अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 860, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] पञ्चमं कोशस्थानम् ८४१
मुखमूलग्रहात् त्रयम् ॥ ४३ ॥
त्रिप्रकाराः किल क्लेशाः—एकप्रकारा द्विपकाराश्चतुष्प्रकाराश्च । तेषामेभि-
स्त्रिभिर्मुखं गृहीतमिति ।
अपि चान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता, दृष्टिपरमर्शः शीलव्रतपरामर्श-
प्रवर्तितः, मिथ्यादृष्टिर्विचिकित्सा प्रवर्तिता । अतो१ मूलं गृहीतमिति ॥ ४३ ॥
अपरे पुनराहुः—
अन्तग्राह-मिथ्यादृष्टि-दृष्टिपरमर्शदृष्टीः । त्रयमेवाहेति । सत्कायदृष्टि-शीलव्रत-
परामर्श-विचिकित्सात्रयमेवाह । क आह ? भगवान् । तथा हि सूत्रे पठ्यते—
"कियता भदन्त स्रोतापन्नो भवति ? यतश्च महानामन् आर्यश्रावकः 'इदं
दुःखमार्यसत्यम्' इति यथाभूतं प्रजानाति, 'अयं दुःखसमुदयः...’, 'अयं दुःख-
निरोधः...’ , 'इयं दुखनिरोधगामिनी प्रतिपदा आर्यसत्यम्' इति यथाभूत प्रजा-
नाति; त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ति, प्रज्ञातानि, तद्यथा—
सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा च । स एषां त्रयाणां संयोजनानां
प्रहाणात् स्रोतापन्नो भवति अविनिपातधर्मा सम्बोधिपरायणः सप्तकृद्भवपरमः
सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य संधाव्य दुःखस्यान्तं करिष्यति”
( ) इति ।
सर्वमेतद् वक्तव्यं स्यात् । भवेदित्यर्थः । त्रिःप्रकाराः किल क्लेशा इति ।
दर्शनहेया इहाधिकृताः । एकप्रकाराः सत्कायान्तग्राहदृष्टयः, दुःखदर्शनमात्र-
प्रहेयत्वात् । द्विपकाराः शीलव्रतपरामर्शाः । चतुष्प्रकाराः विचिकित्सा-मिथ्यादृष्टि-
दृष्टि-परामर्शाः । तत्र सत्कायदृष्टिर्मुखमेकप्रकाराणाम् । अतः सत्कायदृष्टि-
ग्रहणात् अन्तग्राहदृष्टिरपि गृहीता भवति । विचिकित्सा मुखं चतुःप्रकाराणाम् ।
अतस्तद्ग्रहणात् मिथ्या-दृष्टि-परामर्शाणां ग्रहणं भवति । शीलव्रतपरामर्शस्तु
साक्षादेव गृहीतः । ये तु रागादयो दर्शनहेयाः, तेऽपि तदालम्बनत्वाद् गृहीता
एवेति शक्यते वक्तुमिति । अन्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति । आत्मनः
शाश्वतोच्छेदानुग्रहणात् । दृष्टिपरमर्शः शीलव्रतपरामर्शप्रवर्तित इति । येन
शुद्धिं प्रत्येति, तस्याग्रतो ग्रहणात् । मिथ्यादृष्टिर्विचिकित्साप्रवर्तितेति । संशयि-
तस्य मिथ्याश्रवणचिन्तनान्मिथ्यानिश्श्चयोत्पत्तेः । अतो मूलग्रहणात् मूलसम्भूत-
ग्रहणसिद्धिरित्यन्तग्राहदृष्ट्यादयोऽप्युक्तरूपा वेदितव्याः ॥ ४३ ॥
अपरे पुनराहुरिति । अयमेवाचार्यः ।
१. का० पुस्तके नास्ति ।