः, एतानि च तस्यानुगुणानि । यस्मात्—
द्वाभ्यां कामानतिक्रमः ।
त्रिभिस्तु पुनरावृत्तिः,
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिरति-
क्रान्तोऽपि पुनरावर्त्यते; दौवारिकानुचरसाधर्म्यात् । त्रिभिः सत्त्वावरतां नाति-
क्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुम् । तस्माद्' एव तान्यवर-
भागीयानीत्यपरे ।
यदा स्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः,
किमर्थं तिस्रो दृष्टोरपहाय त्रयमेवाह—सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां
च ? सर्वमेतद्वक्तव्यं स्यात्, किन्तूक्तम्—
"ईर्ष्या-मात्सर्यसंयोजनाः कौशिका देवमनुष्याः" इति । तस्माद् दशभ्यः
पर्यवस्थानेभ्य एतदेव संयोजनमिति ॥ ४२ ॥
अवरो हि भागः कामधातुरिति । त्रैधातुकसमुदयापेक्षस्य कामधातुरवरो
विहीनो धातुः, एकान्तसमाहितत्वात् । अकुशलधर्मापायगतिदुःखदौर्मनस्य-
सद्भावात् । घनक्लेशत्वाच्च ।
"द्वाभ्यां कामानतिक्रमः" इति । तदप्रहाणे कामधात्वनतिक्रमात् । दौवा-
रिकानुचरसाधर्म्यादिति । दौवारिकसधर्माणौ² कामच्छन्दव्यापादौ । तौ हि
कामधातुबन्धनागारान् निष्क्रमणं न दत्ततः, दौवारिकवत् । अनुचरसधर्माणः
सत्कायदृष्ट्यादयः । १ यथा हि दौवारिकप्रमादे बन्धनागारात् पुरुषो निष्क्रान्तो-
ऽपि दौवारिकानुचरैर्निवर्त्यते । तथेहापि अमीभिरिति । त्रिभिः । सत्त्वावरता-
मिति । पृथग्जनत्वलक्षणं सत्त्वावरतां सत्कायदृष्टि-शीलव्रतपरामर्शविचिकित्सा-
संयोजनैर्नातिक्रामति । द्वाभ्याम् कामच्छन्दव्यापादाभ्याम् । धात्ववरताम्
कामधातुस्वभावां नातिक्रामति नातिवर्तते । आर्येभ्यो ह्यवराः पृथग्जनाः, धातुषु
च कामधातुरवरः । तस्मादेव तान्यवरभागीयानि । अपरे योगाचाराः ।
पर्यादाय त्रिसंयोजनप्रहाणादिति । निरवशेषतः सत्कायदृष्टि-शीलव्रतपरा-
मर्श-विचिकित्सासंयोजनप्रहाणादित्यर्थः । षट् क्लेशाः प्रहीणा इति । पञ्च दृष्टयो
विचिकित्सा च । न तु रागादय उक्ताः, सावशेषत्वात् । तिस्रो दृष्टोरपहायेति ।
१. अत-का०। २. ०सधर्मणौ-जा० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८४१
मुखमूलग्रहात् त्रयम् ॥ ४३ ॥
त्रिप्रकाराः किल क्लेशाः—एकप्रकारा द्विपकाराश्चतुष्प्रकाराश्च । तेषामेभि-
स्त्रिभिर्मुखं गृहीतमिति ।
अपि चान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता, दृष्टिपरमर्शः शीलव्रतपरामर्श-
प्रवर्तितः, मिथ्यादृष्टिर्विचिकित्सा प्रवर्तिता । अतो१ मूलं गृहीतमिति ॥ ४३ ॥
अपरे पुनराहुः—
अन्तग्राह-मिथ्यादृष्टि-दृष्टिपरमर्शदृष्टीः । त्रयमेवाहेति । सत्कायदृष्टि-शीलव्रत-
परामर्श-विचिकित्सात्रयमेवाह । क आह ? भगवान् । तथा हि सूत्रे पठ्यते—
"कियता भदन्त स्रोतापन्नो भवति ? यतश्च महानामन् आर्यश्रावकः 'इदं
दुःखमार्यसत्यम्' इति यथाभूतं प्रजानाति, 'अयं दुःखसमुदयः...’, 'अयं दुःख-
