अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 861, कुल 1258 में से
संदर्भ में पढ़ें८४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
अगन्तुकामता मार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ४४ ॥
त्रयोऽन्तराया देशान्तरगमने भवन्ति—अगन्तुकामता, मार्गविभ्रमोऽन्य-
मार्गसंश्रयणात्, मार्गसंशयश्च । एवं मोक्षगमनेऽप्येत एव त्रयोऽन्तरायाः । तत्र
सत्कार्यदृष्ट्या मोक्षादुत्त्रासमापन्नस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्य-
मार्गसंश्रयणान्मोक्षविभ्रमः । विचिकित्सया मार्गसंशयः । एषां मोक्षगमनान्तरायाणां
प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ॥ ४४ ॥
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् । एवं पुनः—
पञ्चधैवोर्ध्वभागीयम्,
कथम् ? इत्याह—
द्वौ रागौ रूप्यरूपिजौ ।
तौ
औद्धत्यमानमोहाश्च,
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि । तद्यथा—रूपरागः, आरूप्य-
रागः, औद्धत्यम्, मानः, अविद्या च। एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ॥
बन्धनानि कतमानि ? त्रीणि बन्धनानि । रागो बन्धनं सर्वः, द्वेषो
बन्धनं सर्वः, मोहो बन्धनं सर्वः ।
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ?
विद्दशाद् बन्धनत्रयम् ॥ ४५ ॥
मार्गविभ्रमः कथम् ? इत्याह—अन्यमार्गसंश्रयणादिति ॥ ४४ ॥
अवरभागीयसंयोजनवचनादन्यभागीयमप्यस्तीत्यर्थादुक्तं भवति । अतः
इदमुच्यते—पञ्चधैवोर्ध्वभागीयमिति । संयोजनप्रसङ्गः ।
“संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः” (अभि० को० ५.४०) इत्यनेन
सम्भेदेन संयोजननिर्देशानन्तरं बन्धननिर्देशावसरोऽपरपर्यायः । रागो बन्धनं
सर्वमिति । सर्व इति प्रकारतो धातुत्तश्च । सर्वद्वेषः । किं सर्वः ? प्रकारत एव ।