अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 857, कुल 1258 में से
संदर्भ में पढ़ें८३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम्, द्वे
पुनर्द्दष्टी परामर्शसंयोजनं पृथक् ?
द्रव्यामर्शनसामान्याद् दृष्टिः संयोजनान्तरम् ॥ ४१ ॥
अष्टादश द्रव्याणि तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । अतः
किल द्रव्यसामान्यादेते संयोजनान्तरं कृते । एते च द्वे परामर्शस्वभावे¹,
न² शेषा इति परामर्शनसामान्यादप्येते पृथग्विहिते; ग्राह्यग्राहकभेदात् ॥ ४१ ॥
अथ कस्मादीर्ष्यामात्सर्ये संयोजने पृथक् संयोजनद्वयमुक्तं नान्यत् पर्य-
वस्थानम् ?
एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः ।
ईर्ष्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम् ॥ ४२ ॥
“दृष्टिः संयोजनान्तरम्” इति । परामर्शदृष्टिः । अष्टादश द्रव्याणि तिस्रो
दृष्टयो भवन्तीति वाक्यशेषः । अष्टादशसंख्येयद्रव्याः सत्कायान्तग्राहमिथ्या-
दृष्टय इति वाक्यार्थः । अष्टादशैव । द्रव्याणीति प्रकृतम् । द्वे परामर्शदृष्टी
भवन्ति । कथम् ? कामधातौ सत्कायान्तग्राहान्तग्राहदृष्टी द्वे, ते च दुःख-
दर्शनप्रहातव्ये एवेष्टे । मिथ्यादृष्टिस्तु चतुःप्रकारा—दुःखदर्शनप्रहातव्या,
यावन् मार्गदर्शनप्रहातव्या । इत्येवं कामधातौ षड् भवन्ति । यथा काम-
धातौ षट्, एवं रूपधातौ, आरूप्यधातौ चेति अष्टादश भवन्ति ।
अष्टादशैव द्वे परामर्शदृष्टी । कथम् ? कामधातौ दृष्टिपरामर्शो दुःखदर्शन-
प्रहातव्यो यावन् मार्गदर्शनप्रहातव्यः—इति चतुःप्रकारः; शीलव्रतपरामर्शो-
ऽपि दुःखदर्शनप्रहातव्यः, मार्गदर्शनप्रहातव्यश्चेति द्विप्रकारः—इत्येवं षड्
भवन्ति । यथा कामधातौ, एवं रूपधातावारूप्यधातौ च इत्येवमष्टादश
द्रव्याणि भवन्ति ।
न शेषा इति द्रष्टव्यः । ग्राह्यग्राहकभेदादिति । दृष्टिसंयोजनं ग्राह्यम्, परा-
मर्शसंयोजनं ग्राहकमिति ॥ ४१ ॥
“यतः” इति । यतः कारणात् । एकान्तकुशलस्वातन्त्र्यलक्षणात् ।
“एषूक्तम्” इति । एषु आह्नीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम् ईर्ष्या-
१-१. ०स्वभावेन—का० ।