निरोधः...’ , 'इयं दुखनिरोधगामिनी प्रतिपदा आर्यसत्यम्' इति यथाभूत प्रजा-
नाति; त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ति, प्रज्ञातानि, तद्यथा—
सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा च । स एषां त्रयाणां संयोजनानां
प्रहाणात् स्रोतापन्नो भवति अविनिपातधर्मा सम्बोधिपरायणः सप्तकृद्भवपरमः
सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य संधाव्य दुःखस्यान्तं करिष्यति”
( ) इति ।
सर्वमेतद् वक्तव्यं स्यात् । भवेदित्यर्थः । त्रिःप्रकाराः किल क्लेशा इति ।
दर्शनहेया इहाधिकृताः । एकप्रकाराः सत्कायान्तग्राहदृष्टयः, दुःखदर्शनमात्र-
प्रहेयत्वात् । द्विपकाराः शीलव्रतपरामर्शाः । चतुष्प्रकाराः विचिकित्सा-मिथ्यादृष्टि-
दृष्टि-परामर्शाः । तत्र सत्कायदृष्टिर्मुखमेकप्रकाराणाम् । अतः सत्कायदृष्टि-
ग्रहणात् अन्तग्राहदृष्टिरपि गृहीता भवति । विचिकित्सा मुखं चतुःप्रकाराणाम् ।
अतस्तद्ग्रहणात् मिथ्या-दृष्टि-परामर्शाणां ग्रहणं भवति । शीलव्रतपरामर्शस्तु
साक्षादेव गृहीतः । ये तु रागादयो दर्शनहेयाः, तेऽपि तदालम्बनत्वाद् गृहीता
एवेति शक्यते वक्तुमिति । अन्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति । आत्मनः
शाश्वतोच्छेदानुग्रहणात् । दृष्टिपरमर्शः शीलव्रतपरामर्शप्रवर्तित इति । येन
शुद्धिं प्रत्येति, तस्याग्रतो ग्रहणात् । मिथ्यादृष्टिर्विचिकित्साप्रवर्तितेति । संशयि-
तस्य मिथ्याश्रवणचिन्तनान्मिथ्यानिश्श्चयोत्पत्तेः । अतो मूलग्रहणात् मूलसम्भूत-
ग्रहणसिद्धिरित्यन्तग्राहदृष्ट्यादयोऽप्युक्तरूपा वेदितव्याः ॥ ४३ ॥
अपरे पुनराहुरिति । अयमेवाचार्यः ।
१. का० पुस्तके नास्ति ।
८४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
अगन्तुकामता मार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ४४ ॥
त्रयोऽन्तराया देशान्तरगमने भवन्ति—अगन्तुकामता, मार्गविभ्रमोऽन्य-
मार्गसंश्रयणात्, मार्गसंशयश्च । एवं मोक्षगमनेऽप्येत एव त्रयोऽन्तरायाः । तत्र
सत्कार्यदृष्ट्या मोक्षादुत्त्रासमापन्नस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्य-
मार्गसंश्रयणान्मोक्षविभ्रमः । विचिकित्सया मार्गसंशयः । एषां मोक्षगमनान्तरायाणां
प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ॥ ४४ ॥
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् । एवं पुनः—
पञ्चधैवोर्ध्वभागीयम्,
कथम् ? इत्याह—
द्वौ रागौ रूप्यरूपिजौ ।
तौ
औद्धत्यमानमोहाश्च,
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि । तद्यथा—रूपरागः, आरूप्य-
रागः, औद्धत्यम्, मानः, अविद्या च। एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ॥
बन्धनानि कतमानि ? त्रीणि बन्धनानि । रागो बन्धनं सर्वः, द्वेषो
बन्धनं सर्वः, मोहो बन्धनं सर्वः ।
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ?
