अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 855, कुल 1258 में से
संदर्भ में पढ़ें८३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
णोऽपि¹ योगाः; विविधदुःखयोजनात्²। अभीक्ष्णानुषङ्गतो³ वा कामाद्युपादानादु-
पादानानीति ॥ ४० ॥
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा
भित्वोक्ताः । तत्र नव संयोजनानि—अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचि-
कित्सेर्ष्यामात्सर्यसंयोजनानि । तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि
यथासम्भवं योज्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः । परामर्शसंयोजनं द्वे
दृष्टी ।
अत एवोच्यते—स्याद् दृष्टिसम्प्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्त्तो
समुदाचारिणस्ते योगाः, ये त्वधिमात्रसमुदाचारिण एव ते ओघा इति । कथं
च ते योगाः ? इत्याह—विविधदुःखयोजनात् । जात्यादिभिर्विविधैर्दुःखैर्योज-
नादित्यर्थः । अभीक्ष्णानुषङ्गतो वा । यस्माद् वा सन्ततावभीक्ष्णं युज्यते, तस्माद्
योगा इति । कामाद्युपादानादिति । यैः कामादय उपादीयन्ते, तानि कामाद्यु-
पादानानिच्छन्दरागात्मकानि ॥ ४० ॥
ते एवानुशयाः पुनर्यावत् पर्यवस्थानभेदेन पञ्चधामित्वोक्ताः इति । त एवा-
नुशया आश्रवादिभेदेन चतुर्धोक्ताः संयोजनबन्धनानुशयोपक्लेश-पर्यवस्थान-
भेदेन पुनः पञ्चधा भित्वोक्ताः सूत्रेऽभिधर्मे च । ननु चानुशयव्यतिरिक्तान्या-
ह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यन्ते, कथमिदमुच्यते—अनुशया एव पर्य-
वस्थानानि ? सत्यं भवन्ति तद्व्यतिरिक्तानि, अव्यतिरिक्तान्यपि त्विष्यन्ते ।
तथा हि वक्ष्यति—"क्लेशोऽपि हि पर्यवस्थानम् ; 'कामरागपर्यवस्थानप्रत्ययं
दुःखं प्रतिसंवेदयते' इति सूत्रे वचनात्" (अभि० को० ५.४७) इति ।
एवमन्यान्यपि यथासम्भव योज्यानीति । प्रतिघेर्ष्यामात्सर्यसंयोजनानि
कामावचराणि । मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रिधातुकाणि ।
दृष्टिसंयोजनं तिस्रो दृष्टयः इति । सत्कायान्तग्राहमिथ्यादृष्टयः । परामर्शसंयोजनं
द्वे दृष्टीति । दृष्टि-शीलव्रतपरामर्शौ । अत एवोच्यत इति । यत एव ति .
दृष्टयः—दृष्टिसंयोजनम्, द्वे दृष्टी—परामर्शसंयोजनम् अत एवोच्यते ।
१. नातिमात्र०—का० । २. दुःखसंयोजनात्—का० ।
३. आभीक्ष्ण्या०—का० ।