विद्दशाद् बन्धनत्रयम् ॥ ४५ ॥
मार्गविभ्रमः कथम् ? इत्याह—अन्यमार्गसंश्रयणादिति ॥ ४४ ॥
अवरभागीयसंयोजनवचनादन्यभागीयमप्यस्तीत्यर्थादुक्तं भवति । अतः
इदमुच्यते—पञ्चधैवोर्ध्वभागीयमिति । संयोजनप्रसङ्गः ।
“संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः” (अभि० को० ५.४०) इत्यनेन
सम्भेदेन संयोजननिर्देशानन्तरं बन्धननिर्देशावसरोऽपरपर्यायः । रागो बन्धनं
सर्वमिति । सर्व इति प्रकारतो धातुत्तश्च । सर्वद्वेषः । किं सर्वः ? प्रकारत एव ।
निर्देशः ] पञ्चमं कोशस्थानम् ८४३
त्रिवेदनावशात् त्रीणि बन्धनानि । सुखायां हि वेदनायां रागोऽनुशेते
आलम्बनसम्प्रयोगाभ्याम् । दुःखायां द्वेषः । अदुःखासुखायां मोहो न तथा
रागद्वेषौ । स्वसान्तानिकालम्बनतो वा नियमः ॥ ४५ ॥
अनुशया पूर्वमेवोक्ताः ॥
उपक्लेशाः वक्तव्याः । तत्र ये यावत् क्लेशा उपक्लेशा अपि ते; चित्तो-
पक्लेशात् ।
येऽप्यन्ये चेतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ४६ ॥
येऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त
मोहः सर्वः । प्रकारतो धातुतश्च । आलम्बन-सम्प्रयोगाभ्यामिति । स्व-परसान्तानि-
क्यां सुखायां वेदनायां यथायोगं रागोऽनुशेते । दुःखायां वेदनायां द्वेषः,
आलम्बनसम्प्रयोगाभ्यामित्येव । अदुःखासुखायां मोहः, ताभ्यामित्येव ।
ननु च रागद्वेषावप्यदुःखासुखायां यथायोगं तथैवानुशयाते, कस्मान्मोह
इत्येवोच्यते ? इत्याह - न तथा रागद्वेषाविति । रागद्वेषावप्यनुशयाते, न तु तथा
यथा मोहः । मोहो हि अपटुत्वादपटुत्वाच्चादुःखासुखायां वेदनायामनुकूलत्वात्
सुतरामनुशेत इति स्वसान्तानिकालम्बनतो वा नियम इति । स्वसान्तानिक-
सुखाद्यनुभूतिसामर्थ्यात् तथा नियमः । स्वसन्तानवेदनायां हि सुखायां रागः,
दुःखायां द्वेषः, अदुःखासुखायां मोहः सम्प्रयोगत इति ।
अपरे तु व्याचक्षते - न तथा रागद्वेषाविति । सुखायां यथा रागोऽनुशेते,
न तथा द्वेषः । किं पुनः सुखायामपि द्वेषोऽनुशेते ? अनुशेते शत्रुसुखे
आलम्बनतः । यथा च दुःखायां द्वेषोऽनुशेते, न तथा रागः । किं पुनः दुःखाया-
मपि रागोऽनुशेते ? अनुशेते शत्रुदुःखे आलम्बनतः ।
स्वसान्तानिकालम्बनतो वा नियम इति । अथवा - स्वसान्तानिके सुखे
आलम्बनतः सम्प्रयोगतो वा रागोऽनुशेते, न परसान्तानिके शत्रुसुखे । एवं
दुःखे स्वसान्तानिके द्वेषोऽनुशेते आलम्बनतः सम्प्रयोगतो वा, न पारसान्ता-
निके शत्रुदुःखे - इत्येवं स्वसान्तानिकालम्बनतो नियमः । सुखायां वेदनायां
रागोऽनुशेते, आलम्बनसम्प्रयोगाभ्याम्, दुःखायां द्वेष इति ॥ ४५ ॥
चित्तोपक्लेशादिति । चित्तक्लिष्टकरणात् । येऽप्यन्ये चेतसा इति । क्लेशे-
भ्योऽन्य इत्यर्थः । त उपक्लेशा एवेति । क्लेशसमीपरूपाः । क्लेशो वा समीप-
वर्त्येषामिति । क्लेशप्रवृत्त्यनुवृत्तेरपरिपूर्णक्लेशलक्षणत्वाच्चोपक्लेशः । उप-
`८४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
उपक्लेशा एव¹। ते पुनर्ये क्षुद्रकवस्तुके पठिताः । इह तु पर्यवस्थानक्लेशमल-
संगृहीतानेव निर्देक्ष्यामः ॥ ४६ ॥
कानि पुनः पर्यवस्थानानि ? इत्याह—क्लेशा अपि हि पर्यवस्थानम् ; काम-
रागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् । प्रकरणशास्त्रे तु—
आह्रीक्यमनपत्रप्येर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ४७ ॥
वैभाषिकन्यायेन पुनर्दश पर्यवस्थानानि—एतानि चाष्टौ,
क्रोधम्रक्षौ च,
तत्राह्रीक्यानपत्राप्ये व्याख्याते । परसम्पत्तौ चेतसो व्यारोष ईर्ष्या । धर्मा-
मिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् । औद्धत्यं चेतसोऽव्युपशमः ।
कौकृत्यं स्त्यानं च व्याख्याते । कायसन्धारणसमर्थश्चित्ताभिसंक्षेपो मिद्धम् । तत्तु
निर्देशः ] पञ्चमं कोशस्थानम् ८४५
एषां च दशानां पर्यवस्थानां
रागोत्था आह्रीक्यौद्धत्यमत्सराः ।
एते त्रय उपक्लेशा रागनिःष्यन्दाः ।
म्रक्षे विवादः,
तृष्णानिःष्यन्द इत्येके । अविद्यानिःष्यन्द इत्यपरे । उभयोरित्यन्ये ।
यथाक्रमं ज्ञाताज्ञातानामिति ।
अविद्यातः स्त्यानमिद्धमनपत्रपाः ॥ ४८ ॥
एते त्रयोऽविद्यानिःष्यन्दाः ॥ ४८ ॥
कौकृत्यं विचिकित्साजं¹ क्रोधेर्षे प्रतिघान्वये ।
प्रतिघसमुत्थे इति । एते च दश क्लेशानिःष्यन्दा उपक्लेशाः ।
अन्ये च षट्क्लेशमलाः
तद्यथा--
माया शाठ्यं मदस्तथा ॥ ४९ ॥
प्रदाश उपनाहश्च विहिंसा चेति,
तत्र परवञ्चना माया । चित्तकौटिल्यं शाठ्यम्, येन यथाभूतं नाविष्करोति
विक्षिप्त्यपरिस्फुटं वा प्रतिपद्यते । मदः पूर्वोक्तः । सावद्यवस्तुदृढग्राहिता प्रदाशः,
वस्थानम् । कौकृत्यं चेति । यत् क्लिष्टं मिद्धम्, तत् पर्यवस्थानम् । यत्तु कुशल-
मव्याकृतं वा, न तत् पर्यवस्थानम् । त्रिविधं हि मिद्धमिष्यते, कौकृत्यं च । यत्
क्लिष्टं तत् पर्यवस्थानम्, न कुशलम् । कुशलाकुशलं हि तदिष्यते । व्यापाद-
विहिंसावर्जितः सत्त्वाऽसत्त्वयोराघातः क्रोधः । सत्त्वविषये आघातविशेषो
व्यापादः । 'अमी भवन्तः सत्त्वाः हन्यन्तां वा, बध्यन्तां वा, शीर्यन्तां वा,
अनयेन व्यसनेन आपद्यन्ताम्' इत्याकारप्रवृत्तो व्यापादः । सत्त्वाकर्षण-
सन्त्रासन-तर्जनादिकर्मप्रवृत्ता विहिंसा । ताभ्यामन्यः सत्त्वाऽसत्त्वयोराघातः क्रोधः ।
तद्यथा--शिक्षाकामस्य भिक्षोश्चित्तप्रकोपः, कण्टकादिषु च प्रकोप इति ।
यथाक्रमं ज्ञाताज्ञातानामिति । राजादिभिर्ज्ञातानां म्रक्षवतां पुद्गलानां
म्रक्षस्तृष्णानिष्यन्दः 'मा मे लाभसत्कारो न भविष्यति' इति । अज्ञातानाम-
१. विचिकित्सतः--का० ।
येन न्यायसंज्ञप्तिं न गृह्णाति । आघातवस्तुबहुलीकार उपनाहः । विहेठनं
विहिंसा, येन प्रहारपारुष्यादिभिः परान् विहेठयते ।
एषां पुनः षण्णां क्लेशमलानां
रागजौ ।
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५० ॥
दृष्टपामर्शात् प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
"किं कुटिलम् ? पापिका दृष्टिः" इति गाथावचनाद् युज्यते । शाठ्यं
दृष्टिनिःष्यन्दः ॥ ४९-५० ॥
क एषां किमहातव्यः ? यानि तावत् दश पर्यवस्थानान्युक्तानि,
तत्राहीक्यानपत्राप्स्यत्यानमिद्धोद्धवा द्विधा ॥ ५१ ॥
एते पञ्च धर्मा द्विविधा दर्शन-भावनाप्रहातव्या; उभयप्रकारक्लेशसंप्रयोगात् ।
यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः ॥ ५१ ॥
तदन्ये भावनाहेयाः,
तेभ्योऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव । ईर्ष्यामात्सर्य-
विद्यानिष्यन्दः कर्मस्वकतामश्रद्दधानस्तदवद्यं प्रच्छादयति । न परस्यान्तिके
विशुद्धयर्थं देशयतीति एवमुभयनिष्यन्दो म्रक्ष इत्येके ।
कथमनपत्राप्यमविद्यानिष्यन्दः ? यस्मात् 'अवद्ये भयदर्शित्वमत्रपा'
(अभि० को० २.३३) इति । यत् क्लिष्टं तदेव पर्यवस्थानाधिकारात् ॥ ४८ ॥
"क्लेशमलाः" इति । यथा शरीरान्मला जायन्ते, एवमिमे मायादयो मला
इव क्लेशेभ्य उत्पद्यन्ते । क्षिपति प्रेरयति । मदः पूर्वोक्तः । "मदः स्वधर्मे रक्तस्य
पर्यादानं तु चेतसः" (अभि० को० २.३४) इति ॥ ४६-५० ॥
यश्च यद्दर्शनहेयसम्प्रयुक्त इति । यस्य सत्यस्य दर्शनम् = यद्दर्शनम्,
यद्दर्शनेन हेयः = यद्दर्शनहेयः, तेन सम्प्रयुक्तः = यद्दर्शनहेयसम्प्रयुक्तः । स
तद्दर्शनहेयः । स तस्य दर्शनस्य दर्शनेन हेयः । कः ? आहीक्यादिः । तदन्ये
भावनाहेया एव ॥ ५१ ॥
तेभ्योऽन्य इति । आहीक्यादिभ्योऽन्ये ईर्ष्यादयो भावनाहेया एव । न
दर्शनहेयाः ।
निर्देशः ] पञ्चमं कोशस्थानम् ८४७
कौकृत्यक्रोधम्रक्षाः स्वतन्त्राश्च । स्वतन्त्राश्चैते पञ्चोपक्लेशाः, अधिमात्रसम्प्रयोगि-
त्वात् । यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः,
स्वतन्त्राश्च तथा मलाः ।
षट्क्लेशमलास्तथैव । एते पुनर्यथोक्ता उपक्लेशाः
कामेऽशुभाः,
कामधातावकुशलाः । तत्रापि
त्रयो द्विधा,
स्त्यानौद्धत्यमिद्धानि अकुशलाव्याकृतानि ।
परेणाव्याकृतास्ततः ॥ ५२ ॥
कामधातोरूर्ध्वमव्याकृताः उपक्लेशा यथासम्भवम् ॥ ५२ ॥
कति पुनरेषां कुतस्त्या वेदितव्याः ?
माया शाठ्यं च कामाद्यध्यानयोः,
एतौ द्वौ कामधातौ प्रथमे च ध्याने । कथं ब्रह्मलोके माया ?
ब्रह्मवचनात् ।
स हि तत्र महाब्रह्मा वितथात्मसन्दर्शनतया आयुष्मन्तमश्वजितं वञ्च-
यितुं प्रवृत्तः । उक्तमपि शाठ्यं प्रसङ्गेनागतं१ पुनरेवोक्तम् ।
स्वतन्त्राश्चैते । न रागादिपरतन्त्रा इत्यर्थः ।
स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानीति । पर्यवस्थानाधिकारात् मिद्धं कुशल-
मपीति नोच्यते ।
“परेणाव्याकृतास्ततः” इति । यथासम्भवमिति । कामधातोः परेण यावन्तः
सम्भवन्ति, ते पुनर्मायाशाठ्यादयः ॥ ५२ ॥
वितथात्मसन्दर्शनतयेति । वितथस्यात्मनः सन्दर्शनतया महाब्रह्मा आयुष्मन्त-
मश्वजितं वञ्चयितुं प्रवृत्तः 'कुत्रेमानि ब्रह्मन् ! महाभूतानि अपरिशेषं
निरुध्यन्ते” इति पृष्टोऽप्रजानन् क्षेपमकार्षीत्—“अहमस्मि ब्रह्मा महाब्रह्मा
ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्' इति मायया वञ्चयितु-
मारब्धः । अथ स महाब्रह्मा आयुष्मन्तमश्वजितं करे गृहीत्वा एकान्तेऽस्थात् ।
१. प्रसङ्गागतं—का० ।
७४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
स्त्यानौद्धत्यमदा धातुत्रये,
एते त्रयस्त्रैघातुकाः ।
अन्ये कामधातुजाः ॥ ५३ ॥
षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव ॥ ५३ ॥
उक्ताः क्लेशा उपक्लेशाश्च ॥
अथैषामनुशयानां कति मनोभूमिकाः ? कति षड्विज्ञानकायिकाः ? संक्षेपतः
समानमिद्धा दृग्धेया मनोविज्ञानभूमिकाः ।
दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि ।
ते हि सकले मनोभूमिके ।
उपक्लेशाः स्वतन्त्राश्च,
ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका
एव द्रष्टव्याः ।
षड्विज्ञानाश्रयाः परे ॥ ५४ ॥
अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः । के पुनरन्ये ?
भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्सम्प्रयुक्ताः, आहीक्यानपत्रप्य-
स्त्यानौद्धत्यानि, ये च क्लेशमहाभूमिकेषूक्ताः ॥ ५४ ॥
यानीमानि सुखादीनि पञ्चेन्द्रियाणि, एषां कतमेनेन्द्रियेण कतमः क्लेश
उपक्लेशो वा सम्प्रयुक्तः ?
सुखाभ्यां सम्प्रयुक्तो हि रागः,
एकान्ते स्थितश्चेदमुक्तवान्— 'विद्यमाने तथागते मां प्रष्टव्यं मन्यसे'— इतीदमस्य
शाठ्यं दृश्यते । स्वपरिषल्लज्जया ह्यात्मीयाज्ञानतां निगूहमानः स तथा कृतवा-
निति । उक्तमपि शाठ्यमिति । तथा हि— “कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न
सन्त्यतः” (अभि० को० २.३१) इति । अत्रोक्तमपि प्रसङ्गेनेति । “परेणाव्या-
कृतांस्त्वतः” ६ति प्रसङ्गेनेति । पञ्चापनीयेति । माया-शाठ्य-स्त्यानौद्धत्य-
मदान् ॥ ५३ ॥
ते हि सकले मनोभूमिके इति । मानमिद्धे ।
“उपक्लेशाः स्वतन्त्राश्च” इति । ईर्ष्यामात्सर्यादयः । ये च क्लेशमहाभूमि-
निर्देशः ] पञ्चमं कोशस्थानम् ८४९
सुखसौमनस्याभ्यां रागः सम्प्रयुक्तः ।
द्वेषो विपर्ययात् ।
दुःखाभ्यामित्यर्थः । दुःखेन दौर्मनस्येन च । हर्षदैन्याकारवर्तित्वात् षड्-
विज्ञानभूमिकत्वाच्च रागद्वेषयोः ।
मोहः सर्वैः
अविद्यायाः सर्वक्लेशसम्प्रयोगित्वात् पञ्चभिरपीन्द्रियैः सम्प्रयोगः ।
असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५५ ॥
मनोदुःखं दौर्मनस्यम्, मनःसुखं सौमनस्यं च । ताभ्यां मिथ्यादृष्टिः
सम्प्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् ॥ ५५ ॥
दौर्मनस्येन काङ्क्षा,
संशयितो हि निश्चयेनार्थी दुर्मनायते ।
अन्ये सौमनस्येन,
अन्येऽनुशयाः सौमनस्येनैव संप्रयुक्ताः । के पुनरन्ये ? चतस्रो दृष्टयः,
मानश्च । हर्षाकारवर्तित्वात् ।
किंप्रतिसंयुक्ता इमेऽनुशया निर्दिष्टाः ? आह—
कामजाः ।
एवं प्रतिनियतं सम्प्रयोगमुक्त्वा सामान्येनाह—
सर्वेऽप्युपेक्षया,
क्लेषूक्ता इत्याश्रद्ध्य-कौशीद्य-प्रमादा एव, नान्ये, स्त्यानौद्धत्ययोरिहैव पूर्वे
गृहीतत्वात् । मोहस्य क्लेशग्रहणेन ग्रहणात् ॥ ५४ ॥
“सुखाभ्याम” इति । सुखवेदनास्वभावाभ्यामिन्द्रियाभ्यामित्यर्थः। हर्षदैन्या-
कारवर्तित्वादिति । हर्षाकारवर्ती रागः दैन्याकारवर्ती द्वेष इति यथासङ्ख्येन ।
षड्विज्ञानभूमिकत्वाच्चेति । पञ्चविज्ञानभूमिकत्वाद् रागः सुखेन्द्रियेण । मनो-
विज्ञानभूमिकत्वात्तु रागः सौमनस्येन्द्रियेण, द्वेषश्च दौर्मनस्येन्द्रियेण सम्प्रयुक्तः ।
पुण्यकर्मणां पापकर्मणां च यथाक्रममिति । पुण्यकर्मणां मिथ्यादृष्टिर्दौर्मनस्येन
सम्प्रयुक्ता, पुण्यक्रियाया नैरर्थक्यदर्शनात् । पापकर्मणां मिथ्यादृष्टिः सोमनस्येन
सम्प्रयुक्ता, स्वकृतपापवैफल्यदर्शनात् ।
चतस्रो दृष्टय इति । सत्कार्यदृष्टिः, अन्तग्राहदृष्टिः, दृष्टिपरामर्शः,